Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 151
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-९ निघण्टुशेषः । दीर्घवृक्षश्च कवरो रथनामातिमुक्तकः । अश्मगर्भः सर्वसारः क्रमसंधारणोऽपि च ॥ ९० पलाशे किंशुकः पर्णः......"त्रिपत्रकः । त्रिवृताख्यो रक्तपुष्पो बीजस्नेहः समिद्वरः ॥ ९१ क्षारश्रेष्टो वातपोथो याज्ञिको ब्रह्मपादपः । धवे भारोद्वहो गौरः सकटाक्षो धुरंधरः ॥ कुलावो नन्दिनश्चापि सितः कृष्णश्च स द्विधा । श्रीपयी काश्मरी कृष्णा वृन्तिका मधुपर्णिका ९३ गम्भारी सर्वतोभद्रा कट्फला भद्रपर्णिका । विहीरा कुमुदाहारी महाकुम्भी च कश्मरी ॥ ९४ नित्यभद्रा महाभद्रा काश्मर्यो मधुपर्ण्यपि । सप्तच्छदे शुक्तिपर्णो गन्धपुष्पः सवर्णकः ॥ ९५ स्थूलपर्णो दीपवृक्षः शारदो विषमच्छदः । मदगन्धिविशालत्वकुग्गजद्विट्शाल्मलीदलः ॥ शिरोरुर्गेहविटपः सुमनो ग्रहनाशनः । आरग्वधे कृतमालः कर्णिकारः सुवर्णकः ॥ पीतपुष्पो दीर्घफलः शम्पाकश्चतुरङ्गुलः । व्याधिहा रेवतः स्थूलः प्रग्रहो राजपादपः॥ ९८ आरोग्यशिम्बिका कर्णी स्वर्णशेफालिकेत्यपि । बीजके प्रियकः शौरिगौरो बन्धूकपुष्पकः॥ ९९ कृष्णसों महासर्जः कल्याणः पीवरोऽसनः । महाशालः पीतशालो जीवकः प्रियशालकः ॥ १०० सुगन्धिर्नीलनिर्यासस्तिष्यपुष्पोऽलकप्रियः । स तु द्विधा शिखिग्रीवः श्रेष्ठो गोमूत्रगन्धकः ॥ १०१ अश्वकर्णे दीर्घपत्रः कषायः सस्यसंवरः । सर्जकः......."शूरः कार्यशालो लतातरुः॥ १०२ अर्जुने ककुभः सेव्यः सुवर्णो धूर्तपादपः । देवशाकः शक्रतरुर्नदीसोंऽर्जुनाभिधः ।। शाके कोलफलो द्वा""दारुर्योगी हलीमकः । गन्धसारः स्थिरसारः स्थिरको ध्रुवसाधनः ॥ १०४ अभ्रं."महापत्रो बलसारो बलप्रभः । धर्मणे तु धनुर्वृक्षो गोत्रवृक्षो रुजासहः ॥ १०५ महाबलो महावृक्षो राजाहो धन्वनः फलम् । खादुफलो मृत्युफलः सारवृक्षः सुतेजनः ॥ १०६ सिल्लके तु सिद्धवृक्षः कोलिपत्रे तु जोरणः । महापत्रे वगादी स्याद्विषशङ्कः पलाशकः॥ १०७ पारिभद्रे द्रुकिलिमं किलिमं देववल्लभः । दारु वस्नेहविदं च देवद्रुः स्वर्गजो द्रुमः॥ १०८ पीतपूतिमहादेवभद्रेन्द्रा काष्ठदारुणी । मधूके' शाकः स्यान्माधवो मधुको मधुः ॥ १०९ मधुष्ठीलो मधुष्ठालो मधुकाष्टो मधुस्रवः । रोधकोषमधुगुडपुष्पो गोलफलोऽपि च ॥ ११० जलजेऽस्मिन्मधूलः स्याद्गिरिजो दीर्घपत्रकः । तीरवृक्षो गौरशालो ह्रस्वपुष्पफलोऽपि च ॥ १११ तिन्दुके स्फूर्जकस्तुष्टः कालस्कन्धो विरूपकः । निःस्यन्दनः कालशाको द्रावणो नीलसारकः॥११२ द्वितीयतिन्दुके कालस्तिन्दुर्मर्कटतिन्दुकः । काकेन्दुकः काकपीलुः कुपीलुकुलकावपि ॥ ११३ रोधे लोध्रः सिते तत्र शाबरस्तनुवल्कलः । उत्सादनो महारोध्रो नम्भः शबरपादपः ॥ ११४ रक्ते तु पट्टिका तिल्वः पट्टीलाक्षाप्रसादनः । तिरीटो मार्जनश्चिल्ली कानीनः क्रमुकः शिशुः ॥ ११५ स्थूलवल्को वृहत्पत्रः कृष्णरोधे तु गालवः । भूर्जे भुजो बहुपटो मृदुवल्को मृदुच्छदः ॥ ११६ रेखापत्रश्छत्रपत्रो बहुबर्मिणावपि । श्लेष्मान्तके भूतवृक्षः पिच्छिलो द्विजकुत्सितः ॥ ११७ वसन्तकुसुमः शेलुः कफेलुर्लेखशाटकः । विषघाती बहुवारः शीत उद्दालकस्तथा ॥ ११८ बकुले कण्टकीग्रन्थिफलाम्बुपनसामहुः । लकुचः क्षुद्रपनसस्तनु स्यात्कुब्जकं फलम् ॥ ११९ आने रसालो माकन्दः कामाङ्गः पिकवान्धवः । वनपुष्पो शवश्चतः परपुष्टमदोद्भवः ॥ १२० मधुदूतो मधुफलः सुफलो मदिरासखः । वसन्तपादपोऽसौ तु सहकारोऽतिसौरभः ॥ १२१ क्षुद्राने स्यात्कृमितरुाक्षावृक्षो जतुद्रुमः । सुकोशको घनस्कन्धः केशाम्बुश्च सुरक्तसः ॥ १२२ टको नीलकपित्थोऽन्यो राजपुत्रो नृपात्मजः । जम्ब्वां महाफला राजजम्बूर्नीलाम्बुकच्छदा ॥१२३ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180