Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-६ अमिधानचिन्तामणिः । किर्मीरकीचकवकहिडम्बानां निसूदनः । अर्जुनः फाल्गुनः पार्थः सव्यसाची धनंजयः ॥ ७०८ राधावेधी किरिट्येन्द्रिजिष्णुः श्वेतहयो नरः । बृहन्नलो गुडाकेशः सुभद्रेशः कपिध्वजः ॥ ७०९ वीभत्सः कर्णजित्तस्य गाण्डीवं गाण्डिवं धनुः । पाञ्चाली द्रौपदी कृष्णा सैरंध्री नित्ययौवना ।।७१० वेदिजा याज्ञसेनी च कर्णश्चम्पाधिपोऽङ्गराट् । राधासुतोऽर्कतनयः कालपृष्ठं तु तद्धनुः॥ ७११ श्रेणिकस्तु भंभासारो हालः स्यात्सोतवाहनः । कुमारपालश्चौलुक्यो राजर्षिः परमार्हतः ॥ ७१२ मृतवमोक्ता धर्मात्मा मारिव्यसनवारकः । गजबीजी राजवंश्यो बीजवंश्यौ तु वंशजे ॥ ७१३ स्वाम्यमात्यः सुहृत्कोशो राष्ट्रदुर्गबलानि च । राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ ७१४ तनं खराष्ट्रचिन्ता स्यादावापस्त्वरिचिन्तनम् । परिस्पन्दः परिकरः परिवारः परिग्रहः ॥ ७१५ परिच्छदः परिबर्हस्तत्रोपकरणे अपि । राजशय्या महाशय्या भद्रासनं नृपासनम् ॥ ७१६ सिंहासनं तु तद्वैमं छत्रमातपवारणम् । चामरं बालव्यजनं रोमगुच्छः प्रकीर्णकम् ॥ ७१७ स्थगी ताम्बूलकरङ्को भृङ्गारः कनकालुका । भद्रकुम्भः पूर्णकुम्भः पादपीठं पदासनम् ॥ ७१८ अमात्यः सचिवो मत्री धीसखः सामवायिकः । नियोगी कर्मसचिव आयुक्तो व्यापृतश्च सः॥७१९ द्रष्टा तु व्यवहाराणां प्राड्विाकोऽक्षदर्शकः । महामात्रः प्रधानानि पुरोधास्तु पुरोहितः ॥ ७२० सौवस्तिकोऽथ द्वारस्थः क्षत्ता स्याहारपालकः । दौवारिकः प्रतीहारो वेव्युत्सारकदण्डिनः ॥ ७२१५ रक्षिवर्गेऽनीकस्थः स्यादध्यक्षाधिकृतौ समौ । पौरोगवः सदाध्यक्षः सूदस्खौदनिको गुणः ॥ ७२२ भक्तकारः सूपकारः सूपारालिकवल्लवाः । भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः ॥ ७२३ स्थानाध्यक्षः स्थानिकः स्याच्छुल्काध्यक्षस्तु शौल्किकः। शुल्कस्तु घट्टादिदेयं धर्माध्यक्षस्तु धार्मिकः७२४ धर्माधिकरणी चाथ हट्टाध्यक्षोऽधिकर्मिकः । चतुरङ्गबलाध्यक्षः सेनानीर्दण्डनायकः ॥ ७२५ स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु । स्यातामन्तःपुराध्यक्षेऽन्तर्वशिकावरोधिकौ ॥ ७२६ शुद्धान्तः स्यादन्तःपुरमवरोधोऽवरोधनम्।। सौविदल्ला कक्षुकिनः स्थापत्याः सौविदाश्च ते ॥ ७२७ पण्ढे वर्षवरः शत्रौ प्रतिपक्षः परो रिपुः । शात्रवः प्रत्यवस्थाता प्रत्यनीकोभियात्यरी ॥ ७२८ दस्युः सपत्नोऽसहनो विपक्षो द्वेषी द्विषन्वैर्यहितो जिघांसुः । दुहृत्परेः पन्थकपन्थिनौ द्विट्प्रत्यर्थ्यमित्रावभिमात्यराती॥ ७२९ वैरं विरोधो विद्वेषो वयस्यः सवयाः सुहृत् । स्निग्धः सहचरो मित्रं सखा सख्यं तु सौहृदम् ॥ ७३० सौहार्दै साप्तपदीनमैत्रयजर्याणि संगतम् । आनन्दनं लाप्रच्छनं स्यात्सभाजनमित्यपि ॥ ७३१ विषयानन्तरो गजा शत्रुमित्रमतः परम् । उदासीनः परतरः पाणिग्राहस्तु पृष्टतः ॥ अनुवृत्तिस्त्वनुरोधो हेरिको गूढपूरुषः । प्रणिधिर्यथाहवर्णोऽवसर्पो मत्रविच्चरः ॥ वायनः स्पशश्चार आप्तप्रत्ययितौ समौ । सत्रिणि स्यागृहपतिर्दूत संदेशहारकः ॥ ७३४ संधिविग्रहयानान्यासनद्वैधाश्रया अपि । षड्गुणाः शक्तयस्तिस्रः प्रभुत्वोत्साहमबजाः ॥ ७३५ सामदानभेददण्डा उपायाः साम सान्त्वनम् । उपजापः पुनर्भेदो दण्डः स्यात्साहसं दमः ॥ ७३६ १. 'निसूदन'पदस्य किरीरेणाप्यन्वयः; यौगिकत्वात् किर्मारारित्यादयोऽपि. २. बीभत्सुरपि. ३. यौगिकत्वात् कर्णारिरित्यादयोऽपि. ४. यौगिकत्वात् राधेय इत्यादयोऽपि. ५. सालवाहनोऽपि. ६. परिजनोऽपि. ७. टङ्कपतिरपि. ८. आन्तःपुरिकोऽपि. ९. तेन परिपन्थकः; परिपन्थी. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180