Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ गुल्मकाण्डः । मेषशृङ्गयामजशृङ्गी वर्तिका सर्पदंष्टिका । सैव स्यादक्षिणावर्ता वृश्चिकाला विषाणिका ॥ १९० उष्ट्रधूमकपुच्छा च काली च विषघातिनी । शृङ्गी तु कर्कटशृङ्गयां नताङ्गी शिशिरेफला ॥ १९१ कर्कटाहा महाघोषा वक्रा मरिशिम्बिका । निदिग्धिकायां कण्टाली दुःस्पर्शा कण्टकारिका॥१९२ व्याघ्री क्षुद्रा दुष्प्रधर्षा धावनी हेमपुष्पिका । बृहत्यां क्षुद्रभण्टाकी वार्ताकी राष्ट्रिका कुली ॥ १९३ विशदः सिंह्यनाक्रान्ता महोटिका महत्यपि । विदार्या तु स्वादुकन्दा पुष्पकन्दा मृगालिका ॥ १९४ वृक्षादनी चर्मकषा भूकुष्माण्ड्यश्ववल्लभा । बिडालिका वृक्षपर्णी महाश्वेता परा तु सा ॥ १९५ क्षीरशुक्ला क्षीरकन्दा क्षीरवल्ली पयस्विनी । ऋष्यगन्धेक्षुगन्धेक्षुवल्ली क्षीरविदारिका॥ १९६ पृभिप] पृथक्पर्णी लाङ्गली क्रोष्टुपुच्छिका । शृगालवर्णा कलशी घृतिला धावनी गुहा ॥ १९७ सिंहपुच्छी चित्रपङ्किपर्णी तिलपर्ण्यपि । गोक्षुरे स्थलशृङ्गालवनशृङ्गाटगोक्षुराः ॥ १९८ कण्टीषडङ्गी गोकण्टस्त्रिकण्टस्तु विकस्त्रिकः । इक्षुगन्धा व्यालदंष्ट्रः स्वदंष्ट्रः स्वादुकण्टकः।। १९९ पलङ्कषा कण्टफलः षडङ्गस्तूक्षुरः क्षुरः । दन्त्यां शीघ्रा विशल्या च चित्रोदुम्बरपर्णिका ॥ २०० मकूलको रामदूती निकुम्भो घुणवल्लभा । नागदन्त्यां हस्तिदन्ती वारुणी चापि चिभिटी ॥ २०१ मृगादनी मृगैर्वारुर्मंगाक्षी भुजगस्फटा । श्वेतपुष्पा मधुपुष्पा पर्वपुष्पा विषौषधिः ॥ २०२ अपामार्गे त्वधःशल्यः किणिही खरमञ्जरी । धामार्गवः शैखरिको वशिरः कपिपिप्पली ॥ २०३ कपिवल्ली मर्कटिका शिखर्याघाटदुर्घहो । प्रत्यक्पुष्पी पत्रपुष्पी केशवल्ली मयूरकः ॥ २०४ पुनर्नवायां वृश्वीरो दीर्घपत्रा शिलाटिका । विशाखः क्षुद्रवर्षाभूः कटिल्लः प्रावृषायणी ॥ २०५ शोफनी चापरा त्वेषा कूरमण्डलपत्रकः । श्वेतमूला महावर्षा भूवर्षकेतुरित्यपि ॥ २०६ ज्योतिष्मत्यां स्वर्णलता कङ्गुनी लवणाग्निभा। पारावतपदी पण्या ज्योतिष्का कटभीत्यपि ॥ २०७ माषपर्ध्या सूर्यपर्णी पाण्डुश्चापि महासहा । अश्वपुच्छा सिंहवृन्ता कम्बोजी कृष्णवृन्तिका॥ २०८ मुद्गपर्यो काकमुद्गा वन्या मार्जारंगन्धिका । शिवा क्षुद्रसहा ह्रासी रङ्गणी सूर्यपर्णिका ॥ २०९ भूम्यामलक्याममला बहुपुत्रा वितुन्नकः । तामलक्युज्झटा ज्ञायतालिका नुन्नमालिनी ॥ २१० हरिद्रायां वर्णवती काञ्चनी वरवर्णिनी । निशाख्या रञ्जनी गौरी पीतिका मेहघातिनी ॥ २११ वेश्या विटप्रिया पीता तथा हविलासिनी । प्रपुन्नाटे तु दद्रुघ्नश्चक्राकश्चक्रमर्दकः ॥ २१२ मेषाक्षो मेषकुसुमः पद्माटैडगजावपि । मुण्ड्यां मुण्डतिका भिक्षुः श्रावणी जीवबोधिनी ॥ २१३ श्रवणा श्रवणशीर्षा प्रव्रजिता तपस्विनी । महाश्रावणिकायां बव्यथा कदम्बपुष्पिका ॥ २१४ प्रन्थिका लोभनीया च छिन्नग्रन्थनिकापि च । वाकुच्यां स्यात्कालमेषी दुर्गन्धा कुष्टनाशिनी ॥ २१५ पूतिपर्णी सोमराजी सुवल्ली सोमवल्लिका । अवल्गुजः कृष्णफला दुर्लेखा पूतिफल्यपि ॥ २१६ रास्नायां श्रेयसी रस्या रसनातिरसा रसा । एलापर्णी गन्धमूला सुवहा मारुतापहा ॥ २१७ नाकुल्यां सर्पगन्धा तु सुगन्धा वारिपत्रका । गन्धनाकुलिकायां तु सर्पाक्षी विषमर्दिनी ॥ २१८ महासुगन्धा सुवहा छत्राकी नकुलप्रिया । कुठेरके खर्जकः स्यात्क्षुद्रपत्रः कुठिञ्जरः॥ २१९ वैकुण्ठस्तीक्ष्णगन्धश्च द्वितीयो वटपत्रकः । पर्णासो बिल्वगन्धश्च स तु कृष्णः सरालकः ॥ २२० काकतालः कृष्णमल्ली मालुकः कृष्णमालुकः । तुलस्यां सुरसा प्रेतराक्षसी बहुमञ्जरी॥ २२१ यस्या गौरी शक्रपत्नी भूतघ्नी देवदुन्दुभिः । फणिज्जके प्रस्थपुष्पः खरपत्रोऽत्रपत्रकः ॥ २२२ मरूपको मरुबको जम्भीरो मारुतः फणी । त्रायन्ती त्रायमाणायां कृतत्राणानिसानुजा ॥ २२३
For Private and Personal Use Only

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180