SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org , ३८ अभिधान संग्रह::- ८ अनेकार्थसंग्रहः । 1 1 खलीकारे भट्टिनी तु ब्रह्मण्यां नृपयोषिति । भावना वासना ध्यानं भुवनं लोकखाम्बुषु ॥ ९९५ भूतात्मा दुहि देहे मदनः सिक्थके स्मरे । राढे वसन्ते धत्तूरे मलिनं कृष्णदोषयोः ॥ ९९६ मलिनी रजस्वलायां मण्डनं तु प्रसाधने । मण्डनोऽलंकरिष्णौ स्यान्मार्जनो लोध्रशाखिनि ।। ९९७ मार्जनं शुद्धिकरणे मार्जना मुरजध्वनौ । मालिन्युमायां गङ्गायां चम्पावृक्षप्रभेदयोः || ९९८ मालक्यां मिथुनो राशौ. मिथुनं पुंस्त्रियोर्युगे । मुण्डनं रक्षणे क्षौरो मेहनं मूत्रशिनयोः ॥ ९९९ मैथुनं रतसंगत्योर्यमनं यमबन्धयोः । । यापनं कालविक्षेपे निरासे वर्तनेऽपि च ॥ १००० योजनं तु चतुः कोश्यां स्याद्योगपरमात्मनोः । रसनं ध्वनिते स्वादे रसज्ञारास्त्रयोरपिं ॥ १००१ रञ्जनं रञ्जके रक्तचन्दनेऽप्यथ रंजनी । मञ्जिष्ठारोचनानीलीगुडा । रजनी निशि ॥ १००२ लाक्षानीलीहरिद्रासु राधनं प्राप्तितोषयोः । साधने रेचनी गुण्डादन्ती रोनिका त्रिवृत् ॥ १००३ रोदनं त्वश्रुणि क्रन्दे रोचनः कूटशाल्मलौ । रोचना रक्तकहारे गोपित्ते वरयोषिति ॥ १००४ लङ्घनं भोजनत्यागे लवने क्रमणेऽपि च । ललामवलेला मावे शृङ्गे चिह्नपताकयोः ॥ १००५ रम्ये प्रधाने भूषायां पुण्ड्रे पुच्छप्रभावयोः । ललना स्त्रीनडिजिह्वा लाञ्छनं लक्ष्मसंज्ञयोः ॥ ॥ १००६ लाङ्गली स्याद्बलभद्रे नालिकेरेऽथ लेखनम् । भूर्जे छेदे लिपिन्यासे व्यसनं निष्फलोद्यमे || १००७ दैवानिष्टफले सक्तौ स्त्रीपानमृगयादिषु । पापे विपत्तावशुभे व्यञ्जनं श्मश्रुचिह्नयोः ॥ १००८ asara कादौ वमनं छर्दनेऽर्दने । वसनं छादने वस्त्रे वर्जनं त्यागहिंसयोः ॥ वर्धनं छेदने वृद्ध वर्धनी तु गलन्तिका । वपनं मुण्डने बीजाधानेऽथ वर्तनी पथि ॥ वर्तने तर्कुपिण्डे च वनश्वा विप्रेंतारके । शार्दूले गन्धमार्जारे वामनो दिग्गजेऽच्युते ॥ १०११ खर्वेऽङ्कोठे वाहिनी तु सेनातद्भेदसिन्धुषु । स्याद्वाणिनी तु नर्तक्यां छेकमत्तस्त्रियोरपि ॥ १०१२ वितानं कैद यज्ञे विस्तारे ऋतुकर्मणि । तुत्थे मन्दे वृत्तभेदे शून्यावसरयोरपि ॥ १०१३ विज्ञानं कार्मणे ज्ञाने विलग्नं मध्यलग्नयोः । विक्लिन्ना जीर्णशीर्णार्द्रा विलीनौ लीनविद्रुतौ ॥१०१४ विषघ्नः शिरीषतरौ विषघ्ना त्रिवृतामृता । विच्छन्नं तु कुटिले स्यात्समालब्धविभक्तयोः ।। १०१५ विमानं देवतायाने सप्तभूमिगृहेऽपि च । विधानं हस्तिकवले प्रेरणेऽभ्यर्चने धने ॥ चेतनोपायविधिषु प्रकारे वैरकर्मणि । विपन्नो भुजगे नष्टे विश्वप्सा वह्निचन्द्रयोः ॥ समीरणे कृतान्ते च विलासी भोगेंसर्पयोः । विषयी विषयासक्ते वैषयिकजने नृपे ॥ कामे विषय हृषीके व्युत्थानं प्रतिरोधने । विरोधवरणे स्वैरवृत्तौ समधिपारणे ।। वृजिनः केशे वृजिनं भुनेऽधे रक्तचर्मणि । वेष्टनं मुकुटे कर्णशष्कुल्युष्णीषयोर्वृतौ ॥ वेदना ज्ञाने पीडायां शयनं स्वापशय्ययोः । रते शमनस्तु यमे शमनं शौन्तिहिंसयोः ॥ १०२१ श्वसनं श्वासे श्वसनः पवने मदनद्रुमे । शकुनं स्याद्दैवशंसिनिमित्ते · शकुनः खगे ॥ शकुनिः खगे करणभेदे कौरवमातुले । शतघ्नी तु वृश्चिकाल्यां शस्त्रभेदकरञ्जयोः ॥ १००९ १०१० 1 १०१६ १०१७ १०१८ 1 १०१२ १०२० १०२२ १०२३ Acharya Shri Kailassagarsuri Gyanmandir १. ‘खलिकारे' ख. २. 'ब्राह्मण्यां ' ख ग घ ३. 'लोकना कारखाम्बुषु' ग घ. ४. 'अस्मरे' ग घ. ५० 'वृक्ष प्र' ख-ग. ६. 'निराशे' ख. ७. 'राजिनी' ग घ ८. 'स्नुहीषु' ख; 'गण्डासु' ग घ ९. 'गुन्द्रादं ' ग घ. १०. 'रोचनका' ग घ ११. 'कलामा' ग घ १२. 'नारी' ग-व. १३. 'लाञ्चनं' ख. १४. 'लक्ष्यचिह्न ' ग घ. १५. 'पीठे' ग घ. १६. 'अपि प्रता' ख. १७. 'कोटे' ख; काण्डे' ग घ १८. ' कदक उल्लोचः ' इति टीका. 'कल्लोले' ख. १९. 'वसथयोः ' ख. २० ' सप्तभूम गृ' खः 'सार्वभौम' ग घ २१. ' भोगिस' ख-ग-घ, २२. 'आचरणे' ख ग घ २३ ' शान्तहिं' ग घ. For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy