Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 143
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । कलानुनादी चटके चञ्चरीके कपिञ्जले।। गन्धमादनः कप्यद्रिभिदोरैलिनि गन्धके॥ १७४१ गन्धमादनी सुरायामथ जायानुजीविनः । वैकाश्विननटदुःस्थाः स्याद्भूमकेतनोऽनले ॥ १७४२ ग्रहभेदे च प्रतिपादनं बोधनदानयोः ।। पद्मलाञ्छनो धनदे लोकेशे रविवेधसोः॥ १७४३ पद्मलाञ्छना तारायां सरस्वत्यां श्रियामपि।। पीतचन्दनं स्याद्धरिद्रायां कश्मीरजन्मनि ॥ १७४४ महारजनं कुसुम्भे स्वर्णेऽथ मधुसूदनः । भ्रमरे केशवे मृत्युवञ्चनः श्रीफले हरे॥ १७४५ द्रोणकाकेऽप्यथ वरचन्दनं देवदारुणि । कालेये वरवणिन्यङ्गनालाक्षाप्रियङ्गुषु ॥ १७४६ रोचनायां हरिद्रायामथा स्याच्छकुलादनी । केटामांसीपिचुलिकाजलपिप्पलिकासु च ॥ १७४७ शालङ्कायनो नन्दृष्योः स्याच्छ्वेतवाहनः शशी । पार्थेऽथासहस्रवेधी चुक्रे सहस्रवेधि तु ॥१७४८ हिङ्गो, चामरपुष्पस्तु केतके चूतकाशयोः । गोरक्षजम्बूर्गोधूमधान्ये गोरक्षतण्डुले।॥ १७४९ धूलीकदम्बस्तिनिशे नीपे वरुणपादपे । शृगालजम्बूर्गोटुम्बे फले च बदरीतरोः ॥ १७५० अभ्युपगमः समीपागमने स्वीकृतावपि । नक्षत्रनेमिः शीतांशुरेवत्यौत्तानपादिषु ॥. १७५१ कालानुसार्य शैलेये कालेये शिशिपातरौ।। अथ स्याङ्ग्धतालीयं दुग्धाग्रदुग्धफेनयो।॥ १७५२ वृषाकपायी जीवन्त्यां शतावर्युमयोः श्रियाम् । उत्पलपत्रमुत्पलदले स्त्रीणां नखक्षते ॥ १७५३ कपिलधारा त्रिदशापगायां तीर्थभिद्यपि।। तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च ॥ १७५४ तालीसपत्रं तु तामलक्यां तालीसके कचित् । पादचत्वरः करके परदोषैकभाषिणि ॥ १७५५ सैकते छगलेऽश्वत्थद्रुमेऽथ, पांसुचामरः । वीपके प्रशंसायां दूर्वाचिततटी भुवि ॥ १७५६ पुरोटौ धूलिगुच्छे पीतकावेरं तु कुङ्कमे । पित्तले वस्वोकसारा विन्द्रस्य धनदस्य च ॥ १७५७ 'नलिनीपुर्योविप्रतिसारस्त्वनुशये रुषि । कौकृत्ये सर्वतोभद्रस्त्वोकोभित्काव्यचित्रयोः ॥ १७५८ निम्बेऽथ सर्वतोभद्रा गम्भार्यां नटयोषिति । समभिहारस्वाभीक्ष्णे भृशार्थेऽथासुतीबलः ॥१७५९ शौण्डिके यज्वन्युद्दण्डपालो मत्स्याहिभेदयोः । स्यादेककुण्डलो बलभद्रे किंपुरुषेश्वरे ॥ १७६० कृपीटपालस्तु केनिपाते जलनिधावपि । स्यात्पाण्डुकम्बलः श्वेतकम्बलग्रावभेदयोः॥ १७६१ १. 'कलं मनोशमनुवदति कलानुनादी' इति टीका. 'कालानुनादी' ख. २. 'अलौ च' ग-घ. ३. 'नटाश्विनवकदुःस्थाः' ख. ४. 'इत्येतच्छातकुम्भकुसुम्भयोः । मधुसूदनसंज्ञा तु भ्रमरे वनमालिनि । स्यान्मृत्युवञ्चनः शंभौ श्रीफलद्रोणकाकयोः । वरचन्दनमाख्यातं कालेये देवदारुणि । स्याद्वरवर्णिनी लाक्षाहरिद्रारोचनासु च । स्त्रीरत्ने च प्रियङ्गौ च स्यादथो शकुलादनी।' एवं पाठः ख-पुस्तके. ५. 'कटीमांसीपिञ्चलिका' ख; 'कटुमांसी किञ्चलिका' ग-घ. ६. 'शालकायनशब्दः स्यादृचिभेदेऽपि नन्दिनि । शिवकीर्तनशब्दस्तु भृङ्गिरीटे मुरद्विषि । श्वेतवाहन इत्याख्या शशाङ्के च धनंजये । स्यात्षष्ठिहायनो धान्यविशेषे च मतङ्गजे । सहस्रवेधी चुक्रे स्यात्सहस्रवधि रामठे । हरिचन्दनमाम्नातगोशीर्षे देवपादपे। हरिवाहन इत्युक्तो भास्करामरनाथयोः । भवेञ्चामरपुष्पस्तु के' इत्यधिकः ख-पुस्तके पाठः. ७. 'धूलीकदम्बोऽस्तिनिशे' ग-घ, ८. 'गोडुम्ब औषधम्' इति टीका. 'गोडिम्बे' ग-घ. ९. 'कालानुसार्यः' ग-घ. १०. 'दुग्धाने दुग्ध' ख. ११. इतः प्राक् 'भवेत्प्रवचनीयाख्या प्रवाच्ये च प्रवक्तरि' इत्यधिकः पाठः ख-पुस्तके. १२. 'तापिच्छस्तमालः' इति टीका. 'तापिञ्छ' ग-घ. १३. 'पांशु' ग-घ. १४. 'वस्वौकसारा' ग-घ. १५. 'पुरीनलिन्योर्वि' ख. १६. 'गम्भारी श्रीपर्णीवृक्षः' इति टीका. 'गम्भीर्याम्' ख. १७. 'भृशार्थे पौनःपुन्येऽपि कथ्यते । आसुतीबलशब्दस्तु यज्ञकर्तरि शौण्डिके । भवे. दुद्दण्डपालस्तु मत्स्यसर्पप्रभेदयोः । एककुण्डल इत्येष बलभद्रे धनाधिपे । कृपीटपालशब्दस्तु केनिपाते पयोनिधौ । कूटपाकलो गजपित्तज्वरे पाकमारुते ॥' इत्यधिकः पाठः ख-पुस्तके. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180