Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३ मर्त्यकाण्डः । संग्रामाहवसंप्रहारसमरा जन्यं युदायोधनं 'संस्फोट : कलहो मृधं प्रहरणं संयद्रणो विग्रहः ॥ द्वन्द्वं समाघातसमाह्वयाभिसंपातसंमर्द समित्प्रघाताः । आस्कन्दनाजिप्रधनान्यनीकमभ्यागमश्च प्रविदारणं च || Acharya Shri Kailassagarsuri Gyanmandir ३३ For Private and Personal Use Only ७९६ ७९७ ७९८ ७९९ ८०० ८०२ ८०३ ८०४ ८०५ समुदायः समुदयो राटिः समितिसंगरौ । अभ्यामर्द : संपरायः समीकं सांपरायिकम् | आक्रन्दः संयुगश्चाथ नियुद्धं तद्भुजोद्भवम् । पटहाडम्बरौ तुल्यौ तुमुलं रणसंकुलम् ॥ नासीरं त्वप्रयानं स्यादवमर्दस्तु पीडनम् । प्रपातस्त्वभ्यवस्कन्दो धाट्यभ्यासादनं च सः ॥ तद्रात्रौ सौप्तिकं वीराशंसनं त्वाजिभीष्मभूः । नियुद्धभूरक्षवाटो मोहो मूर्छा च कश्मलम् ॥ ८०१ वृत्ते भाविनि वा युद्धे पानं स्याद्वीरपाणकम् । पलायनमपयानं संदावद्रवविद्रवाः ॥ अपक्रमः समुत्प्रेभ्यो द्रावोऽथ विजयो जयः । पराजयो रणे भङ्गो डमरे डिम्बविप्लवौ ॥ वैरनिर्यातनं वैरशुद्धिर्वैरप्रतिक्रिया । बलात्कारस्तु प्रसभं हठोऽथ स्खलितं छलम् || परापर्यभितो भूतो जितो भग्नः पराजितः । पलायितस्तु नष्टः स्यादृहीतदिक्तिरोहितः ॥ जिताहवो जितकाशी प्रस्कन्नः पतितः समौ । चारः कारा गुप्तौ वन्द्यां ग्रहकः प्रापतो महः ||८०६ चातुर्वर्ण्य द्विजक्षत्रवैश्यशूद्रा नृणां भिदः । ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ॥ ८०७ चत्वार आश्रमास्तत्र वर्णी स्याद्ब्रह्मचारिणि । ज्येष्ठाश्रमीगृहमेवी गृहस्थः स्नातको गृही ॥ ८०८ वैखानसो वानप्रस्थो भिक्षुः सांन्यासिको यतिः । कर्मन्दी रक्तवसनः परिव्राजकतापसौ ॥ ८०९ पाराशरी पारिकाङ्क्षी मस्करी पारिरक्षकः । स्थाण्डिलः स्थण्डिलशायी यः शेते स्थण्डिले व्रतात् ॥ ८१० तपःक्लेशसहो दान्तः शान्तः श्रान्तो जितेन्द्रियः । अवदानं कर्म शुद्धं ब्राह्मणस्तु त्रयीमुखः ॥ ८११ भूदेवो वाडवो विप्रो व्यग्राभ्यां जातिजन्मजाः । वर्णज्येष्ठः सूत्रकण्ठः षट्कर्मा मुखसंभवः ।। ८१२ वेदगर्भः शमीगर्भः सावित्री मैत्र एव सः । बटुः पुनर्माणवको भिक्षा स्याद्वासमात्रकम् ॥ ८१३ उपनाय स्तूपनयो बटूकरणमानयः । अग्नीन्धनं त्वग्निकार्यमग्नीना चाग्निकारिका ॥ पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः । बैल्वः सारस्वतो रौच्यः पैलवस्त्वौपरोधिकः ॥ ८१५ आश्वत्थस्तु जितनेमिरौदुम्बर उलूखलः । जटा सटा वृषी पीठं कुण्डिका तु कमण्डलुः ॥ ८१६ श्रोत्रिय छान्दसो यष्टान्वादेष्टा स्यान्मखे व्रती । याजको यजमानश्च सोमयाजी तु दीक्षितः ॥ ८१७ इज्याशीलो यायजूको यज्वा स्यादासुतीबलः । सोमपः सोमपीथी स्यात्स्थपतिर्गीः पतीष्टिकृत् ॥ सर्ववेदास्तु सर्वस्वदक्षिणं यज्ञमिष्टवान् । यजुर्विदध्वर्युऋग्विद्धोतोद्गाता तु सामवित् ॥ यज्ञो यागः सवः सत्रं स्तोमो मन्युर्मखः क्रतुः । संस्तरः सप्ततन्तुश्च वितानं बर्हिरध्वरः ॥ अध्ययनं ब्रह्मयज्ञः स्याद्देवयज्ञ आहुतिः । होमो होत्रं वषट्कार: पितृयज्ञस्तु तर्पणम् ॥ तच्छ्राद्धं पिण्डदानं च नृयज्ञोऽतिथिपूजनम् । भूतयज्ञो बलिः पञ्च महायज्ञा भवन्त्यमी ॥ पौर्णमासश्च दर्शश्च यज्ञौ पक्षान्तयोः पृथक् । सौमिकी दीक्षिणीयेष्टिर्दीक्षा तु व्रतसंग्रहः || ८२३ वृत्तिः सुगहना कुम्बा वेदी भूमिः परिष्कृता । स्थण्डिलं चत्वरं चान्या यूपः स्याद्यज्ञकीलकः ||८२४ चालो यूपकटको यूपकर्णो घृतावनौ । यूपाग्रभागेस्यातर्मारणिर्निर्मन्थदारुणि || ८२५ ८१४ 1 ८१८ ८१९ ८२० ८२१ ८२२ १. संस्फेटोsपि. २. अवस्कन्दोऽपि. ३. द्रावशब्दस्य समादिभिरन्वयः, नशनमपि. ४. भूतशब्दस्य परादिभिरन्वयः ५. ग्रहशब्द: प्रादिनान्वेति ५. यग्रशब्दौ प्रत्येकं जात्यादिनान्वेति ५

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180