Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-९ निघण्टुशेषः । आटरूषे वृषो वासा वाशिका वाजिदन्तकः। भिषजमाता सिंहमुखः सिंहिका सिंहपणिका १५८ तुम्बरौ सानुजः सौरः सौरभो वनजोऽन्धकः । तीक्ष्णवल्कस्तीक्ष्णफलतीक्ष्णपत्रो महामुनिः॥ १५९ कदल्यां तु हस्तिविषा रम्भा मोचांशुमत्फला । काष्ठीला वारणवुशा स्यात्कालीरस इत्यपि ॥ १६० तगरे कालानुसार्य चक्राख्यो मधुरो नृपः । तूले ." ब्रह्मचारु ब्रह्मण्यं ब्रह्मकाष्ठकम् ॥ १६१ ब्रह्मनिष्ठं च दापं च क्रमुकं ब्रह्मचारि च । मुष्कके मोक्षको घण्टा क्रन्दालो मोक्षमुञ्चकौ ॥ १६२ पाटलिगोलिहः क्षारश्रेष्ठः कृष्णः सितश्च सः । वंशे यवफलो वेणुः शतपर्वा तृणध्वजः॥ १६३ मस्करस्त्वचिसारस्त्वक्सारकर्मारतेजनाः । गाङ्गेरुक्यां विश्वदेवदेवाहस्वाङ्गवेधुका ॥ १६४ खण्डारिष्टा नागबला स्वरबन्धनिकेत्यपि । दार्वी दारहरिद्रायां पीता कटङ्कटेरिका ॥ १६५ पीतद्रुमः पीतदारु पीतनं पीतचन्दनम् । पर्जनी कर्कटकिनी कालेयकः पचम्पचा॥ १६६ ग्रन्थिपणे श्लिष्टपर्ण विकीर्ण शीर्णरोमकम् । कुकुरं च तथा गुच्छं शुकपुष्पं शुकच्छदम् ॥ १६७ स्थौणेयकं वहिचूडा सुगन्धग्रन्थिकावपि । स्पृकायां ब्राह्मणी पङ्कमुष्टिकापि श्वनावधूः॥ १६८ समुद्रान्ता मरुन्माला निर्माल्या देवपुत्रिका । लङ्कातिका कोटिवर्षा देवी पङ्कजमुष्टिका ॥ १६९ गोमी स्वर्णलतेन्द्राणी मरन्माला लता लघुः। विडङ्गे केरला मोघा तन्दुलः कृष्णतन्दुलः॥ १७० वेल्लकः कृमिहा जन्तुघातको मृगगामिनी । इन्द्राक्षे ऋषभो वीरः श्रीमान्वृषभनामकः॥ १७१ धूधुरो गोपतिः शृङ्गी बन्धुरः पृथिवीपतिः । ऋद्वौ सिद्धिर्युगं योग्यं रथाङ्गं मङ्गलं तथा । १७२ ऋषिसृष्टसुखं लक्ष्मीर्वृद्धेरप्याह्वया अमी । पद्मके मालकः पीतो रक्तश्चरुसरुश्यवः ॥ सुसभः शीतवीर्यश्च पाटलः पीतवर्णकः । कङ्कुष्टे स्यात्काककुष्टः पुलकः काकपालकः॥ १७४ रेचनः शोधनो हासो विडङ्गो रङ्गदायकः । परूषके स्यादल्पास्थिः परुषो नीलपर्णकः॥ १७५ परोऽपरः परश्चैष परिमण्डल इत्यपि । खजूरे त्वग्रुजः पिण्डी निःश्रेणिः स्वादुमस्तकः॥ १७६ खजूरिकायां स्याभूमिखर्जूरी काककर्कटी । ताले तलो लेख्यपत्रस्तृणराजो ध्वजद्रुमः ॥ १७७ नालिकेरे रसफलो लाङ्गली कूर्चकेसरः । दाक्षिणात्यो दृढफलो नारिकेरो लतातरुः ॥ १७८ 'पूगे गुवाकः क्रमुकः पूगी च नीलवल्कलः । एतस्य फलमुद्वेगं चिकणे तत्र चिकणम् ॥ १७९ केतके तु रजःपुष्पो जम्बूलः क्रमुकच्छदः । हिन्ताले तु तृणराजो राजवृक्षो लताङ्कुरः।। १८० ताल्यां तु मृत्युपुष्पा स्यादेकपत्रफलापि च । खजूरतालखर्जूरीतालीहिन्तालकेतकाः॥ १८१ क्रमुको नालिकेरश्च स्युरेते तृणपादपाः ।।
इत्याचार्यश्रीहेमचन्द्रविरचिते निघण्टुशेषे प्रथमो वृक्षकाण्डः ।
१८२
सिन्दुवारे तु निर्गुण्डी सिन्दुको नीलसन्धिकः । शीतसहा च सुरसा चेन्द्राणी सिन्दुवारकः१८३ सा नीला वनशेफाली सुपुष्पा नीलमअरी । श्वेता तु श्वेतसुरसा गोलोमा भूतकश्यपि ॥ १८४ शेफालिकायां सुवहा निर्गुण्डी नालिकासुता । सुरसा रक्तवृन्ता च श्वित्रन्नी पुष्पवर्षिणी ॥ १८५ सा तु शुक्ला भूतकेशी सत्यनानी बहुक्षमा । प्रियङ्गो प्रियकः कङ्गुः प्रियवल्ली प्रियालता ॥ १८६ विष्वक्सेना गन्धफली कारम्भा फलिनी फली । गुन्द्रा गोवन्दनी श्यामा योषाहा पर्णभेदिनी१८७ मधुरायां यष्टीमधुस्तल्लक्षणा मधुस्रवा । क्लीतकं च जलजासौ मधुपर्णी मधूलिका ॥ अश्वगन्धायां तुरङ्गी कम्बुकाश्वावरोहकः । अश्वकन्दो बहुगन्धा पुत्रदा कोलकर्ण्यपि ॥ १८९
१८८
For Private and Personal Use Only

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180