________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-९ निघण्टुशेषः । दीर्घवृक्षश्च कवरो रथनामातिमुक्तकः । अश्मगर्भः सर्वसारः क्रमसंधारणोऽपि च ॥ ९० पलाशे किंशुकः पर्णः......"त्रिपत्रकः । त्रिवृताख्यो रक्तपुष्पो बीजस्नेहः समिद्वरः ॥ ९१ क्षारश्रेष्टो वातपोथो याज्ञिको ब्रह्मपादपः । धवे भारोद्वहो गौरः सकटाक्षो धुरंधरः ॥ कुलावो नन्दिनश्चापि सितः कृष्णश्च स द्विधा । श्रीपयी काश्मरी कृष्णा वृन्तिका मधुपर्णिका ९३ गम्भारी सर्वतोभद्रा कट्फला भद्रपर्णिका । विहीरा कुमुदाहारी महाकुम्भी च कश्मरी ॥ ९४ नित्यभद्रा महाभद्रा काश्मर्यो मधुपर्ण्यपि । सप्तच्छदे शुक्तिपर्णो गन्धपुष्पः सवर्णकः ॥ ९५ स्थूलपर्णो दीपवृक्षः शारदो विषमच्छदः । मदगन्धिविशालत्वकुग्गजद्विट्शाल्मलीदलः ॥ शिरोरुर्गेहविटपः सुमनो ग्रहनाशनः । आरग्वधे कृतमालः कर्णिकारः सुवर्णकः ॥ पीतपुष्पो दीर्घफलः शम्पाकश्चतुरङ्गुलः । व्याधिहा रेवतः स्थूलः प्रग्रहो राजपादपः॥ ९८ आरोग्यशिम्बिका कर्णी स्वर्णशेफालिकेत्यपि । बीजके प्रियकः शौरिगौरो बन्धूकपुष्पकः॥ ९९ कृष्णसों महासर्जः कल्याणः पीवरोऽसनः । महाशालः पीतशालो जीवकः प्रियशालकः ॥ १०० सुगन्धिर्नीलनिर्यासस्तिष्यपुष्पोऽलकप्रियः । स तु द्विधा शिखिग्रीवः श्रेष्ठो गोमूत्रगन्धकः ॥ १०१ अश्वकर्णे दीर्घपत्रः कषायः सस्यसंवरः । सर्जकः......."शूरः कार्यशालो लतातरुः॥ १०२ अर्जुने ककुभः सेव्यः सुवर्णो धूर्तपादपः । देवशाकः शक्रतरुर्नदीसोंऽर्जुनाभिधः ।। शाके कोलफलो द्वा""दारुर्योगी हलीमकः । गन्धसारः स्थिरसारः स्थिरको ध्रुवसाधनः ॥ १०४ अभ्रं."महापत्रो बलसारो बलप्रभः । धर्मणे तु धनुर्वृक्षो गोत्रवृक्षो रुजासहः ॥ १०५ महाबलो महावृक्षो राजाहो धन्वनः फलम् । खादुफलो मृत्युफलः सारवृक्षः सुतेजनः ॥ १०६ सिल्लके तु सिद्धवृक्षः कोलिपत्रे तु जोरणः । महापत्रे वगादी स्याद्विषशङ्कः पलाशकः॥ १०७ पारिभद्रे द्रुकिलिमं किलिमं देववल्लभः । दारु वस्नेहविदं च देवद्रुः स्वर्गजो द्रुमः॥ १०८ पीतपूतिमहादेवभद्रेन्द्रा काष्ठदारुणी । मधूके' शाकः स्यान्माधवो मधुको मधुः ॥ १०९ मधुष्ठीलो मधुष्ठालो मधुकाष्टो मधुस्रवः । रोधकोषमधुगुडपुष्पो गोलफलोऽपि च ॥ ११० जलजेऽस्मिन्मधूलः स्याद्गिरिजो दीर्घपत्रकः । तीरवृक्षो गौरशालो ह्रस्वपुष्पफलोऽपि च ॥ १११ तिन्दुके स्फूर्जकस्तुष्टः कालस्कन्धो विरूपकः । निःस्यन्दनः कालशाको द्रावणो नीलसारकः॥११२ द्वितीयतिन्दुके कालस्तिन्दुर्मर्कटतिन्दुकः । काकेन्दुकः काकपीलुः कुपीलुकुलकावपि ॥ ११३ रोधे लोध्रः सिते तत्र शाबरस्तनुवल्कलः । उत्सादनो महारोध्रो नम्भः शबरपादपः ॥ ११४ रक्ते तु पट्टिका तिल्वः पट्टीलाक्षाप्रसादनः । तिरीटो मार्जनश्चिल्ली कानीनः क्रमुकः शिशुः ॥ ११५ स्थूलवल्को वृहत्पत्रः कृष्णरोधे तु गालवः । भूर्जे भुजो बहुपटो मृदुवल्को मृदुच्छदः ॥ ११६ रेखापत्रश्छत्रपत्रो बहुबर्मिणावपि । श्लेष्मान्तके भूतवृक्षः पिच्छिलो द्विजकुत्सितः ॥ ११७ वसन्तकुसुमः शेलुः कफेलुर्लेखशाटकः । विषघाती बहुवारः शीत उद्दालकस्तथा ॥ ११८ बकुले कण्टकीग्रन्थिफलाम्बुपनसामहुः । लकुचः क्षुद्रपनसस्तनु स्यात्कुब्जकं फलम् ॥ ११९ आने रसालो माकन्दः कामाङ्गः पिकवान्धवः । वनपुष्पो शवश्चतः परपुष्टमदोद्भवः ॥ १२० मधुदूतो मधुफलः सुफलो मदिरासखः । वसन्तपादपोऽसौ तु सहकारोऽतिसौरभः ॥ १२१ क्षुद्राने स्यात्कृमितरुाक्षावृक्षो जतुद्रुमः । सुकोशको घनस्कन्धः केशाम्बुश्च सुरक्तसः ॥ १२२ टको नीलकपित्थोऽन्यो राजपुत्रो नृपात्मजः । जम्ब्वां महाफला राजजम्बूर्नीलाम्बुकच्छदा ॥१२३
For Private and Personal Use Only