________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । कलानुनादी चटके चञ्चरीके कपिञ्जले।। गन्धमादनः कप्यद्रिभिदोरैलिनि गन्धके॥ १७४१ गन्धमादनी सुरायामथ जायानुजीविनः । वैकाश्विननटदुःस्थाः स्याद्भूमकेतनोऽनले ॥ १७४२ ग्रहभेदे च प्रतिपादनं बोधनदानयोः ।। पद्मलाञ्छनो धनदे लोकेशे रविवेधसोः॥ १७४३ पद्मलाञ्छना तारायां सरस्वत्यां श्रियामपि।। पीतचन्दनं स्याद्धरिद्रायां कश्मीरजन्मनि ॥ १७४४ महारजनं कुसुम्भे स्वर्णेऽथ मधुसूदनः । भ्रमरे केशवे मृत्युवञ्चनः श्रीफले हरे॥ १७४५ द्रोणकाकेऽप्यथ वरचन्दनं देवदारुणि । कालेये वरवणिन्यङ्गनालाक्षाप्रियङ्गुषु ॥ १७४६ रोचनायां हरिद्रायामथा स्याच्छकुलादनी । केटामांसीपिचुलिकाजलपिप्पलिकासु च ॥ १७४७ शालङ्कायनो नन्दृष्योः स्याच्छ्वेतवाहनः शशी । पार्थेऽथासहस्रवेधी चुक्रे सहस्रवेधि तु ॥१७४८ हिङ्गो, चामरपुष्पस्तु केतके चूतकाशयोः । गोरक्षजम्बूर्गोधूमधान्ये गोरक्षतण्डुले।॥ १७४९ धूलीकदम्बस्तिनिशे नीपे वरुणपादपे । शृगालजम्बूर्गोटुम्बे फले च बदरीतरोः ॥ १७५० अभ्युपगमः समीपागमने स्वीकृतावपि । नक्षत्रनेमिः शीतांशुरेवत्यौत्तानपादिषु ॥. १७५१ कालानुसार्य शैलेये कालेये शिशिपातरौ।। अथ स्याङ्ग्धतालीयं दुग्धाग्रदुग्धफेनयो।॥ १७५२ वृषाकपायी जीवन्त्यां शतावर्युमयोः श्रियाम् । उत्पलपत्रमुत्पलदले स्त्रीणां नखक्षते ॥ १७५३ कपिलधारा त्रिदशापगायां तीर्थभिद्यपि।। तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च ॥ १७५४ तालीसपत्रं तु तामलक्यां तालीसके कचित् । पादचत्वरः करके परदोषैकभाषिणि ॥ १७५५ सैकते छगलेऽश्वत्थद्रुमेऽथ, पांसुचामरः । वीपके प्रशंसायां दूर्वाचिततटी भुवि ॥ १७५६ पुरोटौ धूलिगुच्छे पीतकावेरं तु कुङ्कमे । पित्तले वस्वोकसारा विन्द्रस्य धनदस्य च ॥ १७५७ 'नलिनीपुर्योविप्रतिसारस्त्वनुशये रुषि । कौकृत्ये सर्वतोभद्रस्त्वोकोभित्काव्यचित्रयोः ॥ १७५८ निम्बेऽथ सर्वतोभद्रा गम्भार्यां नटयोषिति । समभिहारस्वाभीक्ष्णे भृशार्थेऽथासुतीबलः ॥१७५९ शौण्डिके यज्वन्युद्दण्डपालो मत्स्याहिभेदयोः । स्यादेककुण्डलो बलभद्रे किंपुरुषेश्वरे ॥ १७६० कृपीटपालस्तु केनिपाते जलनिधावपि । स्यात्पाण्डुकम्बलः श्वेतकम्बलग्रावभेदयोः॥ १७६१
१. 'कलं मनोशमनुवदति कलानुनादी' इति टीका. 'कालानुनादी' ख. २. 'अलौ च' ग-घ. ३. 'नटाश्विनवकदुःस्थाः' ख. ४. 'इत्येतच्छातकुम्भकुसुम्भयोः । मधुसूदनसंज्ञा तु भ्रमरे वनमालिनि । स्यान्मृत्युवञ्चनः शंभौ श्रीफलद्रोणकाकयोः । वरचन्दनमाख्यातं कालेये देवदारुणि । स्याद्वरवर्णिनी लाक्षाहरिद्रारोचनासु च । स्त्रीरत्ने च प्रियङ्गौ च स्यादथो शकुलादनी।' एवं पाठः ख-पुस्तके. ५. 'कटीमांसीपिञ्चलिका' ख; 'कटुमांसी किञ्चलिका' ग-घ. ६. 'शालकायनशब्दः स्यादृचिभेदेऽपि नन्दिनि । शिवकीर्तनशब्दस्तु भृङ्गिरीटे मुरद्विषि । श्वेतवाहन इत्याख्या शशाङ्के च धनंजये । स्यात्षष्ठिहायनो धान्यविशेषे च मतङ्गजे । सहस्रवेधी चुक्रे स्यात्सहस्रवधि रामठे । हरिचन्दनमाम्नातगोशीर्षे देवपादपे। हरिवाहन इत्युक्तो भास्करामरनाथयोः । भवेञ्चामरपुष्पस्तु के' इत्यधिकः ख-पुस्तके पाठः. ७. 'धूलीकदम्बोऽस्तिनिशे' ग-घ, ८. 'गोडुम्ब औषधम्' इति टीका. 'गोडिम्बे' ग-घ. ९. 'कालानुसार्यः' ग-घ. १०. 'दुग्धाने दुग्ध' ख. ११. इतः प्राक् 'भवेत्प्रवचनीयाख्या प्रवाच्ये च प्रवक्तरि' इत्यधिकः पाठः ख-पुस्तके. १२. 'तापिच्छस्तमालः' इति टीका. 'तापिञ्छ' ग-घ. १३. 'पांशु' ग-घ. १४. 'वस्वौकसारा' ग-घ. १५. 'पुरीनलिन्योर्वि' ख. १६. 'गम्भारी श्रीपर्णीवृक्षः' इति टीका. 'गम्भीर्याम्' ख. १७. 'भृशार्थे पौनःपुन्येऽपि कथ्यते । आसुतीबलशब्दस्तु यज्ञकर्तरि शौण्डिके । भवे. दुद्दण्डपालस्तु मत्स्यसर्पप्रभेदयोः । एककुण्डल इत्येष बलभद्रे धनाधिपे । कृपीटपालशब्दस्तु केनिपाते पयोनिधौ । कूटपाकलो गजपित्तज्वरे पाकमारुते ॥' इत्यधिकः पाठः ख-पुस्तके.
For Private and Personal Use Only