Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अव्ययाधिकारः। अभि वीप्सालक्षणयोरित्थंभूताभिमुख्ययोः।। स्यादमा संनिधानार्थे सहार्थेऽलं निवारणे ॥ १८०४ अलंकरणसामर्थ्यपर्याप्तिष्ववधारणे । एवं प्रकारेऽङ्गीकारेऽवधारणसमन्वयोः॥ १८०५ कथं प्रश्ने प्रकारार्थे संभ्रमे संभवेऽपि च । काममसूयानुगमे प्रकामेऽनुमतावपि ॥ १८०६ किमु संभावनायां विमर्शे जोषं सुखे स्तुतौ । मौनलङ्घनयोश्चापि नाम प्राकाश्यकुत्सयोः॥१८०७ संभाव्याभ्युपगमयोरलीके विस्मये क्रुधिः । नूनं तर्के निश्चिते चा प्राध्वं नर्मानुकूलयोः ॥ १८०८ भृशं प्रकर्षेऽत्यर्थे च, सामि त्वर्धे जुगुप्सिते । अयि प्रश्नेऽनुनये स्यादये क्रोधविषादयोः ॥१८०९ संभ्रमे स्मरणे चान्तरन्ते स्वीकारमध्ययोः । उर[रुरीवदूरी विस्तारेऽङ्गीकृतावपि॥ १८१० पराभिमुख्ये प्राधान्ये विमोक्षप्रातिलोम्ययोः । गतिधर्षणहिंसासु भृशार्थे विक्रमेऽपि च।॥ १८११ परि व्याधावुपरमे वर्जने लक्षणादिषु । आलिङ्गने च शोके च पूजायां दोषकीर्तने ॥ १८१२ भूषणे सर्वतोभावे व्याप्तौ निवसनेऽपि च । पुरा भविष्यदासन्ने चिरातीतप्रबन्धयोः॥ १८१३ पुनरप्रथमे भेदे, किल संभाव्यवार्तयोः । हेत्वरुच्योरलीके च खलु वीप्सानिषेधयोः ॥ १८१४ जिज्ञासायामनुनये वाक्यालंकरणेऽपि च।। अवालम्बनर्विज्ञानवियोगव्याप्तिशुद्धिषु॥ १८१५ ऐवौपम्ये परिभवे ईषदर्थेऽवधारणे । उषा रात्रौ तदन्ते च दोषा निशि निशामुखे॥ १८१६ मक्षु शीघे भृशे तत्त्वेऽतो हेतोरपदेशवत् । निर्देशे पञ्चम्यर्थे चेतो यतश्च विभागवत् ॥ १८१७ पञ्चम्यर्थे नियमे च तत आदौ कथान्तरे । पञ्चम्यर्थे परिप्रश्ने तिरोऽन्त तिरश्चि च ॥ १८१८ नीचैः स्वैराल्पनीचेषु प्रादुर्नामप्रकाश्ययोः। पुरोऽग्रे प्रथमे च स्यान्मिथोऽन्योन्यरहस्यपि ॥ १८१९ अहा धिगर्थे शोके च करुणार्थविषादयोः।। अह क्षेपे नियोगे, चाप्यहो प्रश्नविचारयोः ॥ १८२० सह संबन्धसादृश्ययोगपद्यसमृद्धिषु । साकल्ये विद्यमाने च, हीही विस्मयहास्ययोः॥ १८२१ नैनु च प्रश्ने दुष्टोक्तौ सम्यग्वादे स्तुतावपि।। अपष्टु चारौ निर्दोषे किमुत प्रश्नवादयोः ॥ १८२२ विकल्पेऽतिशये चापि पुरस्तात्प्रथमेऽग्रतः । पूर्वस्यां च पुरार्थे चाभीक्ष्णं शीघ्रप्रकर्षयोः ॥ १८२३ पौनःपुन्ये संतते.चावश्यं निश्चयनित्ययोः । इदानीं सांप्रतं वाक्यालंकारे तद्दिनं पुनः ॥ १८२४ दिनमध्ये प्रतिदिने सांप्रतं तूचितेऽधुना । समयानिकषा चान्तनिकटे चान्तरा पुनः ॥ १८२५ विनार्थे संनिधौ मध्येऽभितोऽभिमुखकाययोः । समीपोभयतः शीघ्रष्वग्रतःप्रथमाग्रयोः॥१८२६ अन्ततोऽवयवोत्प्रेक्षा पञ्चम्यर्थेषु शासने। पुरतोऽप्राद्ययोः पूर्वेधुर्धर्माहप्रभातयोः ॥ १८२७ अहहेत्यद्भुते खेदेऽन्तरेणान्तर्विनार्थयोः । अहो बतानुकम्पायां खेदामन्त्रणयोरपि ॥ १८२८
___ इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहेऽव्ययाधिकारः । इति श्रीहेमचन्द्राचार्यविरचितोऽनेकार्थसंग्रहः समाप्तः ।
१. 'निरर्थकौ' ग-घ. २. 'च वारणे' ख. ३. 'रोपमयोरङ्गीकारेऽवधारणे' ख. ४. 'उ!ररी चोररी च ग-घ. ५. 'शुण्ठ्यासु' ग-घ. ६. इतःपरम् 'प्राद्गः प्राकाश्ये वृत्तौ स्यात्संभाव्येऽपि प्रयुज्यते' ख. ७. 'प्रतीपयोः' ग-घ. ८. 'विक्रान्त' ग-घ. ९. 'इवौ' ख. १०. इतःपरम् 'शनैः शनैश्चरे स्वैरे संहः साहसतेजसोः' ख. ११. 'नपूज्जिहातेः किपि, अहा' इति टीका. 'अहो' ख-ग-घ. १२. 'नपूर्वाज्जहाते.ः, 'अह' इति टीका. 'आह' ख-ग-ध. १३. 'अनु च' ख. १४. 'नानार्थे' ग घ. १५. 'समयो' ग-घ. १६. 'अवसितोत्प्रे' ख.
For Private and Personal Use Only

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180