Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ लताकाण्डः।
२६२
बलायां शीतपाकी स्याद्भबोदन्योदनाह्वया । वाट्यालकस्तथा वाद्यपुष्पिका पीतपुष्पिका ॥ २५८ देवसहा सहदेवातिबला बाह्यपुष्पिका । ऋष्या प्रोक्ता ऋष्यगन्धा कङ्कता वर्षपुष्पिका ॥ २५९ वाट्यायिनी भूरिबला तिष्या वीर्या बृहद्बला । महागन्धा गन्धबली मङ्गल्यार्थप्रसाधनी ॥ २६० मुसल्यां तु तालमूली दुर्नामारिम"विषा | वृष्यकन्दा तालपर्णी समूला बलदा शिवा ॥ २६१ हिङ्गो जतुकवाल्हीकागूढगन्धानि रामठम् । सहस्रवेधि सूतघ्नं जरणं सूपधूपनम् ॥ हिङ्गुपच्यां पृथुः पृथ्वी दीर्घिका चारिपत्रिका | जातूका रामठी वंशपत्रा पिण्डा शिवाटिका॥२६३ कारवी करवी तन्वी वाष्पिका बिल्वकेत्यपि । काकजङ्घायां तु दासी लोमहीना प्रवाबलः ॥ २६४ नदीकान्तो नद्यास्या च पारावतपदीत्यपि । काकनासायां सुरङ्गा वायसी वायसाङ्गिका ॥ २६५ वारुणी तस्करस्नायुः काकतुण्डफला च सा । पाषाणभेदे नगभिच्छिलाभिच्चित्रपर्णकः॥ २६६ हमुषायां विस्रगन्धा वपुषा मत्स्यगन्धिनी । सान्याश्वत्थफला ध्वाङ्कनामिका कच्छुनाशिनी ॥२६७ घण्टारवायां स्यान्मल्यपुष्पिका श""घण्टिका । अल्पघण्टा बृहत्पुष्पी शणपुष्पी महाशणः ।। २६८ शणे तु किंकिणी जाली जन्तुनन्तुर्महाशणः । शीघ्रप्ररोही बलवान्सुपुष्पः क्षेत्रमण्डनः ॥ २६९ कुसुम्भेऽग्निशिखं महारञ्जनं कमलोत्तरम् । शालपा दीर्घमूला त्रिपर्णी पीतिनी ध्रुवा ॥ २७० विदारि गन्धातिगुहा स्थिरा भौमांशुमत्यपि । भार्या वर्वरकः पद्मा वन्दकोऽङ्गारवल्लिका ॥ २७१ गर्दभशाकब्राह्मण्यौ हजी ब्राह्मणयष्टिका । आवर्तक्यां चर्मरङ्ग विभाण्डी पिच्छिका लता॥ २७२ रक्तपुष्पा दुकिनी स्यान्महाजालिनिका च सा । नाकुल्यां स्मारक्षीपीडा वेत्रमूला विसर्पिणी॥२७३ शङ्खनी वृद्धपादा च यवतिक्तायसीश्वराः । तेजस्विन्यां पारिजाता पीताश्वघ्ना महौजसी ॥ २७४ तेजोवती तेजिनी च तेजोहावल्कलेत्यपि । पथिकायां तु तुलसी तालपत्री लवङ्गकम् ॥ २७५ कन्दपत्रत्वचं पत्रा मलपत्रकमुत्तरा । मांस्यां यशी कृष्णजटा नलदा जटिला जटा ।। २७६ तपस्विन्यामिषी हिंस्रा क्रव्यादी पिशिता वसा । गन्धमास्यां पुनः केशी भूतकेशी पिशाचिका ॥२७७ सुलोमशा भूतजटा भूतनाकेशिकेत्यपि । सुरायां सुरभिदैत्या गन्धाढ्यां गन्धमादनी ॥ २७८ भूरिगन्धा गन्धवती कुटी गन्धकटी वसा । प्रपौण्डरीके शौण्डय सानुजं पौण्डरीयकम् ॥ २७९ प्रपौण्डरीकं चक्षुष्यं सत्पुष्पं सानुमानकम् । जतुकायां तु जतुका जतुकृच्चक्रवर्तिनी ॥ २८० जन्तुका जतुकारी च सहर्षा जननीजनी । मांसरोहायां विकसा वृत्ता चर्मका रुहा ॥ २८१ रक्तपाद्यां नमस्कारी समझाञ्जलिकारिका । गण्डकाली शमीपत्रा रास्ना खदिरिका च सा ॥ २८२ तद्विशेषत्रिपादी स्यात्सुपादी हंसपादिका । विषग्रन्थिहंसपदी घृतमण्डलिकापि च ॥ २८३ अथ स्याजलपिप्पल्यां शारदी शकुलादनी । मत्स्यादनी मत्स्यगन्धा लागली तोयपिप्पली ॥ २८४ शिवमयां पाशुपतः सुव्रतो वसुको वुकः । कुलपुष्पः किण्वमूलः पाण्डुरोगप्रियः कुलः ॥ २८५ अतिविषायां तु विश्वा भङ्गुरा श्वेतकन्दिका । उपविषा श्यामकन्दा शृङ्गी प्रतिविषारुणा ॥ २८६ मेदायां स्यान्मणिच्छिद्रा मधुरा शल्यपर्ण्यपि । महाभेदायां तु वसुच्छिद्रा देवमणिर्वसुः ॥ २८७
इत्याचार्यश्रीहेमचन्द्रविरनिते निघण्टुशेषे द्वितीयो गुल्मकाण्डः। गुञ्जायां कृष्णला काकचिश्चिका काकणिन्दिका । काकादनी काकनखी रक्तिका काकनन्तिका॥२८८ काकपीलुश्चक्रशल्या दुर्मेषा ताम्रिकोच्चटा । चूडामणिर्दुमौघा च शतपाकी शिखण्डिनी ॥ २८९ पाठायां श्रेयसी पापचेलिका वृद्धकर्णिका । वृकं तिक्ता वरतिक्ता प्राचीना स्थायिनी वृकी ।।२९०
१९
For Private and Personal Use Only

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180