Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 126
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ त्रिस्वरकाण्डः। मत्ते च वञ्चके चापि केशवः केशसंयुते । पुंनागे वासुदेवे च कैतवं द्यूतदम्भयोः।। १२९७ कैतवः कितवे शत्रौ. कैरवं शतपङ्कजे। कैरवी तु चन्द्रिकायां गन्धर्वस्तु नभश्चरे ॥ १२९८ पुंस्कोकिले गायने च मृगभेदे तुरङ्गमे । अन्तराभवदेहे च गालवो मुनिलोध्रयोः॥ १२९९ गाण्डीवगाण्डिवो चापमात्रे पार्थधनुष्यपि।। ताण्डवं तृणभिन्नाढ्यभेदयोस्त्रिदिवं तु खे ॥१३०० स्वर्गे च त्रिदिवा नद्यां द्विजिह्वः खलसर्पयोः । निह्नवः स्यादविश्वासेऽपलापे निकृतावपि।।१३०१ निष्पावः पवने शूर्पपवने निर्विकल्पके । वल्ले कडङ्गरे शिम्ब्यां प्रभवो जन्मकारणे ॥ १३०२ आद्योपलब्धये स्थानेऽपांमूले मुनिभिद्यपि,। प्रसवः पुष्पफलयोरपत्ये गर्भमोचने ॥ उत्पादे च प्रसेवस्तु वीणाङ्गस्यूतयोई तौ।। प्रभावस्तेजसि शक्तौ पल्लवः किसले चले ॥ १३०४ विटपे विस्तरेऽलक्तरागे शृङ्गारषिङ्गयोः । पञ्चत्वं भावे पञ्चानां प्राणानामत्ययेऽपि च ॥ १३०५ पार्थिवो नृपतौ भूमिविकारे पार्थिवी तुका। पुंगवो गवि भैषज्ये प्रधाने, चोत्तरस्थितः ॥ १३.०६ फेरवो राक्षसे फेरौ बान्धवो बन्धुमित्रयोः।। भार्गवः परशुरामे सुधन्वनि मतङ्गजे ॥ १३०७ दैत्यगुरौ भार्गवी तु कृष्णदूर्वोमयोः श्रियाम्।। भैरवो भीषणे रुद्रे रागभेदेऽथ माधवः॥ १३०८ विष्णौ वसन्ते वैशाखे माधवी मधुशर्करा । वासन्ती कुट्टिनी हाला, राघवोऽब्धिझषान्तरे ॥१३०९ रघुजेऽप्यथा राजीवो मीनसारङ्गभेदयोः।। राजीवमब्जे रौरवो भीषणे नरकान्तरे॥ १३१० वल्लवः स्यात्सूपकारे गोदोग्धरि वृकोदरे।। वडवाश्वायां स्त्रीभेदे कुम्भदास्यां द्विजस्त्रियाम् ॥१३११ वाडवं करणे स्त्रीणां वडवौधे रसातले । वाडवो विप्र और्वे चाविद्रवो धीः पलायनम् ॥१३१२ विभावः स्यात्परिचये रत्यादीनां च कारणे। विभवो धननिर्वृत्योः शात्रवं शत्रुसंचये ॥ १३१३ शत्रुत्वे शात्रवः शंत्री संभवः कारणे जनौ । आधेयस्याधारानतिरिक्तत्वे जिनेऽपि च ॥ १३१४ सचिव: संहायेऽमात्ये सुषवी कृष्णजीरके । जीरके कारवेल्ले चा सैन्धवः सिन्धुदेशजे ॥ १३१५ सिन्धूत्थेस्यादादशेस्तु टीकायां प्रतिपुस्तके । दर्पणे चाप्यथोड्डीशश्चण्डीशे शास्त्रभिद्यपि ॥१३१६ उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम् । कर्कशो निर्दये क्रूरे कैम्पिल्यककृपाणयोः ॥ १३१७ इक्षौ साहसिके कासमर्दके परुषे दृढे।। कपिशौ सिल्हकश्यावी. कपिशा मोधवी सुरा॥ १३१८ कीनाशः क्षुद्रयमयोः कर्षकोपांशुघातिनो कुलिशो मत्स्यभित्पब्योगिरीशो वाक्पतौ हरे१३१९ अद्रिराजेऽथ तुङ्गीशः शशाङ्के शशिशेखरे । निस्त्रिंशोनिघृणे खड्गनिर्देशः कथनाज्ञयोः१३२० १. 'कोटवी चण्डिका मता । वस्त्रहीना च वनिता' इति ख-पुस्तकेऽधिकः पाठः. २. 'सितपङ्कजे' ख-ग-घ. ३. 'गाजीव' ख. ४. 'खे' इति टीका. 'सुखे' ख. ५. 'पावने सूर्ये पवने' ख. ६. 'वल्लो धान्यभेदः कडङ्गरो बुसं शिम्बी बीजकोशी' इति टीका. 'बोले कडङ्गके शिम्यां' ग-घ. ७. 'आद्या प्रथमा उपलब्धि दर्शनं गङ्गादीनां तदर्थ स्नानं तत्र' इति टीका. 'आद्योपलम्भनस्थाने' ख; 'आद्योपलब्धसुस्थाने' ग-घ. ८. 'दृतिरालूश्चर्ममयी' इति टीका. 'हतौ' ख. ९. 'किशले बले' ग-घ. १०. 'षिङ्गयोः' ख. ११. 'तुका वंशरोचना' इति टीका. 'तुगा' ख: 'तुमा' ग-घ, १२. 'चोत्तरः स्थितः' ग-घ. १३. 'दैत्याचार्य' ख. १४. 'मधुजे' ग-घ. १५. 'अग्नौ' ग-ध. १६. 'परिभवे रसादीनां च' न. १७. 'संभवे' ख. १८. 'शास्त्रौ' ग-घ. १९. 'षाडवो रागमानयोः । संभवो जनने हेतौ मेलके चारुजन्मनि' ख. २०. 'समये' ख. २१. 'भृतके' ख. २२. 'कारवेल्ले च जीरे च सुग्रीवो वानराधिपे । चारुग्रीवे सैन्धवस्तु सिन्धुदेशोद्भवे हये ।। मणिमन्थेऽप्यथादर्शष्टीकायां' ख. २३. 'कम्पिल्लक' ख-ग-घ. २४. 'वशौ' ग-घ. २५. 'माधुरी' ग घ. २६. 'भययोः' ख. २७. इतःपरम् 'दुःस्पर्शस्तु खरस्पर्श कण्टकार्या यवासके' ख. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180