Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः।
२५ पैर्यको मञ्चपर्यस्त्योः प्रतीकोऽङ्गप्रतीपयोः।। पताकाङ्के ध्वजे केतौ सौभाग्ये नाटकांशके ॥ ६६३ पातुको जलमातङ्गे पतयालुप्रपातयोः । प्राणको जीवकतरौ सत्त्वजातीयबोलयोः ॥ ६६४ पाटको रोधसि ग्रामैकदेशेऽक्षादिपातके | वाद्यभेदे महाकिष्कौ मूल्यस्यापचयेऽपि च ॥ ६६५ पालङ्कः शाकभेदे स्यात्सल्लक्यां वाजिपक्षिणि । पिनाकः शिवकोदण्डे पांशुवृष्टित्रिशूलयो॥६६६ प्रियकस्तु चञ्चरीके नीपे कश्मीरजन्मनि । प्रियंगौ चित्रहरणे पीतसालतरावपि ॥ ६६७ पिष्टको नेत्ररोगे स्याद्धान्यादिचमसेऽपि च । पिण्याकः कुङ्कुमे हिङ्गौ सिल्हके तिलचूर्णके॥६६८ पुलको गैजान्नपिण्डे रोमाञ्चे प्रस्तरान्तरे । असुराज्यां मणिदोषे गल्वर्के तालके कृमौ.।। ६६९ पुलाको भक्तसिक्थे स्यात्संक्षेपासारधान्ययोः। पुष्पकं मृतिकाङ्गारशकट्यां रत्नकङ्कणे ॥ ६७० कासीसे श्रीदविमाने नेत्ररोगे रसाञ्जने । लोहकांस्ये रीरिकायां, पुत्रकः शरभे शठे ॥ ६७१ शैले वृक्षप्रभेदे च पुत्रिका यावतूलिके । पाञ्चालिकादुहित्रोच, पूर्णकः स्वर्णचूडके ॥ ६७२ पूर्णिका नासिकार्छिन्यां पृथुकश्चिपिटेऽर्भके । पृदाकुश्चित्रकव्याघ्रवृश्चिकेषु सरीसृपे।। ६७३ पेचकः करिलाङ्गलमूले घूकेऽथ पेटकम् । मञ्जूषायां समूहेच बहुको जलखादके ॥ ६७४ दात्यूहे कर्कटेऽर्केच बन्धूकः पीतसालके । बन्धुनीवे बन्धकस्तु सत्यकारेऽथ बन्धकी ।। ६७५ स्वैरिण्यां च करिण्यांच बालिका कर्णभूषणे । पिच्छोलायां बालुकायां बालायांभिस्मकं रुजि ६७६ विडङ्गे कलधौते च भ्रामकः फेरुधूर्तयोः । सूर्यावर्तेऽश्मभेदे च भालाङ्कः कच्छपे हरे ॥ ६७७ महालक्षणसंपूर्णपुरुषे करपत्रके । रोहिते शाकभेदे च भूतीकं कटफलौषधे ॥
६७८ यवान्यां धनसारे च भूनिम्बे भूस्तृणेऽपि च।। भूमिका तु रचनायां रूपान्तरपरिग्रहे॥ ६७९ मशकः क्षुद्रग्जन्तुभेदयोर्मधुकं त्रपु । मधुयष्टिश्च मधुको वन्दिश्रीवदपक्षिणोः॥ मण्डूकी मण्डूकपण्यो। मण्डूको भेकशोणको। मल्लिको हंसभेदो स्यान्मल्लिका कुसुमान्तरे ६८१ मीने मृत्पात्रभेदे च मातृका करणेश्वरे । मातृवर्णसमानायोपमातृष्वथ मालिका ॥ ६८२ पक्षिमल्ले सरि दे |वेये पुष्पदामनि। मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रिके॥ ६८३ मोचको मोक्षकदलीशिग्रुद्रुमविरागिषु ।। मोदको हर्षले खाद्ये यमको यमजे व्रते.॥ ६८४ यमकं वागलंकारे याजको रॉजकुञ्जरे । याज्ञिके च युतकं तु यौतके युग्मयुक्तयोः ॥ ६८५ संशये चलनाग्रे स्त्रीवस्त्रभेदे पटाञ्चले। रजको धावकशुकौ रसिका कटिसूत्रके ॥ ६८६ रसनायां रसालायां त्रिकं पञ्चरात्रके । रात्रकस्तु पणवधू गृहान्तवर्षवासिनि ॥ ६८७ राजिका पतौ रेखायां केदारे राजसपे । रुचकं तु मातुलुङ्गे निष्के सौवर्चलेऽपि च ॥ ६८८
१. 'पद्मकः स्यात्पद्मकाष्ठे बिन्दुजालकयोरपि । पक्षकस्तु पार्श्वद्वारे पार्श्वमात्रेऽपि कथ्यते ॥' इत्यधिकमितः प्राक् ख-ग-घ, २. 'वालयोः' ख. ३. 'पावकोऽनौ सदाचारे वहिमन्थे च चित्रके । भल्लातके विडने च शोधयितृनरेऽपि च ॥' इत्यधिकमितः प्राक् ख-ग-घ. ४. 'पिटकः स्यात्तु विस्फोटे मञ्जूषायामपीष्यते' इत्यधिकमितः प्राक् ख-ग-घ. ५. 'यज्ञाङ्गखण्डे' ख. ६. 'असुराज्यां' ग-घ. ७. 'रीतिकायां' ख-ग-घ. ८. 'छित्त्यां' ग-घ. ९. 'बालकः पुनः । शिशौ मूर्खेऽश्वगजयोलधौ' इत्यधिकमितः प्राक् ख-ग-ध. १०. 'श्रीवह' ख. ११. 'मण्डूको भेकशोणयोः' ग घ. १२. 'मामकं तु मदीये स्यान्मामको मातुले स्मृतः' इत्यधिकमितः प्राक् ख-ग-घ. १३. 'हर्षके' ग-घ. १४. 'राजकुञ्जरो भूपश्रेष्ठः' इति टीका. १५. 'चलनाग्रे चण्डातकाग्रे' इति टीका. १६. 'रल्लकः कम्बले स्मृतः । तथैव कम्बलमृगे' इत्यधिकमितः प्राक् ख-ग-घ.
For Private and Personal Use Only

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180