Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 112
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ त्रिस्वरकाण्डः। अश्वत्थेषपौर्णमास्यामतिथिः कुशनन्दने । क्रुध्यागन्तावथोपस्थः पायुमेढ़ाङ्कयोनिषु ॥ ९१४ उन्माथो मारणे कूटयघातकयोरपि ।। क्षवथुः कासे छिकायां कायस्थोऽक्षरजीवकः ॥ ९१५ परमात्मा च कायस्था हरीतक्यामलक्यपि । दमथो दमने दण्डे। निर्ग्रन्थो नि:स्वमूर्खयोः ९१६ (श्रमेण च निशीथस्तु रात्रिमात्रार्धरात्रयोः।। प्रमथः शंकरगणे प्रमथा तु हरीतकी॥ ९१७ मन्मथः कामचिन्तायां पुष्पचापकपित्थयोः)। रुदथः कुकुटशुनोर्वश्चथः पिककालयोः ॥ ९१८ वरूथं तु तनुत्राणे रथगोपनवेश्मनोः । वयःस्थो मध्यमवया वयःस्था शाल्मलीद्रुमे ॥ ९१९ ब्राह्मी गडूची काकोलीसूक्ष्मैलामलकीषु च।। वमथुर्वमने कासे गंजस्य करसीकरे ॥ ९२० विदथो योगिनि प्राज्ञे शमथः सचिवे शमे । शपथः कार आक्रोशे, शपने च सुंतादिभिः॥ ९२१ शयथः स्यादजगरे निद्रालौ मरणेऽपि च । षड्ग्रन्थः करञ्जभेदो षड्ग्रन्था तु वचा सठी . ९२२ समर्थः शक्तिसंपन्ने संबद्धार्थे हितेऽपि च । सिद्धार्थः सर्षपे शाक्यसिंहेऽन्त्यजिनवप्तरि ।। ९२३ अर्बुदः पर्वते मांसकीलके दशकोटिषु । अर्धेन्दुः स्यादतिप्रौढस्त्रीगुह्याङ्गुलियोजने ॥ ९२४ गलहस्ते नखाङ्केऽर्धचन्द्रेऽङ्गादस्तु वालिजे।। अङ्गदं तु केयूरे स्यादङ्गादा याम्यदिग्गजी॥ ९२५ आस्पदं कृत्यपदयोरामोदो गन्धहर्षयोः । आक्रन्दो दारुणरणे सारावरुदिते नृपे॥ ९२६ क्षणदं तोये क्षणदो गणके क्षणदा निशिः। कपर्दी पार्वतीभर्तुर्जटाजूटे वराटके|| ९२७ कर्णान्दुः स्यात्कर्णपाश्युत्क्षिप्तिका कुमुदः कपौ । दिग्नागनागयोर्दैत्यविशेषे च सितोत्पले ॥ ९२८ कुमुदा कुम्भीगम्भार्योः कुसीदं वृद्धिजीवने । वृद्धथाजीवे कौमुदस्तु कार्तिके कौमुदीन्दुभा ॥९२९ गोविन्दस्तु गवाध्यक्षे वासुदेवे बृहस्पतौ।। गोष्पदं गोखुरश्वभ्रे गवां च गतिगोचरे ॥ ९३० जलदो मुस्तके मे जीवदो रिपुवैद्ययोः । प्रन्थिपणे तमोनुत्तु शशिमार्तण्डवह्निषु ॥ ९३१ दारदो विषभेदे स्यात्पारदे हिङ्गुलेऽपि च । दायादौ सुतसपिण्डौ धनदौ दातृगुह्यकौ॥ ९३२ नलदा मास्यां नलदमुशीरमकरन्दयोः । नर्मदा रेवानिर्माल्योनिषादः श्वपचे स्वरे॥ ९३३ निर्वादस्त्यैक्तवादेऽपवादे च प्रमुदो मुदि। प्रमदा स्त्री प्रसादोऽनुग्रहस्वास्थ्यप्रंसत्तिषु ॥ ९३४ काव्यगुणे प्रल्हादस्तु निनादे दानवान्तरे। प्रतिपत्संविदि तिथौ प्रासादो राजमन्दिरे ॥ ९३५ देवतायतने चापि मर्यादा स्थितिसीमयोः। माकन्दः स्यात्सहकारे माकन्द्यामलकी फले ॥९३६ मुकुन्दः पारदे रत्नविशेषे गरुडध्वजे । मेनादः केकिनि च्छागे मार्जारे वरदः पुनः ॥ ९३७ प्रसन्ने शान्तचित्ते च वरदा तु कुमारिका । विशदः पाण्डुरे व्यक्ते शारदो वत्सरे नवे ॥ ९३८ शरद्भवे पीतमुद्ने शालीनेऽप्यथा शारदी । सप्तपर्णाम्बुपिप्पल्योः सुनन्दा रोचनाङ्गना॥ ९३९ १. 'गन्तावव्यथस्तु व्यथाहीने च पन्नगे । अव्यथा तु हरीतक्यामुपस्थो योनिलिङ्गयोः । उत्सङ्गगुदयोश्चापि समीपस्थितवत्यपि । उन्मायो' ख. २. 'उदधस्ताम्रचूडे स्यान्महेन्द्रमहकामुके । क्षवथुः' ख. ३. गोग्रन्थिस्तु करीषे स्याद्गोष्ठे गोजिह्निकौषधौ । दमथो' ख. ४. 'दमके' ग-घ. ५. भिक्षुमूर्खयोः' ख. ६. धनुश्चिन्हान्तर्गतपाठो ग-घ-पुस्तकयोस्त्रुटितः. ७. 'वञ्चतीति वञ्चथः' इति टीका. 'वर्चथः' ख; 'वरूथः' ग. ८. 'मातङ्ग क' ख. ९. 'शीकरे' ग. १०. 'श्रुतादि' ख; 'शपनं सुतादिशरीरस्पर्शः' इति टीका. ११. 'शयथु' ग. १२. 'निद्रादौ' ख. १३. 'अन्त्यजिनो महावीरस्तस्य वप्ता जनकः' इति टीका. 'व्यञ्जनव' ख; 'अपि जिनवसरि' ग. १४. 'अङ्गजा' ग. १५. 'रसे' ग. १६. 'तु भा' ख. १७. 'क्षुर' ख, १८. 'तमोभित्तु' ख. १९. 'मातङ्ग' ख. २०. इतः परमित्यधिकः पाठः-'तोयदो मुस्तके मेधे तोयदं नवनीतजे' ख. २१. 'दरदो वि' ख. २२. 'दोहदो गर्भलक्षणे । अभिलाषे तथा गर्भे' ख. २३. 'लोकवादे' ग, २४. 'प्रसक्तिषु' ग. २५. 'सप्तपर्ण्यम्बु' ग. २६. 'संभेदः सिन्धुसंगमे । पुष्पादीनां विकासेऽपि स्यात्सुनन्दा तु रोचने' ख. ०M For Private and Personal Use Only

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180