Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
४०
www.kobatirth.org
अभिधान संग्रह: - ६ अभिधानचिन्तामणिः |
Acharya Shri Kailassagarsuri Gyanmandir
じい
कुलोsस्रिस्तु कोणोणि: कोटिः पाल्यत्र इत्यपि । आरोहणं तु सोपानं निःश्रेणिस्त्वधिरोहणी ||१०१३ स्थूणा स्तम्भः शालभञ्जी पाञ्चालिका च पुत्रिका । काष्टादिघटिता लेप्यमयी त्वञ्जलिकारिका ।। १०१४ नन्द्यावर्तप्रभृतयो विच्छिन्दा आन्यवेश्मनाम् । समुद्रः संपुट: पेटा स्यान्मञ्जूषाथ शोधनी ।। १०१५ संमार्जनी बहुकरी वर्धनी च समूहनी । संकरावकरौ तुल्यावुदूखलमुलूखलम् || १०१६ प्रस्फोटनं तु पवनमवघातस्तु कण्डनम् । कटः किलिजो मुसलोऽ यो कण्डोलकः पिटम् ||१०१७ चालनी तित: शूर्प प्रस्फोटनमथान्तिका । चुल्लयश्मन्तकमुद्धानं स्यादधिश्रयणी च सा || १०१८ स्थायुखा पिठरं कुण्डं चरुः कुम्भी घटः पुनः । कुटः कुम्भः करीरश्च कलशः कलसो निपः || १०१९ हसन्यङ्गाराच्छकटीधानीपात्र्यो हसन्तिका । भ्राष्ट्रोऽम्बरीष ऋचीपमृजीषं पिष्टपाकभृत् ॥ १०२० कम्बिर्दर्विः खजाकाथ स्यात्तर्दूर्दारुहस्तकः । वार्धान्यां तु गलन्त्यालू: कर्करी करकोऽथ सः ।। १०२१ नालिकेरजः करङ्कस्तुल्यौ कटाहकर्परौ । मणिकोऽलिंजरो गर्गरीकलस्यौ तु मन्थनी || १०२२ वैशाखः खजको मन्था मन्धानो मन्थदण्डकः । मन्थः क्षुब्धोऽस्य विष्कम्भो मञ्जीरः कुटरोऽपि च ॥ शालाजिरो वर्धमानः शरावः कौशिका पुनः । मल्लिका चषकः कंसः पारी स्यात्पानभाजनम् ||१०२४ कुतश्वर्मस्नेहपात्रं कुतुपं तु तदल्पकम् । दृतिः खल्लञ्चर्ममयी वालूः करकपात्रिका | १०२५ सर्वमावपनं भाण्डं पात्रामत्रे तु भाजनम् । तद्विशालं पुनः स्थालं स्यात्पिधानमुदश्चनम् || १०२६ शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमा न्यावः पर्वतभूभ्रभूधरधराहार्या नंगोऽथोदयः । पूर्वाद्रिश्चरमाद्रिरस्त उदगद्रिस्त्वद्रिराण्मेनका
प्राणेशो हिमवान्हिमालय हिमप्रस्थौ भवानीगुरुः ॥
१०२७ हिरण्यनाभो मैनाकः सुनाभश्च तदात्मजः । रजताद्रिस्तु कैलासोऽष्टापदः स्फटिकाचलः || १०२८ कौश्वः क्रुञ्चोऽथ मलय आषाढो दक्षिणाचलः । स्यान्माल्यवान्प्रस्रवणो विन्ध्यस्तु जलबालकः।। १०२९ शत्रुंजयो विमलाद्रिरिन्द्रकीलस्तु मन्दरः । सुवेलः स्यात्रिमुकुटस्त्रिकूटस्त्रिककुञ्च सः ॥ १०३० उज्जयन्तो रैवतकः सुदारुः पारियात्रिकः । लोकालोकचक्रवालोऽथ मेरुः कर्णिकाचलः ॥ १०३१ रत्नसानुः सुमेरुः स्वः स्वर्गिकाञ्चनतो गिरिः । शृङ्गं तु शिखरं कूटं प्रपातस्त्वतटो भृगुः ॥ १०३२ मेखला मध्यभागोऽद्रेर्नितम्बः कटकश्च सः । दरी स्यात्कन्दरोऽखातबिले तु गह्वरे गुहा ।। १०३३ द्रोणी तु शैलयोः संधिः पादाः पर्यन्तपर्वताः । दन्तकास्तु वहिस्तिर्यक्प्रदेशान्निर्गता गिरेः || १०३४ अधित्यकोर्ध्वभूमिः स्यादधोभूमिरुपत्यका । स्नुः प्रस्थः सानुरश्मा तु पाषाणः प्रस्तरो दृषत् ॥ १०३५ ग्रावा शिलोपलो गण्डशैलाः स्थूलोपलाश्चयुताः । स्यादाकरः खनिः खानिर्ग आ धातुस्तु गैरिकम् ।। १०३६ - शुक्लधातौ पाकशुक्ला कठिनी खटिनी खटी | लोहं कालायसं शस्त्रं पिण्डं पारशवं घनम् ॥। १०३७ गिरिसारं शिलासारं तीक्ष्णकृष्णामिषे अयः । सिंहान धूर्तमण्डूरसरणान्यस्य किट्टके ॥ १०३८ सर्वं च तैजसं लोहं विकारस्वयसः कुशी । ताम्रं म्लेच्छमुखं शुल्वं रक्तं व्यष्टमुदुम्बरम् || १०३९ म्लेच्छशावरभेदाख्यं मर्कटास्यं कनीयसम् । ब्रह्मवर्धनं वरिष्ठं सीसं तु सीसपत्रकम् ॥ नागं गण्डूपदभवं व सिन्दूरकारणम् । व स्वर्णारियोगेष्टे यवनेष्टं सुवर्णकम् ॥
Ne
१०४०
१०४१
१. कुशूलोsपि. २. पवन्यपि ३. अयोनिरपि ४ अङ्गारशब्दः शकट्यादिनान्वेति ५ अगोऽपि. ६. 'गिरि'शब्दः स्वरादिनान्वेति
For Private and Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180