________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । तायें विशालनेत्रे च वीरवृक्षोऽर्जुनद्रुमे । भल्लाते। सकटाक्षस्तु कटाक्षिणि धवद्रुमे ॥ १६९६ अधिवासः स्यान्निवासे संस्कारे धूपनादिभिः।। अवध्वंसस्तु निन्दायां परित्यागेऽवचूर्णने ॥ १६९७ कलहंसो राजहंसे कादम्बे नृपसत्तमे।। कुम्भीनसस्त्वहौ कुम्भीनसी लेवणमातरि ॥ १६९८ घनरसोऽप्सु कपूरे सान्द्रे सिद्धरसे द्रवे । मोरटे पीलुपर्यों च.चन्द्रहासोऽसिमात्रके ॥ १६९९ दशग्रीवकृपाणे चातामरसं तु पङ्कजे । ताम्रकाश्चनयोदिव्यचक्षुस्त्वन्धे सुलोचने ॥ १७०० सुगन्धभेदे चा निःश्रेयसं कल्याणमोक्षयोः। नीलञ्जसा नदीभेदेऽप्सरोभेदे तडित्यपि ॥ १७०१ पुनर्वसुः स्यान्नक्षत्रे कात्यायनमुनावपि । पौर्णमासो यागभेदेोपौर्णमासी तु पूर्णिमा॥ १७०२ मलीमसं पुनः पुष्पकासीसे मलिनायसोः।। महारसः पुनरिक्षौ खजूरद्रौ कसेरुणि॥ १७०३ मधुरसा तु मूर्वायां द्राक्षादुग्धिकयोरपि ।। राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ॥ १७०४ रासेरसो रससिद्धिवलौ शृङ्गारहासयोः । षष्टीजागरके रोसे गोष्ठयां विश्वावसुः पुनः ॥ १७०५ निशि गन्धर्वभेदे च विभावसुस्तु भास्करे । हुताशने हारभेदे चन्द्रेः स्वःश्रेयसं सुखे ॥ १७०६ परानन्दे च भद्रे च सर्वरसस्तु धूणके । वाद्यभाण्डेवग्रहस्तु ज्ञानभेदे गजालिके ॥ १७०७ प्रतिबन्धे वृष्टिरोधेऽप्यभिग्रहस्तु गौरवे । अभियोगेऽभिग्रहणेऽवरोहस्तु लतोद्गमे ॥ १७०८ तरोरङ्गेऽवतरणेऽप्यश्वारोहोऽश्ववारके । अश्वारोहाश्वगन्धायामुपग्रहोऽनुकूलने ॥ १७०९ वन्धुपयोगयोश्चोपनाहो वीणानिबन्धने । व्रणालेपनपिण्डे च गन्धवहो मृगेऽनिले ॥ १७१० गन्धवहा तु नासायां तमोपहो जिने रवी । चन्द्रेऽग्नौ तनूरुहस्तु पुत्रे गरुति लोनि च ॥ १७११ प्रतिग्रहः सैन्यपृष्ठे ग्रहभेदे पतगहे । क्रियाकारे दानद्रव्ये तद्हे स्वीकृतावपि ॥ १७१२ परिग्रहः परिजने पल्यां स्वीकारमूलयोः। शोपेऽथ परिवाहोऽम्बूच्छासो राजाईवस्तुनि॥१७१३ परिवहः परिवारे पार्थिवोचितवस्तुनिः । पितामहः पद्मयोनौ जनके जनकस्य च ॥ १७१४ वरारोहो गजारोहे वरारोहा कटावपि । सर्वसहः सहिष्णौ स्यात्सर्वसहा पुनः क्षितौ ॥] १७१५
इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहे चतुःस्वरकाण्डश्चतुर्थः ॥ ४ ॥
पञ्चवरकाण्डः। स्यादाच्छुरितकं हासनखघातविशेषयोः । कक्षावेक्षकः शुद्धान्तपालकोद्यानपालयोः ॥ १७१६ द्वाःस्थे खिड्ने कवौ रङ्गाजीवेऽथ कटखादकः । खादके काचकलशे ,गालबलिपुष्टयोः ॥१७१७ कृमिकण्टकं चित्रायामुदुम्बरबिडङ्गयोः । स्याद्गोजागरिक भक्ष्यकारके मङ्गलेऽपि च ।। १७१८
१. 'सह कटाक्षैर्वर्तते सकटाक्षः' इति टीका. 'सङ्कटाक्षस्तु' ग-घ. २. 'लवणो राक्षसस्तस्य माता तस्मिन्' इत्यनेकार्थकैरवाकरकौमुदी. ३. 'नीलं जस्यति नीलसा ' इति टीका. 'नीलाञ्जसा' ग-घ. ४. 'मलोऽस्यास्ति मलीमसम्' इति टीका. 'मलीमसः' ख-ग-ध. ५. 'रसगो' ग-घ. ६. 'सर्वरासस्तु' ग-घ. ७. 'वाद्यभाण्डे च देशे च षड्रसान्वितवस्तुनि । अव' खः 'वाद्यभेदेऽवन' ग घ. ८. 'अवग्रहो ज्ञानभेदे अस्वातन्त्र्ये ग' इति ख-पुस्तकस्य पाठः. ९. 'अनुकूलवान्' ग-घ. १०. 'गन्धं वहति गन्धवहः, लिहादित्वादव्' इति टीका. 'गन्धः वाह' ग-घ. ११. 'मूल्ये च संग्रहे' ग-घ. १२. इति धनुश्चिहान्तर्गतपाठो ग-घ-पुस्तकयोस्त्रुटितः. १३. इत. प्राक् 'मदासहा स्यादम्लानकुसुमे माषपर्ण्यपि' इति ख-पुस्तकेऽधिकः पाठः. १४. इति धनुश्चिह्नान्तर्गतपाठः ख-पुस्तके त्रुटितः. १५. 'पिङ्गे' ख. १६. 'शृङ्गारे वलिपुच्छयोः' ग-घ. १७. 'उपकारिका पिष्टभेदोपकारेशवेश्मसु' इत्यधिकः पाठः ख-पुस्तके.
For Private and Personal Use Only