Book Title: Abhidhana Sangraha Part 01
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । कटम्बी कर्षकः क्षेत्री हली कृषिककार्षिकौ । कृषीवलोऽपि जित्या तु हलिः सीरस्तु लाङ्गलम् ॥८९० गोदारणं हलमीषासीते तद्दण्डपद्धती। निरीषे कुटकं फाले कृषकः कुशिकः फलम् ॥ ८९१ दानं लवित्रं तन्मुष्टौ वण्टो मत्यं समीकृतौ । गोदारणं तु कुद्दालः खनित्रं त्ववदारणम् ॥ ८९२ प्रतोदस्तु प्रवयणं प्राजनं तोत्रतोदने । योत्रं तु योक्रमाबद्धः कोटिशो लोष्टभेदनः ॥ ८९३ मेधिर्मेथिः खले वाली खले गोबन्धदारु यत् । शूद्रान्त्यवर्णी वृषलः पद्यः पज्जो जघन्यजः ॥८९४ ते तु मूर्धाभिषिक्ताद्या रथकृन्मिश्रजातयः । क्षत्रियायां द्विजान्मूर्धाभिषिक्तो विनियां पुनः ॥८९५ अम्बष्ठोऽथ पारशवनिषादौ शूद्रयोषिति । क्षत्रान्माहिष्यो वैश्यायामुग्रस्तु वृषलस्त्रियाम् ॥ ८९६ वैश्यात्तु करणः शूद्रात्त्वायोगवो विशः स्त्रियाम् । क्षत्रियायां पुनः क्षत्ता चाण्डालो ब्राह्मणस्त्रियाम्८९७ वैश्यात्तु मागधः क्षत्र्यां वैदेहिको द्विजस्त्रियाम् । सूतस्तु क्षत्रियाज्जात इति द्वादश तद्भिदः॥८९८ माहिष्येण तु जातः स्यात्करण्यां रथकारकः । कारस्तु कारी प्रकृतिः शिल्पी श्रेणिस्तु तद्गणे ॥८९९ शिल्पं कला विज्ञानं च मालाकारस्तु मालिकः । पुष्पाजीवी पुष्पलावी पुष्पाणामवचायिनी ॥९०० कल्पपालः सुराजिवी शौण्डिको मण्डहारकः । वारिवासः पानवणिग्ध्वजो ध्वज्यासुतीबलः ॥९०१ मद्यं मदिष्ठा मदिरा परिनुता कश्यं परित्रुन्मधु कापिशायनम् । गन्धोत्तमा कल्पमिरा परिप्लता कादम्बरी स्वादुरसा हलिप्रिया ॥१५ ९०२ शुण्डाहाला हारहूरं प्रसन्ना वारुणी सुरा । मार्तीकं मदना देवसृष्टा कापिशमब्धिजा ॥ मध्वासवे माधवको मैरेये शीधुरासवः । जगलो मेदको मद्यपङ्कः किण्वं तु नग्नहः ॥ ९०४ नमहुर्मद्यबीजं च मद्यसंधानमासुतिः । आसवोऽभिषवो मद्यमण्डकारोत्तमौ समौ ॥ गल्वर्कस्तु चषकः स्यात्सरकश्वानुतर्षणम् । शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः ॥ ९०६ सपीतिः सहपानं स्यादापानं पानगोष्ठिका । उपदंशस्त्ववदंशश्चक्षणं मद्यपाशनम् ॥ ९०७ • नाडिंधमः स्वर्णकारः कलादो मुष्टिकश्च सः । तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका ॥ ९०८ आस्फोटिनी वेधनिका शाणस्तु निकषः कषः । संदंशः स्यात्कङ्कमुखो भ्रमः कुन्दं च यत्रकम्।।९०९ वैकटिको मणिकारः शौल्विकस्ताम्रकुट्टकः । शाङ्खिकः स्यात्काम्बविकस्तुन्नवायस्तु सौचिकः ॥९१० कृपाणी कर्तरी कल्पन्यपि सूची तु सेवनी । सूचीसूत्रं पिप्पलिकं तर्कुः कर्तनसाधने ॥२३ । ९११ पिञ्जनं विहननं च तूलस्फोटनकार्मुकम् । सेवनं सीवनं स्यूतिस्तुल्यौ स्यूतप्रसेवकौ ॥ ९१२ तन्तुवायः कुविन्दः स्यात्रसरः सूत्रवेष्टनम् । वाणिज्यूँतिर्वाणदण्डो वेमा सूत्राणि तन्तवः ॥ ९१३ निर्गेजकस्तु रजकः पादुकाकृत्तु चर्मकृत् । 'उपानत्पादुका पादूः पन्नद्धा पादरक्षणम् ॥ ९१४ प्राणहितानुपदीना लाबद्धानुपदं हि या । नधी वर्षी वरत्रा स्यादारा चर्मप्रभेदिका ॥ ९१५ कुलालः स्यात्कुम्भकारो दण्डभृच्चक्रजीवकः । शाणाजीवः शस्त्रमाजों भ्रमासक्तोऽसिधावकः ॥ ९१६ : धूसरश्चाक्रिकस्तैली स्यापिण्याकखलौ समौ । रथकृत्स्थपतिस्त्वष्टा काष्ठतड्तक्षवर्धकी ॥ ९१७ ग्रामायत्तो ग्रामतक्षः कौटतक्षोऽनधीनकः । वृक्षभित्तक्षणी वासी क्रकचं करपत्रकम् ॥ ९१८ स उद्घनो यत्र काष्ठे काष्ठं निक्षिप्य तक्ष्यते । वृक्षादनो वृक्षभेदी टङ्कः पाषाणदारकः ॥ ९१९ व्योकारः कर्मारो लोहकारः कूटं त्वयोधनः । व्रश्चनः पत्रपरशुरीषीका तूलिकेषिका ॥ ९२० भक्ष्यकारः कान्दविकः कन्दुस्वेदनिके समे । रङ्गाजीवस्तौलकिकश्चित्रकृच्चाथ तूलिका ॥ ९२१ १. कृषकोऽपि. २. कोटीशोऽपि. ३. धावकोऽपि. ४. पादत्राणम् अपि. ५. तिलंतुदोऽपि. ६. रथकारोऽपि. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180