Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । अरण्यमटवी सत्रं वाः च गहनं झषः । कान्तारं विपिनं कक्षः स्यात्षण्डं काननं वनम् ॥१.११.० दवो दावः प्रस्तारस्तु तृणाटव्यां झषोऽपि च । अपोपाभ्यां वनं बेलमारामः कृत्रिमे वने ॥ ११११ निष्कुटस्तु गृहारामो वाह्यारामस्तु पौरकः । आक्रीडः पुनरुद्यानं राज्ञां त्वन्तःपुरोचितम् ॥१११२ तदेव प्रमदवनममात्यादेस्तु निष्कुटे । वाटी पुष्पादृक्षाच्चासौ क्षुद्रारामः प्रसीदिका ॥ १११३ वृक्षोऽगः शिखरी च शाखिफलदावद्रिह रिदुर्दुमो जीर्णो द्रुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः । नन्द्यावर्तकरालिको तरुवसू पर्णी पुलायझिपः सालानोकहगच्छपादपनगा रूक्षागमौ पुष्पदः ॥ कुञ्जनिकुअकुडङ्गाः स्थाने वृक्षैर्वृतान्तरे । पुष्पैस्तु फलवान्वृक्षो वानस्पत्यो विना तु तैः ॥ १११५ फलवान्वनस्पतिः स्यात्फलावन्ध्यः फलेग्रहिः । फलवन्ध्यस्त्ववकेशी फलवान्फलिनः फली ॥१११६ औषधिः स्यादोषधिस्तु फलपाकावसानिका । क्षुपो द्वस्वशिफाशाखः प्रततिव्रततिर्लता ।।८।१११७ वल्लयस्यां तु प्रतानिन्यां गुल्मिन्युपलवीरुधः । स्यात्प्ररोहोऽङ्करोऽङ्करो रोहश्च स तु पर्वणः ॥१११८ समुत्थितः स्याद्वलिशं शिखाशाखालताः समाः । साला शाला स्कन्धशाखा स्कन्धः प्रकाण्डमस्तके।। मूलाच्छाखावधिण्डिः प्रकाण्डोऽथ जटाशिफा | प्रकाण्डरहिते स्तम्बो विटपो गुल्म इत्यपि १.१२० शिरोनामाग्रं शिखरं मूलं वुघ्नोंहिनाम च । सारो मज्ज्ञि वेचि च्छल्ली चोचं वल्कं च वल्कलम्॥११२१ स्थाणौ तु ध्रुवकः शङ्कः काष्ठे दलिकदारुणी । निष्कुहः कोटरो मामञ्जरिवल्लरिश्च सा॥ ११२२ पत्रं पलाशं छदनं बर्ह पर्ण छदं दलम् । नवे तस्मिन्किसलयं किसलं पल्लवोऽत्र तु॥।॥ ११२३ नवे प्रवालोऽस्य कोशी शुङ्गा माढिदलनसा । विस्तारविटपौ तुल्यौ प्रसूनं कुसुमं सुमम् ॥ ११२४ पुष्पं सूनं सुमनसः प्रसवश्च मणीवकम् । जालकक्षारको तुल्यौ कलिकायां तु कोरकः ॥ ११२५ कुङ्मले मुकुलं गुम्छे गुच्छस्तबकगुत्सकाः । गुलुछोऽथ रजः पौष्पं परागोऽथ रसो मधु ॥११२६ मकरन्दो मरन्दश्च वृन्तं प्रसवबन्धनम् । प्रबुद्धोज्जम्भफुल्लानि व्याकोशं विकचं स्मितम् ॥ ११२७ उन्मिषितं विकसितं दलितं स्फुटितं स्फुटम् । प्रफुल्लोत्फुल्लसंफुल्लोच्छसितानि विजृम्भितम् ॥११२८ स्मेरं विनिद्रमुन्निद्रविमुद्रहसितानि च । संकुचितं तु निद्राणं मीलितं मुद्रितं च तत् ॥ ११२९ फलं तु सस्यं तच्छुष्कं वानमाम शलाटु च । ग्रन्थिः पर्व परुर्बीजकोशी शिम्बा शमी शिमिः ११३० शिम्बिश्च। पिप्पलोऽश्वत्थः श्रीवृक्षः कुञ्जराशनः । कृष्णावासो बोधितरुः प्लक्षस्तु पर्कटी जटी॥११३१ न्यग्रोधस्तु बहुपात्स्याद्वटो वैश्रवणालयः । उदुम्बरो जन्तुफलो मशकी हेमदुग्धकःः ॥ ११३२ काकोन्दुबरिका फल्गुमलयुर्जघनेफला। आम्रचूतः सहकारः सप्तपर्णस्त्वयुक्छदः ॥ ११३३ शिग्रुः शोभाञ्जनोक्षीवतीक्ष्णगन्धकमोचकाः । श्वेतेऽत्र श्वेतमरिचः पुंनागः सुरपर्णिका ॥ ११३४ बकुलः केसरोऽशोकः कंकेल्लिः ककुभोऽर्जुनः । मालूरः श्रीफलो बिल्वः किंकिरातः कुरण्टकः११३५ त्रिपत्रकः पलाशः स्याकिंशुको ब्रह्मपादपः । तृणराजस्तलस्तालो रम्भा मोचा कदल्यपि ।। ११३६ करवीरो हयमारः कुटजो गिरिमल्लिका । विदुलो वेतसः शीतो वानीरो वञ्जुलो रथः ॥ ११३७ कर्कन्धुः कुवली कोलिबंदर्यथ हलिप्रियः । नीपः कदम्बः सालस्तु सोंरिष्टस्तु फेनिलः ॥ ११३८ १. वनशब्दः अपोपाभ्यामन्वेति. २. वाटीशब्दः पुष्पवृक्षाभ्यामन्वेति. ३. यौगिकत्वात्-कुजमहीरुहादय:। ४. चरणपोऽपि. ५. त्वचापि, ६. माकन्दोऽपि. ७. कुरुण्टकोऽपि कुरुण्डक इत्यन्ये, ८. ककन्धरपि. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180