Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
,
३८
अभिधान संग्रह::- ८ अनेकार्थसंग्रहः ।
1
1
खलीकारे भट्टिनी तु ब्रह्मण्यां नृपयोषिति । भावना वासना ध्यानं भुवनं लोकखाम्बुषु ॥ ९९५ भूतात्मा दुहि देहे मदनः सिक्थके स्मरे । राढे वसन्ते धत्तूरे मलिनं कृष्णदोषयोः ॥ ९९६ मलिनी रजस्वलायां मण्डनं तु प्रसाधने । मण्डनोऽलंकरिष्णौ स्यान्मार्जनो लोध्रशाखिनि ।। ९९७ मार्जनं शुद्धिकरणे मार्जना मुरजध्वनौ । मालिन्युमायां गङ्गायां चम्पावृक्षप्रभेदयोः || ९९८ मालक्यां मिथुनो राशौ. मिथुनं पुंस्त्रियोर्युगे । मुण्डनं रक्षणे क्षौरो मेहनं मूत्रशिनयोः ॥ ९९९ मैथुनं रतसंगत्योर्यमनं यमबन्धयोः । । यापनं कालविक्षेपे निरासे वर्तनेऽपि च ॥ १००० योजनं तु चतुः कोश्यां स्याद्योगपरमात्मनोः । रसनं ध्वनिते स्वादे रसज्ञारास्त्रयोरपिं ॥ १००१ रञ्जनं रञ्जके रक्तचन्दनेऽप्यथ रंजनी । मञ्जिष्ठारोचनानीलीगुडा । रजनी निशि ॥ १००२ लाक्षानीलीहरिद्रासु राधनं प्राप्तितोषयोः । साधने रेचनी गुण्डादन्ती रोनिका त्रिवृत् ॥ १००३ रोदनं त्वश्रुणि क्रन्दे रोचनः कूटशाल्मलौ । रोचना रक्तकहारे गोपित्ते वरयोषिति ॥ १००४ लङ्घनं भोजनत्यागे लवने क्रमणेऽपि च । ललामवलेला मावे शृङ्गे चिह्नपताकयोः ॥ १००५ रम्ये प्रधाने भूषायां पुण्ड्रे पुच्छप्रभावयोः । ललना स्त्रीनडिजिह्वा लाञ्छनं लक्ष्मसंज्ञयोः ॥ ॥ १००६ लाङ्गली स्याद्बलभद्रे नालिकेरेऽथ लेखनम् । भूर्जे छेदे लिपिन्यासे व्यसनं निष्फलोद्यमे || १००७ दैवानिष्टफले सक्तौ स्त्रीपानमृगयादिषु । पापे विपत्तावशुभे व्यञ्जनं श्मश्रुचिह्नयोः ॥ १००८ asara कादौ वमनं छर्दनेऽर्दने । वसनं छादने वस्त्रे वर्जनं त्यागहिंसयोः ॥ वर्धनं छेदने वृद्ध वर्धनी तु गलन्तिका । वपनं मुण्डने बीजाधानेऽथ वर्तनी पथि ॥ वर्तने तर्कुपिण्डे च वनश्वा विप्रेंतारके । शार्दूले गन्धमार्जारे वामनो दिग्गजेऽच्युते ॥ १०११ खर्वेऽङ्कोठे वाहिनी तु सेनातद्भेदसिन्धुषु । स्याद्वाणिनी तु नर्तक्यां छेकमत्तस्त्रियोरपि ॥ १०१२ वितानं कैद यज्ञे विस्तारे ऋतुकर्मणि । तुत्थे मन्दे वृत्तभेदे शून्यावसरयोरपि ॥ १०१३ विज्ञानं कार्मणे ज्ञाने विलग्नं मध्यलग्नयोः । विक्लिन्ना जीर्णशीर्णार्द्रा विलीनौ लीनविद्रुतौ ॥१०१४ विषघ्नः शिरीषतरौ विषघ्ना त्रिवृतामृता । विच्छन्नं तु कुटिले स्यात्समालब्धविभक्तयोः ।। १०१५ विमानं देवतायाने सप्तभूमिगृहेऽपि च । विधानं हस्तिकवले प्रेरणेऽभ्यर्चने धने ॥ चेतनोपायविधिषु प्रकारे वैरकर्मणि । विपन्नो भुजगे नष्टे विश्वप्सा वह्निचन्द्रयोः ॥ समीरणे कृतान्ते च विलासी भोगेंसर्पयोः । विषयी विषयासक्ते वैषयिकजने नृपे ॥ कामे विषय हृषीके व्युत्थानं प्रतिरोधने । विरोधवरणे स्वैरवृत्तौ समधिपारणे ।। वृजिनः केशे वृजिनं भुनेऽधे रक्तचर्मणि । वेष्टनं मुकुटे कर्णशष्कुल्युष्णीषयोर्वृतौ ॥ वेदना ज्ञाने पीडायां शयनं स्वापशय्ययोः । रते शमनस्तु यमे शमनं शौन्तिहिंसयोः ॥ १०२१ श्वसनं श्वासे श्वसनः पवने मदनद्रुमे । शकुनं स्याद्दैवशंसिनिमित्ते · शकुनः खगे ॥ शकुनिः खगे करणभेदे कौरवमातुले । शतघ्नी तु वृश्चिकाल्यां शस्त्रभेदकरञ्जयोः ॥
१००९
१०१०
1
१०१६
१०१७
१०१८
1
१०१२
१०२०
१०२२ १०२३
Acharya Shri Kailassagarsuri Gyanmandir
१. ‘खलिकारे' ख. २. 'ब्राह्मण्यां ' ख ग घ ३. 'लोकना कारखाम्बुषु' ग घ. ४. 'अस्मरे' ग घ. ५० 'वृक्ष प्र' ख-ग. ६. 'निराशे' ख. ७. 'राजिनी' ग घ ८. 'स्नुहीषु' ख; 'गण्डासु' ग घ ९. 'गुन्द्रादं ' ग घ. १०. 'रोचनका' ग घ ११. 'कलामा' ग घ १२. 'नारी' ग-व. १३. 'लाञ्चनं' ख. १४. 'लक्ष्यचिह्न ' ग घ. १५. 'पीठे' ग घ. १६. 'अपि प्रता' ख. १७. 'कोटे' ख; काण्डे' ग घ १८. ' कदक उल्लोचः ' इति टीका. 'कल्लोले' ख. १९. 'वसथयोः ' ख. २० ' सप्तभूम गृ' खः 'सार्वभौम' ग घ २१. ' भोगिस' ख-ग-घ, २२. 'आचरणे' ख ग घ २३ ' शान्तहिं' ग घ.
For Private and Personal Use Only

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180