Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 103
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । रूपकं नाटकायेषु काव्यालंकारधूर्तयोः।। रेणुका तु हरेण्वां स्याज्जमदग्नेश्च योषिति ॥ ६८९ लम्पाको लम्पटे देशेलासको केकिनर्तकौ । लूनकस्तु पशौ भिन्ने लोचको नीलवाससि ।। ६९० कज्जले मांसपिण्डेऽक्षितारे स्त्रीभालभूषणे । निर्बुद्धौ कर्णिकामोचाज्यासु भ्रूश्लथचर्मणि ॥ ६९१ वराकः शोच्यरणयोर्वर्तकोऽश्वखुरे खगे। वञ्चको जम्बुके गेहनकुले खलधूर्तयोः॥ ६९२ वैल्मीको नाकुवाल्मीक्यो रोगभेदेऽथ वर्णकः। विलेपने मलयजे चारणे वसुकं पुनः ॥ ६९३ रोमको वसुकस्तु स्याच्छिवमयर्कपर्णयोः । व्यलीकं व्यङ्गवैलक्ष्याप्रियाकार्येषु पीडन ॥ ६९४ वार्षिकं त्रायमाणायां वर्षाभवेऽथा वाल्हिकः । देशभेदेऽश्वभेदे च वाल्हिकं हिङ्गु कुङ्कुमम् ॥६९५ वाल्हीकवद्वार्धकं तु वृद्धत्वे वृद्धकर्मणि । वृद्धानां समवाये च वालुकं हरिवालुके॥ ६९६ वालुका तु सिकतासु-वितर्कः संशयोहयोः। विपाकः परिणामे स्यादुर्गतिस्वादुनोरफि॥ ६९७ विवेकः पुनरेकान्ते जलद्रोणीविचारयोः । वृषाङ्कः साधुभल्लातशंकरेषु महलके ॥ ६९८ वृश्चिकस्तु द्रुणे राशावौषधे शूककीटके । वैजिक कारणे शिग्रुतैले चा वैजिकोऽङ्करे ॥ ६९९ शङ्ख वलये कम्बौ। शङ्खकस्तु शिरोरुजि.। शम्पाकस्तु विपाके स्याद्यावके चतुरङ्गुले ॥ ७०० शम्बूको दैत्यविशेषे करिकुम्भान्तशङ्ख्योः। शलाका शारिका शल्यं श्वाविदालेख्यकर्चिका॥७०१ छत्रपञ्जरकाष्ठीषु शल्लकी श्वाविधि द्रुमे।। शार्ककः स्याहुग्धफेने शर्करायाश्च पिण्डके॥ ७०२ शिशुकः पादपे बाले शिशुमारेऽथ शीतकः । शीतकालेऽलसे स्वस्थे शूककः प्रावटे रसे॥७०३ स्वस्तिको मङ्गलद्रव्ये गृहभेदचतुष्कयोः । स्यमीकः पादपे नाकौ स्यात्स्यमीका तु नीलिका||७०४ सरको मदिरापात्रे मदिरापानमद्ययोः । सस्यको नालिकेरान्तः सस्याभमणिखड्गयोः ॥ ७०५ संपर्कः सुरते पृक्तौ सायको बाणखड्गयोः । स्थासको हस्तबिम्बे स्यात्स्फुरकादेश्च बुद्धदेो । ७०६ सूतकं जन्मनि रसे सूचकः शुनि दुर्जने । कथके सीवनद्रव्ये मार्जारे वायसेऽपि च॥ ७०७ सृदाकुर्वत्रे दावाग्नौ प्रतिसूर्ये समीरणे। सेवकोऽनुगे प्रसेके सेचकः सेक्तृमेघयोः॥ ७०८ हारको गद्यविज्ञानभिदोः कितवचौरयोः । हुडुको मदमत्ते स्यादात्यूहे वाद्यभिद्यपि ॥ ७०९ हेतुकस्तु महाकालगणवुद्धविशेषयोः । गोमुखं वाद्यभाण्डे स्याल्लेपने कुटिलौकसि॥ ७१० त्रिशिखो रक्षस्त्रिशिखं स्याकिरीटत्रिशूलयो । दुर्मुखो मुखरे नागराजे वाजिनि वानरे ॥ ७११ प्रमुखं प्रथमे मुख्यो मयूखा ज्वालरुक्त्विषः। विशिखा खनित्रिकायां रथ्यायां विशिखः शरे७१२ विशाखो याचके स्कन्दे। विशाखा भे कठिल्लके । वैशाखः खजके रांधे सुमुखो गरुडात्मजे ७१३ पण्डिते फणिभेदे। स्यादयोगः कठिनोद्यमे । विश्लेषे विधुरे कूटेऽपाङ्गो नेत्रान्तपुण्ड्योः ॥ ७१४ अङ्गहीनेऽप्यनङ्गं खे चित्तेऽनङ्गस्तु मन्मथे। आभोगः परिपूर्णत्वे वरुणच्छत्रयनयोः ॥ ७१५ आयोगो गन्धमाल्योपहारे व्यापृतिरोधयोः। आशुगोऽर्के शरे वायावुत्सर्गस्त्यागदानयोः॥७१६ वर्जने सामान्यविधावुद्वेगं पूगिकाफले। उद्वेगस्तूद्वेजने स्याकलिङ्गो नीवृदन्तरे ॥ ७१७ पूतीकरञ्जे धूम्याटे स्यात्कलिङ्गा नितम्बिनी । कलिङ्ग कोटजफले। कालिङ्गस्तु भुजङ्गमे ॥ ७१८ द्विरदे भूमिकर्कारौ कालिङ्गी राजकर्कटी।। चक्राङ्गः श्वेतगरुति चक्राङ्गी कटुरोहिणी ॥ ७१९ १. 'नाटके प्रोक्तं' ख-ग-घ. २. 'ज्याभूप्रश्लथ' ख-ग-घ. ३. 'व्यलीकं व्यङ्गवैलक्ष्याप्रियाकार्येषु पीडने' इतीतः प्राक् ख-ग-घ. ४. 'वारणे' ख. ५. 'महलकः सौविदलः' इति टीका. ६. 'प्रवृद्धोऽवटः कूपः' इति टीका. ७. 'समीहा तु' ख. ८. 'मद्ययोः' ख. ९. 'हाटको' ख. १०. 'मासे' ख, ११. 'स्तिमिते शी. प्रगामिनी । उद्वाहौ च भयेऽपि स्यात्' इत्यधिकमितः प्राक् ख-ग-ध. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180