________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अमिधानचिन्तामणिः । किर्मीरकीचकवकहिडम्बानां निसूदनः । अर्जुनः फाल्गुनः पार्थः सव्यसाची धनंजयः ॥ ७०८ राधावेधी किरिट्येन्द्रिजिष्णुः श्वेतहयो नरः । बृहन्नलो गुडाकेशः सुभद्रेशः कपिध्वजः ॥ ७०९ वीभत्सः कर्णजित्तस्य गाण्डीवं गाण्डिवं धनुः । पाञ्चाली द्रौपदी कृष्णा सैरंध्री नित्ययौवना ।।७१० वेदिजा याज्ञसेनी च कर्णश्चम्पाधिपोऽङ्गराट् । राधासुतोऽर्कतनयः कालपृष्ठं तु तद्धनुः॥ ७११ श्रेणिकस्तु भंभासारो हालः स्यात्सोतवाहनः । कुमारपालश्चौलुक्यो राजर्षिः परमार्हतः ॥ ७१२ मृतवमोक्ता धर्मात्मा मारिव्यसनवारकः । गजबीजी राजवंश्यो बीजवंश्यौ तु वंशजे ॥ ७१३ स्वाम्यमात्यः सुहृत्कोशो राष्ट्रदुर्गबलानि च । राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ ७१४ तनं खराष्ट्रचिन्ता स्यादावापस्त्वरिचिन्तनम् । परिस्पन्दः परिकरः परिवारः परिग्रहः ॥ ७१५ परिच्छदः परिबर्हस्तत्रोपकरणे अपि । राजशय्या महाशय्या भद्रासनं नृपासनम् ॥ ७१६ सिंहासनं तु तद्वैमं छत्रमातपवारणम् । चामरं बालव्यजनं रोमगुच्छः प्रकीर्णकम् ॥ ७१७ स्थगी ताम्बूलकरङ्को भृङ्गारः कनकालुका । भद्रकुम्भः पूर्णकुम्भः पादपीठं पदासनम् ॥ ७१८ अमात्यः सचिवो मत्री धीसखः सामवायिकः । नियोगी कर्मसचिव आयुक्तो व्यापृतश्च सः॥७१९ द्रष्टा तु व्यवहाराणां प्राड्विाकोऽक्षदर्शकः । महामात्रः प्रधानानि पुरोधास्तु पुरोहितः ॥ ७२० सौवस्तिकोऽथ द्वारस्थः क्षत्ता स्याहारपालकः । दौवारिकः प्रतीहारो वेव्युत्सारकदण्डिनः ॥ ७२१५ रक्षिवर्गेऽनीकस्थः स्यादध्यक्षाधिकृतौ समौ । पौरोगवः सदाध्यक्षः सूदस्खौदनिको गुणः ॥ ७२२ भक्तकारः सूपकारः सूपारालिकवल्लवाः । भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः ॥ ७२३ स्थानाध्यक्षः स्थानिकः स्याच्छुल्काध्यक्षस्तु शौल्किकः। शुल्कस्तु घट्टादिदेयं धर्माध्यक्षस्तु धार्मिकः७२४ धर्माधिकरणी चाथ हट्टाध्यक्षोऽधिकर्मिकः । चतुरङ्गबलाध्यक्षः सेनानीर्दण्डनायकः ॥ ७२५ स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु । स्यातामन्तःपुराध्यक्षेऽन्तर्वशिकावरोधिकौ ॥ ७२६ शुद्धान्तः स्यादन्तःपुरमवरोधोऽवरोधनम्।। सौविदल्ला कक्षुकिनः स्थापत्याः सौविदाश्च ते ॥ ७२७ पण्ढे वर्षवरः शत्रौ प्रतिपक्षः परो रिपुः । शात्रवः प्रत्यवस्थाता प्रत्यनीकोभियात्यरी ॥ ७२८
दस्युः सपत्नोऽसहनो विपक्षो द्वेषी द्विषन्वैर्यहितो जिघांसुः । दुहृत्परेः पन्थकपन्थिनौ द्विट्प्रत्यर्थ्यमित्रावभिमात्यराती॥
७२९ वैरं विरोधो विद्वेषो वयस्यः सवयाः सुहृत् । स्निग्धः सहचरो मित्रं सखा सख्यं तु सौहृदम् ॥ ७३० सौहार्दै साप्तपदीनमैत्रयजर्याणि संगतम् । आनन्दनं लाप्रच्छनं स्यात्सभाजनमित्यपि ॥ ७३१ विषयानन्तरो गजा शत्रुमित्रमतः परम् । उदासीनः परतरः पाणिग्राहस्तु पृष्टतः ॥ अनुवृत्तिस्त्वनुरोधो हेरिको गूढपूरुषः । प्रणिधिर्यथाहवर्णोऽवसर्पो मत्रविच्चरः ॥ वायनः स्पशश्चार आप्तप्रत्ययितौ समौ । सत्रिणि स्यागृहपतिर्दूत संदेशहारकः ॥ ७३४ संधिविग्रहयानान्यासनद्वैधाश्रया अपि । षड्गुणाः शक्तयस्तिस्रः प्रभुत्वोत्साहमबजाः ॥ ७३५ सामदानभेददण्डा उपायाः साम सान्त्वनम् । उपजापः पुनर्भेदो दण्डः स्यात्साहसं दमः ॥ ७३६
१. 'निसूदन'पदस्य किरीरेणाप्यन्वयः; यौगिकत्वात् किर्मारारित्यादयोऽपि. २. बीभत्सुरपि. ३. यौगिकत्वात् कर्णारिरित्यादयोऽपि. ४. यौगिकत्वात् राधेय इत्यादयोऽपि. ५. सालवाहनोऽपि. ६. परिजनोऽपि. ७. टङ्कपतिरपि. ८. आन्तःपुरिकोऽपि. ९. तेन परिपन्थकः; परिपन्थी.
For Private and Personal Use Only