________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःस्वरकाण्डः। मुक्ताफलं घनसारे मौक्तिके लवलीफले । मृत्युफलो महाकाले मृत्युफली कदल्यथ ॥ १६६९ यवफलो मांसिकायां कुटजबचि सारयोः । वायुफलं तु जलदोपले शक्रशरासने ॥ १६७० वातकेलिः कलालापे षिङ्गानां दन्तलेखने।। विचकिलो दमनके मयामथा बृहन्नलः॥ १६७१ महापोटगले पार्थे सदाफल उदुम्बरे । नालिकेरे स्कन्धफले। हस्तिमल्लः सुरद्विपे ॥ १६७२ विघ्नेशे हलाहलस्तु हेयलालोरगे विषे । ज्येष्टयां चा हरिताली तु दूर्वागमनरेखयोः ॥ १६७३ कृपाणलतिकायां चानुभावो भावसूचने । प्रभावे निश्चये चापहवः स्नेहापलापयो॥ १६७४ अभिषवः ऋतौ मद्यसंधाननानयोरपि । आदीनवः पुनर्दोषे परिक्लिष्टदुरन्तयोः॥ १६७५ उपप्लवी राहूत्पातौ कुशीलवस्तु चारणे । प्राचेतसे याचके च जलबिल्वस्तु कर्कटे ॥ १६७६ जलचत्वरे पञ्चाङ्गे जीवञ्जीवः खगान्तरे । द्रुमभेदे चकोरे चाधामागेवस्तु घोषके ॥ १६७७ अपामार्गेऽप्यथ परिप्लवावाकुलवञ्चलौ । पराभवस्तिरस्कारे नाशे पारशवोऽयसि ॥ १६७८ शूद्रायां विप्रतनये तनये च परस्त्रियाः। पुटग्रीवस्तु गर्गयो ताम्रस्य कलशेऽपि च ॥ १६७९ बलदेवस्तु कालिन्दीकर्षणे मातरिश्वनिः । बलदेवा त्रायमाणा रोहिताश्वो हुताशने ॥ १६८० हरिश्चन्द्रनृपसुते सहदेवस्तु पाण्डवे । सहदेवा बलाचण्डोत्पलयोः शारिवौषधे ॥ १६८१ सहदेवी तु साक्ष्यामपदेशस्तु कारणे । व्याजे लक्ष्येऽप्यपभ्रंशो भाषाभेदापशब्दयोः ॥ १६८२ पतने चाश्रयाशस्तु वहावाश्रयनाशके । उपदंशोऽवदंशे स्यान्मेहनामययोरपि ॥ १६८३ उपस्पर्शस्त्वाचमनस्नानयोः स्पर्शमात्रके । खण्डपशुः शिवे राहौ भार्गवे चूर्णलेपिनि ॥ १६८४ खण्डामलकभैषज्ये जीवितेशः प्रिये यमे । जीवितस्वामिजीवात्वोर्नागपाशस्तु योषिताम् ॥ १६८५ करणे वरुणास्त्रे च.प्रेतिष्कशः पुरोगमे । वार्ताहरे सहाये च, पुरोडाशो हविर्भिदि ॥ १६८६ हुतशेषे सोमरसे चमस्यां पिष्टकस्य च । अम्बरीषो नृपे सूर्ये युधि भाष्ट्रकिशोरयोः॥ १६८७ आम्राते खण्डपरशावनुकर्षोऽनुकर्षणे । रथस्याधो दारुणि, चौनिमिषं सुरमत्स्ययोः॥ १६८८ अनुतर्षोऽभिलाषे स्यातॄषाचषकयोरपि । अलम्बुषश्छर्दनेऽलम्बुषा स्वःपणयोषिति ॥ १६८९ गण्डीर्या किंपुरुषस्तु किन्नरे लोकभिद्यपि । देववृक्षो मन्दारादौ गुग्गुलौ विषमच्छदे ॥ १६९० नन्दिघोषो वन्दिघोषे स्यन्दने च किरीटिनः । परिवेषः परिवृत्तौ परिधौ परिवेषणे ॥ १६९१ परिघोषः स्यादवाच्ये निनादे जलदध्वनौ । पलङ्कषो यातुधाने पलङ्कषा तु किंशुके ॥ १६९२ गोक्षुरे गुग्गुलौ रास्ना लाक्षामुण्डीदिकासु च । भूतवृक्षस्तु शाखोटे श्योनाककलिवृक्षयोः॥१६९३ महाघोषो महाशब्दे स्यान्महाघोषमापणे। महाघोषा शृङ्गयौषध्यांराजवृक्षः पियालके॥१६९४ सुवर्णालुतरौ, वातरूषः शक्रशराशने । वार्तलोत्कोचयोश्चापि विशालाक्षो महेश्वरे ॥ १६९५
१. 'विच्यते विचकलः' इति टीका. 'विचिकिलः' ग-घ. २. 'हयबाले हले वि' ग-घ. ३. 'वृष्टयां च' ग-घ. ४. 'हरितालं तु तालके । अनुभावः प्रभावे स्यान्निश्चये भावसूचने । अपह्नवः पुनः स्नेहेऽपलापे चोरकर्मणि' ख-पुस्तकस्थः पाठः. ५. 'याचकोऽर्थी' इति टीका. 'यावके च' ख; 'याजकेऽपि' ग-घ. ६. 'परिप्ल. वतीति परिप्लवः' इति टीका 'परिप्लवा' ग-घ. ७. 'दण्डोत्प' ख-ग-घ. ८. 'विदंशे स्यान्मेण्दरोगेऽपि कीतितः' ख. ९. 'प्रतिकशतीति प्रतिष्कशः' इति टीका. 'प्रतिष्ठाशः' ग-घ. १०. 'पञ्चदशी तु पूर्णिमा । दर्शश्च पादपाशी तु खटिकायामुदाहृता। शृङ्खलाकटके चापि पुरो' इति ख-पुस्तकेऽधिकः पाठः, ११. 'न निमिषति अनिमिषः' इति टीका. 'अनिमेषः' ग-घ. १२. 'तृष्णा च' ख. १३. 'पण्ययो' ग-घ. १४. 'स्यन्दने' ग-घ.
१७
For Private and Personal Use Only