Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । बनजो मुस्तके स्तम्बेरमे वनजमम्बुजो । वनजा तु मुद्गपर्यो सहजः सहसंभवे ॥ ७४६ निसर्गे च सामजस्तु सामोत्थे कुञ्जरेऽपि च । हिमजो मेनकापुत्रे, हिमजा पार्वती शढी ॥ ७४७ क्षेत्रज्ञावात्मनिपुणौ दोषज्ञः प्राज्ञवैद्ययोः । सर्वज्ञस्तु जिनेन्द्रे स्यात्सुगते शंकरेऽपि च॥ ७४८ अवटः कृपखिलयोर्गर्ते कुहकजीविनि ।। अरिष्टो लशुने निम्बे फेनिले कङ्ककाकयोः ॥ ७४९ अरिष्टं सत्यगारेऽन्तचिह्न तके शुभेऽशुभे, अवटुर्गन्धुिघाटासूत्कटस्तीव्रमत्तयोः ॥ ७५० उच्चटा दम्भचर्यायां प्रभेदे लशुनस्य च । करटः करिगण्डे स्यात्कुसुम्भे निन्द्यजीवने ॥ ७५१ काके वाद्ये दुर्दुरुढे नवश्राद्धेऽथ कर्कटः । कुलीरे करणे स्त्रीणां राशौ खगेऽथ:कर्कटी॥ ७५२ शाल्मलीफलवालुङ्कयोः कार्यटो जतुकार्यिणोः।। कीटकः कृपणे निःस्वे देशभेदे तुरङ्गम।। ७५३ कुरण्टो झिण्टिकाभेदे। कुरण्टी दारुपुत्रिका, । कुक्कुटः कुक्कुभे ताम्रचूडे वह्निकणेऽपि च ॥ ७५४ निषादशूद्रयोः पुत्री कृपीटस्तूदरे जले,। चक्राटो धूर्ते दीनारे विषवैद्येऽथा चर्पटः॥ ७५५ चपेटे स्फारविपुले पर्पटे चिपुटः पुनः । पृथुके पिच्चटेऽपि स्याच्चिरण्टी तु सुवासिनी ॥ ७५६ तरुणी च जकूटस्तु वार्ताककुसुमे शुनि । यमले व्यङ्गटो धौताञ्जन्यां शिक्यभिदीश्वरे ।। ७५७ त्रिकूटं सिन्धुलवणे त्रिकूटस्तु सुवेलके । त्रिपुटौ तीरसातीनौ त्रिपुटा त्रिवृदौषधौ ॥ ७५८ सूक्ष्मैलायां मल्लिकायां द्रोहाटो मृगलुब्धके । चतुष्पदीप्रभेदे च विडालत्रतिकेऽपि च ॥ ६५९ धाराटश्चातकेऽश्वे च निर्दटो निष्प्रयोजने । निर्दयेऽन्यदोषरते. निष्कुटो गृहवाटिका ।। ७६० केदारकः कपाटश्च पर्पटो भेषजान्तरे । पिष्टविकृतौ परीष्टिः परीक्षापरिचर्ययोः॥ ७६१ स्यात्पर्कटी प्लक्षतरौ पूगादेनूतने फले।। पिच्चटस्तु नेत्ररोगे पिच्चटं त्रपुसीसयोः।॥ ७६२ वर्वटी व्रीहिभिद्वेश्या भाकूटः शैलमीनयोः । भावाटो भावके साधुनिवेशे कामुकेऽपि च ॥ ७६३ मर्कटस्तु कपावर्णनाभे स्त्रीकरणान्तरे।। मर्कटी करञ्जभेदे शूकशिम्ब्यथा मोरटम् ॥ ७६४ सप्तरात्रात्परे क्षीरेऽङ्कोष्टपुष्पेक्षुमूलयोः । मोरटा तु मूर्विकायां, मोचाटः कृष्णजीरके ॥ ७६५ चन्दने कदलीग: वर्णाटश्चित्रकारिणि । गायने स्त्रीकृताजीवे वरटा हंसयोषिति ॥ ७६६ गन्धोल्यां चाथ विकटः कराले पृथुरम्ययोः।। वेकटो जाततारुण्ये मणिकारेऽथा वेरटः ॥ ७६७ मिश्रीकृते च नीचे चावेरटं वैदरीफले । शैलाटो देवले शुक्लकाचे सिंहकिरातयोः ॥ ७६८ संसृष्टं तु संगते स्याच्छुद्धे च वमनादिना । अम्बष्ठो विप्रतो वेश्यातनये नीवृदन्तरे।॥ ७६९
१. 'शची' ग-घ. २. 'न्तश्चिद्दे' ख-ग-ध. 'अन्तचिढे मरणचिढ़े' इति टीका. ३. 'धर्तदीनारविष' ग-ध. ४. 'पिच्चटे खाद्यभेदे स्याद्विस्ततावपि । चिरण्टी तु सुवासिन्यां स्याद्वितीयवयःस्त्रियाम् । जकुटं वार्ताकपुष्पे जकुटो मलये शुनि । व्यङ्गट शिक्यभेदे स्याद्धौताञ्जन्यामाप स्मृतम् ।' ख. ५. 'यमलं युग्मम्' इति टोका. . 'स्याचैव पिष्टविकृतौ परीक्षा' ग-घ. ७. 'स्यात्पर्पटी' ख; 'स्यात्कर्कटी' ग-घ. 'पृच्यते पर्कटी' इति टीका. ८. 'कावटः कान्तिपुञ्जके । वारुण्डे मकरे पोते भाकूटः' ख. ९. 'भार्याटः पटहाजीवे लोभात्स्वस्त्रीसमर्पके । भावाटः' ख. १०. 'नटे' ख. ११. 'चीवा वानरी । बीजं च राजकर्कट्या प्राचीनामल. कस्य च । गवेधुकाफलं चापि चक्राङ्गी करजान्तरम् । मोरटं त्विक्षुमूले स्यादकोटकुसुमेऽपि च । सप्तरात्रात्परक्षीरे मो. रटा मूर्विका मता। मोचाटः कदलीगर्भ चन्दने कृष्णजीरके । रवटो दक्षिणावर्तशले जाङ्गलिकेऽपि च । रेवटो मोरटे रेणौ स्याद्वातूलवरायोः । वर्णाटो गायने चित्रकारे स्त्रीकृतजीवने । वरटा हंसयोषायां गन्धोल्यां विकटः पृथौ। कराले सुन्दरे चारे वेकटो जातयौवने । वैकटिके मणिकारे वेरटो मिश्रनीचयोः । वेरटं बदरीफले शैलाटो मृगवैरिणि । शुक्लकाचे किराते च देवले गिरिवारिणि । संसृष्टं' ख. 'म्ब्यां च मोरटम्' ग-घ. १२. 'मूले' ग-घ. १३. 'पृथुले' ग-घ. १४. 'वरटी' ग-घ. १५. 'हर्मटः कच्छपे प्रोक्तः सहस्रकिरणेऽपि च । अम्बष्ठो' ख.
For Private and Personal Use Only

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180