Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 141
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । तायें विशालनेत्रे च वीरवृक्षोऽर्जुनद्रुमे । भल्लाते। सकटाक्षस्तु कटाक्षिणि धवद्रुमे ॥ १६९६ अधिवासः स्यान्निवासे संस्कारे धूपनादिभिः।। अवध्वंसस्तु निन्दायां परित्यागेऽवचूर्णने ॥ १६९७ कलहंसो राजहंसे कादम्बे नृपसत्तमे।। कुम्भीनसस्त्वहौ कुम्भीनसी लेवणमातरि ॥ १६९८ घनरसोऽप्सु कपूरे सान्द्रे सिद्धरसे द्रवे । मोरटे पीलुपर्यों च.चन्द्रहासोऽसिमात्रके ॥ १६९९ दशग्रीवकृपाणे चातामरसं तु पङ्कजे । ताम्रकाश्चनयोदिव्यचक्षुस्त्वन्धे सुलोचने ॥ १७०० सुगन्धभेदे चा निःश्रेयसं कल्याणमोक्षयोः। नीलञ्जसा नदीभेदेऽप्सरोभेदे तडित्यपि ॥ १७०१ पुनर्वसुः स्यान्नक्षत्रे कात्यायनमुनावपि । पौर्णमासो यागभेदेोपौर्णमासी तु पूर्णिमा॥ १७०२ मलीमसं पुनः पुष्पकासीसे मलिनायसोः।। महारसः पुनरिक्षौ खजूरद्रौ कसेरुणि॥ १७०३ मधुरसा तु मूर्वायां द्राक्षादुग्धिकयोरपि ।। राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ॥ १७०४ रासेरसो रससिद्धिवलौ शृङ्गारहासयोः । षष्टीजागरके रोसे गोष्ठयां विश्वावसुः पुनः ॥ १७०५ निशि गन्धर्वभेदे च विभावसुस्तु भास्करे । हुताशने हारभेदे चन्द्रेः स्वःश्रेयसं सुखे ॥ १७०६ परानन्दे च भद्रे च सर्वरसस्तु धूणके । वाद्यभाण्डेवग्रहस्तु ज्ञानभेदे गजालिके ॥ १७०७ प्रतिबन्धे वृष्टिरोधेऽप्यभिग्रहस्तु गौरवे । अभियोगेऽभिग्रहणेऽवरोहस्तु लतोद्गमे ॥ १७०८ तरोरङ्गेऽवतरणेऽप्यश्वारोहोऽश्ववारके । अश्वारोहाश्वगन्धायामुपग्रहोऽनुकूलने ॥ १७०९ वन्धुपयोगयोश्चोपनाहो वीणानिबन्धने । व्रणालेपनपिण्डे च गन्धवहो मृगेऽनिले ॥ १७१० गन्धवहा तु नासायां तमोपहो जिने रवी । चन्द्रेऽग्नौ तनूरुहस्तु पुत्रे गरुति लोनि च ॥ १७११ प्रतिग्रहः सैन्यपृष्ठे ग्रहभेदे पतगहे । क्रियाकारे दानद्रव्ये तद्हे स्वीकृतावपि ॥ १७१२ परिग्रहः परिजने पल्यां स्वीकारमूलयोः। शोपेऽथ परिवाहोऽम्बूच्छासो राजाईवस्तुनि॥१७१३ परिवहः परिवारे पार्थिवोचितवस्तुनिः । पितामहः पद्मयोनौ जनके जनकस्य च ॥ १७१४ वरारोहो गजारोहे वरारोहा कटावपि । सर्वसहः सहिष्णौ स्यात्सर्वसहा पुनः क्षितौ ॥] १७१५ इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहे चतुःस्वरकाण्डश्चतुर्थः ॥ ४ ॥ पञ्चवरकाण्डः। स्यादाच्छुरितकं हासनखघातविशेषयोः । कक्षावेक्षकः शुद्धान्तपालकोद्यानपालयोः ॥ १७१६ द्वाःस्थे खिड्ने कवौ रङ्गाजीवेऽथ कटखादकः । खादके काचकलशे ,गालबलिपुष्टयोः ॥१७१७ कृमिकण्टकं चित्रायामुदुम्बरबिडङ्गयोः । स्याद्गोजागरिक भक्ष्यकारके मङ्गलेऽपि च ।। १७१८ १. 'सह कटाक्षैर्वर्तते सकटाक्षः' इति टीका. 'सङ्कटाक्षस्तु' ग-घ. २. 'लवणो राक्षसस्तस्य माता तस्मिन्' इत्यनेकार्थकैरवाकरकौमुदी. ३. 'नीलं जस्यति नीलसा ' इति टीका. 'नीलाञ्जसा' ग-घ. ४. 'मलोऽस्यास्ति मलीमसम्' इति टीका. 'मलीमसः' ख-ग-ध. ५. 'रसगो' ग-घ. ६. 'सर्वरासस्तु' ग-घ. ७. 'वाद्यभाण्डे च देशे च षड्रसान्वितवस्तुनि । अव' खः 'वाद्यभेदेऽवन' ग घ. ८. 'अवग्रहो ज्ञानभेदे अस्वातन्त्र्ये ग' इति ख-पुस्तकस्य पाठः. ९. 'अनुकूलवान्' ग-घ. १०. 'गन्धं वहति गन्धवहः, लिहादित्वादव्' इति टीका. 'गन्धः वाह' ग-घ. ११. 'मूल्ये च संग्रहे' ग-घ. १२. इति धनुश्चिहान्तर्गतपाठो ग-घ-पुस्तकयोस्त्रुटितः. १३. इत. प्राक् 'मदासहा स्यादम्लानकुसुमे माषपर्ण्यपि' इति ख-पुस्तकेऽधिकः पाठः. १४. इति धनुश्चिह्नान्तर्गतपाठः ख-पुस्तके त्रुटितः. १५. 'पिङ्गे' ख. १६. 'शृङ्गारे वलिपुच्छयोः' ग-घ. १७. 'उपकारिका पिष्टभेदोपकारेशवेश्मसु' इत्यधिकः पाठः ख-पुस्तके. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180