Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८
अभिधानसंग्रह : - ९ निघण्टुशेषः ।
२२४
२२९
२३१
२३२
२३३
२३४
२३५
वार्षिकं बदरावृष्टि वाराही बलभद्रिका | बलदेवा... सुत्राणा विष्वक्सेनप्रियापि च ॥ यवासके धन्वयासो यासो धन्वयवासकः । दूरमूलो दीर्घमूलो बालपत्री मरुद्भवः ॥ २२५ कुनाशकोऽधिष्टकण्टस्ताम्रमूली प्रचोदनः । दुस्पर्शः कच्छुरानन्ता समुद्रान्ता दुरालभा ॥ २२६ किराततिक्ते किरातो रामसेनः किरातकः । अनार्यतिक्तको हैमो भूनिम्बः काण्डतिक्तकः ॥ २२७ कुष्टे तु पाकलं रामं वानीरं वाप्यमुत्पलम् । वानीरजं वापिभाव्यं कौरवं व्याधिनामकम् ॥ २२८ बालके जलकेशाख्यं बर्हिष्टं दीर्घरोमकम् । ह्रीवेरो दीच्यवज्जाणिपिङ्गमाचमनं रुचम् ॥ शढ्यां पलाशः षड्मन्था गन्धाली हिमजा वधूः । कर्बुरः सुत्रता ग्रन्थमूली पृथुफलाशिका ॥ २३० एलावालुके कैलेयं वालुकं हरिवालुकम् । सुगन्ध्यालूकमेल्वालु दुर्वणप्रसरं दृढम् ॥ कुङ्कुमे रक्तपर्यायं संकोचपिशुनं शुकम् । हीरं कुसुम्भं घुसृणं पीतं वाल्हीकपीतने ॥ काश्मीरजं वह्निशिखं वरं लोहितचन्दनम् । जात्यां तु रजनीपुष्पा मालती तैलभाविनी ॥ प्रियंवदा हृद्यगन्धा मनोज्ञा सुमनालता । तस्यास्तु कलिकायां स्यात्पत्री सौमनसायिनी ॥ जातीफले जातिकोशं शालूकं मालतीफलम् । मज्जसारं जात्यमृतं शौण्डं सौमनसंपुटम् ॥ यूथिकायां बालपुष्पा मागधी शङ्खयूथिका । गुणोह्वला पुण्यगन्धा चारुमोदा शिखण्डिनी || २३६ अष्टा गणिका सा तु पीता स्याद्धेमपुष्पिका । कुन्दे माध्यः सदापुष्पो मकरन्दो मनोहरः ॥ २३७ अट्टहासो भृङ्गमित्रं शाल्योदनो यमश्वसः । स्यान्नवमालिकायां तु मोमाली नवमालिनी ॥ २३८ सत्सला सुकुरारातिः सुरतिः शिशुगन्धिका । कान्ता विभावरी ग्रीष्मा प्रैष्मिका शिखरिण्यपि || २३९ मल्लिकायां शीतभीरुर्मदयन्ती प्रमोदनी । अष्टापदी तृणशूल्यं गवाक्षा भूपदीत्यपि ॥ २४० वार्षिक्यां षट्पदानन्दी श्रीमती सुभगा प्रिया । सुवर्षा त्रिपुटा व्यस्रसुरूपा मुक्तबन्धनात् || २४१ कुमार्यौ तु वणिचारुकेसरा भृङ्गसंमता । तरणी रामतरणिर्गन्धाढ्या कन्यका सहा || अमिलाने स्यादम्लानौ .... "महासहा । रक्तपुष्पः कुरुबकः पीतपुष्पः कुरण्टकः ॥ सैरेयके सहचरो झिण्टी महावरश्च सः । स तु रक्तः कुरबकः स्यात्पीतस्तु कुरण्टकः ॥ नील आर्तगलो दिसी बाण ओदनपाक्यपि । किंकिराते किंकिराटः पीतभद्रः प्रलोभ्यपि ॥ चित्रके वल्लरीव्यालः पाठीनो दारुणः कुटः । ज्योतिष्को जरणोऽम्याख्यो वलिनर्थी पिपाठिन: २४६ वासन्त्यां स्यात्प्रहसन्ती सुवसन्ता वसन्तजा । सेव्यालिबान्धवा शीतसंवासा सीतप्लावसा ॥ २४७ नील्यां श्रीफलका काला दोलामेलाविशोधनी । तूणी तुच्छा भारवाही रञ्जनी मधुपर्णिका ॥ २४८ द्रोणी क्लीकिका ग्राम्या नीलकेशी महारसा । दमने स्याद्राह्मजटा मुनिर्दान्तर्षिपुत्रकौ ॥ गन्धोत्कटः पुण्डरीकः पाण्डुरागस्तपव्यपि । धतूरे धूर्तधत्तूरौ कितवो देवता शठः ॥ घण्टा पुष्पस्तलफलो मातुलः कनकाह्वयः । उन्मत्तो मदनश्चास्य फलं मातुलपत्रकम् ॥ शङ्खपुष्पी क्षीरपुष्प शिवब्रह्मकिरीटिनी । मधुपुष्पी मधुगन्धा शङ्खाह्वा शङ्खमालिनी ॥ धूसरच्छदना श्वेतपुष्पी वनविलासिनी । कर्चूरे द्रविडः काल्यो वेधान्यो गन्धमूलकः ॥ मोचामस्त्वजमोदायां मयूरो लोच मस्तकः । खराश्वा कारवी वस्तगन्धा हस्तिमयूरकः ॥ वल्ली ब्रह्मदर्भा लोचमर्कट इत्यपि । यवान्यां स्यादुग्रगन्धा यमनी यवसाह्वयः ॥ सहदेव्यां तथा दण्डोत्पला गोचन्दना वसा । गन्धवर्णा सितैः पुष्पैर्विश्वदेवानुसारुणैः ।। पर्पेटके वरतिक्तो रजः कवचनामकः । गोजिकायां शृङ्गवेरो दार्विका भूमिकालिका ॥
२४२
२४३
२४४
२४५
२४९
२५० २५१
२५२
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
•
२५३
२५४
२५५
२५६
२५७

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180