Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 152
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ वृक्षकाण्डः। सुगन्धिपत्रा सान्या तु काकजम्बू: कुजम्बुका । उशीरपत्रा नादेयी वैदेशी काकवल्लभा॥ १२४ मदने छर्दनो राठः शल्यको विषनाशनः । करहाटो मरुबकः पिण्डी पिण्डीतकः फलः ॥ १२५ सूर्यपुत्रकर्कटको विषगन्धो विषोदरः । मश्यान्तकफलो राजपुत्रकः कफवर्धनः ॥ १२६ कुब्जके कामुकं श्यामसारः फुल्लो मिसिद्रुमः । निचुले तु नदीकान्तोऽम्बुजो हिज्जल इजलः ॥१२७ गन्धपुष्पो गुच्छफलोऽनुवाकः कच्छकोल्यपि । वेतसे विदुलः शीतो नदीकूलप्रियो रथः ॥ १२८ अभ्रपुष्पः पत्रमाली वाणीरो वञ्जुलोऽपि च । स्यादम्बुवेतसे भीरु देयी बालभीरुकः॥ १२९ विदुलो मञ्जरीनम्रः परिव्याधो निकुञ्जकः । वरुणे गन्धवृक्षः स्यात्तिक्तशाकः कुमारकः॥ १३० श्वेतपुष्पः श्वेतफलस्तमालो मारुतापहः । साधुवृक्षः श्वेतवृक्षः सेतुरश्मरिकारिपुः॥ १३१ अङ्कोटे स्यात्पातसारो दीर्घकीलो निकोचकः । अकोलकस्ताम्रफलो रेचको गन्धपुष्पकः ॥ १३२ भल्लातके वीरतरुररुष्कोऽरुष्करो व्रणः । भौतिको भूतनुभूरिस्नेहः शोफकरो धनुः ॥ १३३ अग्निमुखी बहुपत्रो भल्ली सूर्याग्निसंज्ञकः । अरिष्ठे स्यात्कृष्णवर्णो रक्तबीजोऽर्थसाधनः॥ १३४ शुभनामा पीतफेनः फेनिलो गर्भपातनः । निम्बे तु सर्वतोभद्रः पारिभद्रः सुतिक्तकः॥ १३५ पिचुमन्दो यवनेष्टः शुकेष्टः शुकमालकः । अरिष्टो हिङ्गुनिर्यासो वेता नियमनोऽपि च ॥ १३६ महानिम्बे निम्बकश्च कार्मुको विषमुष्टिकः । रम्यकः क्षीबको वृक्षोऽक्षिपीलुः केशमुष्टिकः॥१३७ पीलौ स्रंसी सहस्राङ्गः शीतः करभवल्लभः । गुल्मारिर्गुडफलश्चाथास्मिंस्तु गिरिसंभवे ॥ १३८ अक्षोटः कर्परालश्च फलस्नेहो गुहाशयः। पारावाते तु साराम्लो रक्तमालः परावतः ॥ १३९ आरेवतः सारफलो महापारावतो महान् । कपोताण्डतुल्यफलो रुद्राक्षे तु महामुनिः ॥ १४० स तु चतुर्मुखो ब्रह्मा द्विमुखस्तु वरार्गलः । षण्मुखस्तु कार्तिकेयः पञ्चमुखस्तु शंकरः॥ माधवस्वेकवदनो विजयाशस्त्रधारणः । पुत्रंजीवे बक्षफलः कुमारजीवनामकः ॥ १४२ करजे स्यान्नक्तमालः पूतीकश्चिरबिल्वकः । करजः श्लीपदारिश्च प्रकीर्यः कलिनाशनः॥ १४३ भेदास्त्वस्य त्रयस्तत्र षड्यन्था हस्तिवारुणी । मर्कट्यां तु कृतमाल उदकीयः प्रकीर्यकः ॥ १४४ अङ्गारवल्यां शार्ङ्गस्था कासनी करतालिका । रोहीतके रोहितको रोही दाडिमपुष्पकः॥ १४५ रोहडकः सदापुष्पो रोचना प्लीहरक्तहा । कटफले तु सोमवल्कः कैटर्यो गोपभद्रिका ॥ १४६ कुम्भी कुमुदिका भद्रा श्रीपर्णी भद्रवत्यपि । दाडिमे कुट्टिमः कीरवल्लभः फलपाण्डवः॥ १४७ करको दन्तबीजश्वाथोड्पुष्पे जपा जवा । धातक्यां तु धातुपुष्पी बहुपुष्प्यग्निपुष्पिका ॥ १४८ ताम्रपर्णी सुभिक्षा च कुञ्जरा मद्यपावनी । सल्लक्यां वल्लकी हादा सुवहा सुस्रवा रसा ॥ १४९ अश्वमूर्तिः कुन्दरुकी गजभक्ष्या महेरणा । गन्धवीरा गन्धकारी सुरभिर्वनकर्णिका ॥ १५० एरण्डे तरुणश्चित्रो दीर्घदण्डो व्यडम्बकः । पञ्चाङ्गुलो वर्द्धमान आमण्डो रुवको रुवूः॥ १५१ व्याघ्रपुच्छो व्याघ्रतलश्चक्षुरुत्तानपत्रकः । गन्धर्वहस्तकश्चञ्चुरादण्डो हस्तिपर्णकः ॥ १५२ उरुवूको हस्तिकर्णः शुक्लो रक्तश्च स द्विधा । किम्पाके तु महाकालः काकः काकमर्दकः ॥ १५३ कम्पिल्लके तु काम्पिल्लो रक्ताङ्गो रक्तचूर्णकः । चन्द्राह्वयो रोचनकः कर्कशाह्वः पटोदयः ॥ १५४ केतकच्छदनीयोऽम्बुप्रसादनफलः कतः । कार्पास्यां तु समुद्रान्ता बदरा तुण्डिकेर्यपि ॥ १५५ सा तु वन्या भरद्वाजी भद्रा चन्दनबीजिका । वन्दायां स्यात्तरुरुहा शौरवर्यदरोहिणी ॥ १५६ वृक्षादनी वृक्षभक्ष्या जयन्ती कामपादपः । स तु क्षीरवृक्षभवो नन्दीवृक्षो जयद्रुमः ॥ १५७ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180