Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुःस्वरकाण्डः। मूर्वाश्च कर्णिकारस्तु कृतमाले द्रुमोत्पले। करवीरो हयमारे कृपणे दैत्यभिद्यपि ॥ १६१७ करवीरी पुत्रवत्यां सद्गव्यामदितावपि । कलिकारस्तु धूम्याटे पीतमुण्डकरञ्जयोः ॥ १६१८ कर्णपूरः स्याच्छिरीषे नीलोत्पलवसन्तयोः। कटंभरा प्रसारिण्यां गोलायां गजयोषिति ॥ १६१९ कलम्बिकायां रोहिण्यां वर्षाभूमूर्वयोरपि।। कालञ्जरो भैरवायोर्योगिचक्रस्य मेलके ।। १६२० कादम्बरं दधिसारे शीधुमद्यप्रभेदयोः ।। कादम्बरी कोकिलायां वाणीशारिकयोरपि ॥ १६२१ कुम्भकारः कुलाले स्यात्कुम्भकारी कुलत्थिका। कृष्णसारः शिंशपायां मृगभेदे स्नुहीतरौ॥१६२२ गिरिसारः पुनर्लोहे लिङ्गे मलयपर्वते । घनसारस्तु कर्पूरे दक्षिणावर्तपारदे ॥ १६२३ चर्मकारः पादूकृति। चर्मकार्यौषधीभिदि।। चक्रधरो विष्णुसर्पचक्रिषु प्रामजालिनि ॥ १६२४ चराचरं जङ्गमे स्यादिङ्गविष्टपयोरपि । चित्राटीरो घण्टाकर्णबलिच्छागास्रबिन्दुभिः ॥ १६२५ अङ्कितभाले चन्द्रे च तालपत्रं तु कुण्डले । स्यात्तालपत्री रण्डायां तुगभद्रो मदोत्कटें ॥ १६२६ तुङ्गभद्रा नदीभेदे, तुलाधारस्तुलागुणे । वाणिजे तुण्डकेरी तु कर्पासी बिम्बिकापि च ॥ १६२७ तोयधारो जलधरे सुनिषण्णाख्यभेषजे।। दशपुरं पत्तने स्यान्मुस्तायां नीवृदन्तरे ॥ १६२८ दण्डधारो यमे राज्ञि, दण्डयात्रा तु दिग्गजे । संयाने वरयात्रायां दिगम्बरस्तु शंकरे ॥ १६२९ अन्धकारे क्षपणके स्याद्वस्तरहितेऽपि च । दुरोदरः पुन ते द्यूतकारे पणेऽपि च ॥ १६३० देहयात्रा यमपुरीगमने भोजनेऽपि च । द्वैमातुरो जरासंधे हेरम्बेऽथ धराधरः॥ १६३१ कृष्णेऽद्रौ, धाराधरस्तु पयोदकरवालयोः । धाराङ्करः शीकरे स्यान्नासीरे जलदोपले ॥ १६३२ धार्तराष्ट्रः कौरवेऽहौ कृष्णास्योग्रिसितच्छदे । धुन्धुमारो गृहधूमे नृपभेदेन्द्रगोपयोः ॥ १६३३ पदालिकेऽप्यथा धुरंधरो धुर्ये धवद्रुमे । धृतराष्ट्रः खगे सर्प सुराज्ञि क्षत्रियान्तरे॥ १६३४ धृतराष्ट्री हंसपद्यांनभश्चरः खगेऽम्बुदे । विद्याधरे समीरे च निशाचरस्तु राक्षसे ॥ १६३५ सर्प घूके श्रृंगाले च निशाचरी तु पांसुला निषद्वरः स्मरे पङ्के निषद्वरी पुनर्निशि ॥ १६३६ नीलाम्बरो बलभद्रे राक्षसे क्रूरलोचने। प्रतीहारो द्वारि द्वाःस्थे। प्रतीकारः समे भटे॥ १६३७ प्रतिसरश्चभूपृष्ठे नियोज्यकरसूत्रयोः । मत्रभेदे व्रणशुद्धावारक्षे मण्डने स्रजि ॥ १६३८ कङ्कणेऽथ परिकरः पर्यङ्कपरिवारयोः । प्रगाढे गात्रिकाबन्धे विवेकारम्भयोर्गणे ॥ परिवारः परिजनेऽसिकोशेऽथा परम्परः। मृगभेदे प्रपौत्रादौ परम्परान्वये वधे ॥ १६४० परिपाट्या परिसरः प्रान्तभूदेवयोम॒तौ ।। पक्षचरो यूथभ्रष्टपृथक्चारिगजे विधौ ॥ १६४१ पयोधरः कुचे मेघे कोशकारे कशेरुणि । नौलिकेरे पात्रटीरस्त्वपव्यापारमत्रिणिः ॥ १६४२
१. 'करो वृक्षः' इति टीका. 'करण्डयोः' ग-घ.२. 'सीधु'ख; 'सिन्धु' ग-घ. ३. 'वीणाशा' ख; 'वाणीसा' ग-घ. ४. 'अहो' ग-घ. ५. 'इङ्गमद्भुतम्' इति टीका. 'इष्टवि' ग-घ. ६. 'घण्टाको यक्षस्तस्य बलिनिमित्तं यो हतश्छागस्तस्यास्रं रक्तं तस्य बिन्दवस्तैरङ्कितं भालं यस्य तस्मिन्नित्यर्थः' इति टीका. .७. 'तुण्ड्यते तुण्डकेरी' इति टीका. 'तुण्डकारी ख. ८. 'कसी वमनी' इति टीका. 'कार्पासी' ग-ध. ९. 'तोयं धरति तोयधारः इति टीका. 'तोयाधारः' ख. १०. 'धारां धरति धाराधरः' इति टीका. 'धाराधारः' ख. ११. 'सुनासीरे शीकरे जलदोपले' ख. १२. 'अभ्यसित' ग-घ. १३. 'पदालिकमौषधीभेदः' इति टीका. 'पलादि' ख; 'पादालि' ग-घ. १४. 'धुरां धारयति धुरंधरः, धारेधचेति खः' इति टीका. 'धुरंधुरः' ख. १५. 'सृगाले' ग-घ. १६. 'आरक्षे गजललाटमर्मणि' इति टीका. 'व्रणशुद्धे चारक्षे' ग-घ. १७. 'पक्षे चरति पक्षचरः' इति टीका. 'पक्षधरः' ग-व. १८. 'कसेरु' ख. १९. 'नारिकेरे' ग-घ.
For Private and Personal Use Only

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180