Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 144
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अव्ययाधिकारः। सुरतताली शिरःस्रग्दूत्योरथाशितंभवः । अन्नादौ तृप्तौ चा नभश्चमसश्चन्द्रमाययोः॥ १७६२ चित्रापूपेाहिङ्गुनिर्यासो हिङ्गुरसनिम्बयोः।। हिरण्यरेता ज्वलने सहस्रकिरणेऽपि च ॥ १७६३ ___ इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहे पञ्चस्वरकाण्डः पञ्चमः ॥५॥ षट्खरकाण्डः। ग्राममद्गुरिका युद्धशृङ्गयोर्मातुलपुत्रकः । धत्तूरकस्य च फले मातुलस्य च नन्दने॥ १७६४ लूतामर्कटकः पुत्रीनवमालिकयोः कपौ। वर्णबिडोलकः काव्यच्छायाहृत्संधिचोरयोः ॥ १७६५ सिन्दूरतिलको हस्ती सिन्दूरतिलकाङ्गना । दोहदलक्षणं गर्भे स्यात्संधौ यौवनस्य च ॥१७६६ यौवनलक्षणं वक्षोरुहे च लवणिम्नि च । अर्द्धपारापतश्चित्रकण्ठे स्यात्तित्तिरावपिः॥ १७६७ प्रत्युद्गमनीयमुपस्थेये धौतांशुकद्वये । विष्वक्सेनप्रिया त्रायमाणौषध्यां श्रियामपि ॥ १७६८ इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहे षट्स्वरकाण्डः षष्ठः ॥ ६ ॥ अव्ययाधिकारः। अथाव्ययानि वक्ष्यन्ते प्राग्वदेव स्वरक्रमात् । अस्वल्पार्थेऽप्यभावेऽपि स्यादा स्मरणवाक्ययो;॥१७६९ आङीषदर्थेऽभिव्याप्तौ क्रियायोगेऽवधावपि । आ स्यादवधुतिस्मृत्योराः संतापप्रकोपयोः ॥ १७७० इ स्यात्खेदे प्रकोपोक्तावी क्रोधे दुःखभावने । प्रत्यक्षे संनिधौ चाप्यु रोषोक्त्यामत्रणार्थयोः ॥१७७१ उत्प्राधान्ये प्रकाशे च प्राबल्यास्वास्थ्यशक्तिषु । विभागे बन्धने मोक्षभावे लाभोर्ध्वकर्मणोः॥ १७७२ उं प्रश्शेऽङ्गीकृतौ रोषेऽप्यूं प्रश्ने रोषवाचि च। ऋ कुत्सावाक्ययोरेऐ हेहैशब्दाविव स्मृतौ ॥ १७७३ आमन्त्रणाह्वानयोरों प्रणवेऽङ्गीकृतावपि । ओऔशब्दौ तु होहौ च हतौ संबोधनेऽपि च ॥ १७७४ कु पापीयसि कुत्सायामीषदर्थे निवारणे।। के सुखे वारिशिरसोः किं प्रश्ने कुत्सितेऽपि च ॥१७७५ चान्योन्यार्थसमाहारान्वाचयेषु समुच्चये । हेतौ पक्षान्तरे तुल्ययोगिताविनियोगयोः॥ १७७६ १. 'मन्त्रचूर्णलमिच्छन्ति वशीकरणवेदिनि । डाकिनीदोषमन्त्रशे कुशाम्बुप्रोक्षणेऽपि च । भवेत्सुरतताली तु दूतिकायां शिरःखजि । आशितंभवमन्नादावाशितंभवस्तर्पणे । स्यादाषाढभवो भीमे नवीनजलदेऽपि च । स्यान्नभश्चमसश्चन्द्रचितायूपेन्द्रजालयोः । हिङ्गुनिर्यास इत्येष निम्बे हिङ्गुरसेऽपि च।' इति ख-पुस्तकेऽधिकः पाठः. २. 'शृङ्गयां ग्रामयुद्धेऽपि कीर्त्यते । स्यान्मदनशलाका तु सार्या कामोदयौषधौ । मातुलपुत्रको धत्तूरफले मातुलात्मजे' इति ख-पुस्तकेऽधिकः पाठः. ३. 'स्नानचिकित्सकश्चातुर्मास्यव्रतकरे नरे । स्नानचिकित्सकं प्रोक्तं नारीपुष्पतपस्ययोः ॥' इत्यधिकः ख-पुस्तके. ४. 'यौवनलक्षणा' ख. ५. इतःपरम् 'समुद्रनवनीतं स्यात्पीयूषे च सुधाकरे' ख. ६. 'अर्धेन पारापतोऽर्द्धपारापतः, द्वावपि पक्षिभेदौ' इत्यनेकार्थकैरवाकरकौमुदी. ७. 'विष्वक्सेनप्रिया लक्ष्म्यां त्रायमाणौषधावपि' ख; 'विश्वक्सेन' ग-घ. ८. 'अ स्यादभावे स्वल्पार्थे विष्णावेष त्वनव्ययम्' ख. ९. अभिव्यक्तौ क्रियाभेदे भग-घ.१०. 'आ स्याद्वाक्ये च स्मरणे स्यादा वेधस्यनव्ययम्' ख. ११. 'कामदेवे त्वनव्ययम्। इ दुःखभावने क्रोधे ईर्लक्ष्म्यां स्यादनव्ययम् । उ संक्रुद्धौ रुषोक्तौ च शिववाची त्वनव्ययम् । उत्प्राधान्ये प्रकाशे च' ख-पुस्तकस्थपाठोऽयम्. १२. 'मोक्षे' ख. १३. 'ऊ रक्षणे रक्षके च सूच्यां स्यूतावनव्ययम् । ऋ कुत्सायां च वाक्ये च देवमातर्यनव्ययम् । ऋ वाक्यकुत्सयोर्दैत्यजनन्यामप्यनव्ययम् । ल कुत्सायां विस्मये च लशब्दोऽपि तदर्थकः । देवमातरि वाराह्यां क्रमात्तावप्यनव्ययौ । एऐशब्दौ तु हेहैवस्मृत्यामन्त्रणहूतिषु । क्रमाच्चतुर्भुजे शंभावेऐ प्रोक्तावनव्ययौ । ओमित्यनुमितौ प्रोक्तं प्रणवे चाप्युपक्रमे । ओऔशब्दौ तु होहौवत्संबुद्ध्याह्वानयोर्मतौ । विधातरि क्रमाद्विष्णावोऔशब्दावनव्ययौ ।' इत्येवं ख-पुस्तकस्थः पाठः. १४. 'मुखे' ख. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180