Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 117
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४० अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः । १०५२ १०५३ १०५४ 1 १०५८ विधवायां सिरालायां करभो मैय उष्ट्रके । अङ्गुलेश्च कनिष्ठाया मणिबन्धस्य चान्तरे || ककुभो वीणाप्रसेवे रोगभेदेऽर्जुनद्रुमे । कुसुम्भं तु शातकुम्भे स्यालद्वायां कमण्डलौ ॥ गर्दभो रास गन्धे गर्दभी जन्तुरुग्भिदोः । । गर्दभं कुमुदभेदे दुर्लभः केच्छुरे प्रिये ॥ दुष्प्रापेऽपि दुन्दुभिस्तु भेर्यां दितिसुते र्विषे । अक्षबिन्दुत्रिकद्वन्द्वो निकुम्भः कुम्भकर्णजे ॥ १०५५ दन्त्यां च वल्लभोऽध्यक्षे कुलीनाश्वे प्रियेsपि च । वर्षाभूः पुनर्नवायां स्याद्गण्डूपदभेकयोः ॥ १०५६ farsaभो विस्तृतौ योगविशेषप्रतिबन्धयोः । योगिनां च बन्धभेदे रूपकावयवेऽपि च ।। १०५७ विश्रम्भः केलिकलहे विश्वासे प्रणये वधे। वृषभः स्यादादिजिने वृषपुंगवयोरपि ॥ सनाभिर्ज्ञातिसदृशः सुरभिर्हेनि चम्पके । जातिफले मातृभेदे रम्ये चैत्रवसन्तयोः ॥ १०५९ सुगन्धौ गवि सल्लक्यामधमो न्यूनगर्ह्ययोः । आगमस्त्वागतौ शास्त्रेऽप्याश्रमो व्रतिनां मठे १०६० ब्रह्मचर्यादिचतुष्केऽप्युत्तमा दुग्धिकौषधौ । उत्तमं तु प्रधाने / स्यात्कलमः शालिचौरयोः ॥ १०६१ कुसुमं स्त्रीरंजोनेत्ररोगयोः फलपुष्पयोः । कृत्रिमं लवणभेदेः कृत्रिमः कृतसिहृयोः ॥ १०६२ गोधूमो भेषजे नागरङ्गत्रीहिप्रभेदयोः । गोलोमी वारयोषायां षड्यन्थासितदूर्वयोः ॥ १०६३ गौतमो गणभृद्भेदे शाक्यसिंहर्षिभेदयोः । गौतम्युमायां रोचन्यां तलिमं तल्पखङ्गयोः || १०६४ विनाते कुट्टिमे चापि दाडिमः करकैलयोः । निष्क्रमो निर्गमे बुद्धिसंपत्तौ दुष्कुलेऽपि च १०६५ नियमः स्यात्प्रतिज्ञायां निश्चये यन्त्रणे व्रते । निगमाः पूर्वणिग्वेदनिश्चयाध्ववणिक्पथाः ॥ १०६६ नैगमो नयपौरोपनिषेर्धृतिषु वाणिजे । प्रथमः स्यात्प्रधानाद्योः प्रक्रमोऽवसरे क्रमे || १०६७ पञ्चमो रुचिरे दक्षे पश्चानामपि पूरणे । रागभेदे पञ्चमी तु द्रौपद्यां परमः परे ॥ अप्रेसरप्रथमयोरोङ्कारे परमं पुनः । स्यादव्ययमनुज्ञायां [ प्रतिमा प्रतिरूपके || गजस्य दन्तबन्धे च], मध्यमो मध्यजे स्वरे । देहमध्ये मध्यदेशे मध्यमा कर्णिकाङ्गुलिः ॥ १०७० का रजस्वला चापि व्यायामः पौरुषे श्रमे । वियामे दुर्गसंचारे विलोम मरघट्टके ॥ 1 १०७१ विलोमो वरुणे सर्पे प्रतीपे कुर्कुरेऽपि च । विलोमी स्यादामलक्यां विक्रमः शक्तिसंपदि १०७२ क्रान्तौ च विद्रुमो वृक्षे प्रवालेऽप्यथ विभ्रमः । शोभायां संशये हाँवे सत्तमः श्रेष्ठपूज्ययोः १०७३ साधिष्टे संभ्रमो भीतौ संवेगादरयोरपि । सुषीमः शिशिरे रम्ये । सुषुमं रुचिरे समे ॥ १०७४ सुषमा तु स्यात्परमशोभायां कालभिद्यपि । अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः ॥ १०७५ अवध्यमवधार्हे स्यादनर्थकवचस्यपि । अभयमुशीराभीत्योरभया तु हरीतकी ॥ १०७६ अनयोऽशुभदैवे स्याद्विपद्व्यसनयोरपि । अश्वीयमश्वसङ्केऽश्वहितेऽधृष्यः प्रगल्भके ॥ १०७७ अधृष्या निम्नगाभेदेऽहल्या गौतमयोषिति । सरोभेदेऽप्यभिख्या तु शोभायां कीर्तिसंज्ञयो १०७८ अहार्यो हर्तुमशक्ये शैलेऽथाशय आश्रये । अभिप्रायपनसयोरादित्यस्त्रिदशार्कयोः ॥ १०७९ १०६८ १०६९ Acharya Shri Kailassagarsuri Gyanmandir १. 'भय उ' ख. २. 'रोग' ग घ ३. 'मञ्जिष्ठायां क' ख. ४. 'कुमुदे श्वेते' ख; 'सितकुमुदे' ग घ . ५. 'कच्छपे ' ख. ६. 'विशे' घ. ७. 'अर्धबि' ग घ ८. 'शल्लक्याम्' ख ग घ ९. 'राजन्याम्' ग घ . १० . 'वणि' ख. ११. 'दृतिषु' ख ग घ १२. ' आकारे' ख; 'अकारे' ग घ १३. 'प्रतिमः प्रतिरूपके' ख; धनुश्चिद्वान्तर्गत पाठो ग घ - पुस्तकयोस्त्रुटितः १४. 'कन्यार' ग घ. १५. 'कुकुरे' ग घ. १६. 'ऋतौ ' ख. १७. ‘भावे' ख. १८. 'सुषमम्' ख. १९. 'विक्रमे' ख. २०. 'अश्वीयमश्वनिवहे तथाश्वस्य हितेऽपि च । अव्ययः शब्दभेदेऽपि निर्व्यये परमेश्वरे । अगस्त्यो मुनौ द्रुभेदे स्यात्' इति ग घ पुस्तकयोरधिकः पाठः. २१. 'अध्याश' ख ग घ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180