Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 879
________________ अब्भुट्ठाण 695 - अभिवानराजेन्द्रः - भाग 1 अब्भुट्ठाण गुर्वादीनां नाभ्युत्तिष्ठति; तं दण्डः प्रायश्चित्तलक्षणो दीयमानःपालयति, चञ्चलत्वमपनयतीत्यर्थः। अपि चजइ ता दंडत्थाणं, पावइ बालो वि पयणुए दोसे। हणु दाणिं अक्खमणं, पमाइउं रक्खणा सेसे / / बालस्यापि गुरुके प्रायश्यित्ते दत्ते सति शेषसाधवश्चिन्तयेयुः- यदि तावदयं बालोऽपि प्राघूर्ण के अनभ्युत्थानमात्रलक्षणे प्रतनु के स्वल्पेऽप्यपराधे एवं दण्डस्थानं प्राप्नोति / (हणु दाणिं ति) तत इदानीमस्माकं प्रमत्तुमभ्युत्थाने प्रमादं कर्तुमक्षमणमनुचितमिति शेषसाधुवर्गस्यापि रक्षणं कृतं भवति / आह-अभ्युत्थानमकुर्वतामात्मसंयमयोस्तावत्काचिदपि विराधना नाऽस्ति, ततः किं कारणमेवमेवं प्रायश्यित्तं दीयते ? उच्यते - दिटुंतो दुवखरए, अन्भुट्टितेहिं जह गुणो पत्तो। तम्हा उद्वेयव्वो, पाहुणओ गच्छ आयरिओ॥ इह प्राघूर्णकमाचार्यमनुत्तिष्ठन् भगवतामाज्ञामतिक्रामति / तथाचाऽत्र व्यक्षरकेण दासेन दृष्टान्तः- “एगो राया, से केणइ दुअक्खरएणं आराहिओ। स्ना से पट्ट बंधिउपहाणं रज्जं दिन्नं। तत्थदंडभडभोइयाइणो अदुअक्खरो त्ति काउं परिभावेणं तस्स अन्भुट्ठाणाइयं न करेंति। ताहे तेण ते अणब्भुढेता दंडिया, मारिया या जे विणीया, ते अब्भुटुिंति, तेसिं तेण परितुढेण रज्जसं विभागो दिन्नो" / अथाऽर्थोपनयः- यथा तैरभ्युत्तिष्ठ निरिह लोके गुणः प्राप्तः तथा साधवोऽपि प्राघूर्णकमाचार्यमभ्युत्तिष्ठन्त इह परत्र च गुणानासादयन्ति, तस्मात्प्राघूर्णक आचार्यः सकलेनाऽपि गच्छेनाऽभ्युत्थातव्यः। अमुमेव व्यक्षरदृष्टान्तं व्याख्यानयतिआराहितो रज सपट्टबंधं, कासीय राया उदुवक्खरस्स। पसासमाणं सुकुलीणमादी, नाढंति तं तेण य ते विणीया। आराधितः केनापि गुणविशेषेण परितोषं प्रापितः सन् राजा यक्षरकस्य सपट्टबन्धं राज्यमकार्षीत, पट्टबन्धनपतिं तं विहितवानिति भावः। ततः तं व्यक्षरकराज राज्यं प्रशासतं कुलीनादयो नाद्रियन्ते, वयं कुलीनाः, अयं तुहीनकुलोत्पन्नः आदिशब्दाद्वयं प्रधानपुरुषाः, अयं पुनः कर्मकर इत्यादि परिभवबुद्ध्या नाभ्युत्थानादिकमादरं तस्य कुर्वन्ति, ततः ते तेन राज्ञाऽविनीताः शिक्षा प्रापिताः, 'विनयः शिक्षाप्रणत्योः' इति वचनात्। कथं शिक्षिताः? इत्याहसव्वस्सं हाऊणं, निजूढा मारिया य विवदंता। भोगेहिं संविभत्ता, अणुकूलअणुल्लणा जे उ॥ सर्वस्वमपहृत्य ते स्वनगरान्नि!ढा निष्काशिताः, ये च तत्र निष्काश्यमाना विवदन्ते- किमस्माभिरपराद्धं यो यो व्यक्षरको भविष्यति, तस्य तस्य किं वयमभ्युत्थानं करिष्यामः ? इत्यादि कलहायन्ते, ते विवदमाना मारिताः / ये तु तत्रानुकूला अभ्युत्थानादिकारिणाऽनुल्बणा अगर्वितास्ते भोगैः संविभक्ताः, राज्यभोगसंविभागस्तेषां कृतः / एष दृष्टान्तः। अयमर्थोपनयःअहिराया तित्थयरो, इयरो उ गुरू उ होइ नायव्यो। साहू जहा व दंडिय, पसत्थमपसत्थगा होति // यथा अधिराजो मौलपृथिवीपतिः, तथा तीर्थकरः, यथा इतरो व्यक्षरकराजः, तथा तीर्थकराधिराजेनैवानुज्ञाताचार्यः पदपट्टबन्धमहितगणाधिपत्यराज्ये गुरुराचार्यो ज्ञातव्यो भवति / यथा च ते प्रशस्ताप्रशस्तरूपा दण्डिकास्तथा साधवोऽप्युभयस्वभावा भवन्ति / तत्रजह ते अणुट्ठिहंता, हियसव्वस्सा उ दुक्खमाभागी। इय णाणे आयरियं, अणुट्टिहंताण वोच्छेदो // यथा ते दण्डभटभोजिकादयो व्यक्षरकनृपतिमनुत्तिष्ठन्तो हृतसर्वस्वा ऐहिकस्य दुःखस्याभागिनः संजाताः / इत्येवमाधार्य-मप्यनुत्तिष्ठतां दुर्विनीतसाधूनां ज्ञाने, उपलक्षणत्वाद् दर्शन-चारित्रयोश्च व्यवच्छेदो भवति / ततश्चानेकेषां जन्मजरा-मरणादिदुःखानामाभोगिनस्ते संजायन्ते, एषोऽप्रशस्तोपनयः / अथ प्रशस्तोपनयःउहाण सिज्जासणमाइएहिं, गुरुस्स जे होंति सयाऽणुकूला। नाउं विणीए अह ते गुरू उ, संगिण्हई देइ य तेसि सुत्तं / / उत्थानं- गुरुमागच्छन्तं दृष्ट्वा ऊर्ध्वं भवनं, शय्या सुन्दरावकाशे गुरूणां संस्तारकरचनम्, आसनमुपवेशनयोग्यनिषद्यादिरचनम्। यदा-(सेज्जासणं ति) गुरूणां शय्याया आसनाथ नीचतरशय्यासनयोराश्रयणम् / आदिशब्दादञ्जलिप्रग्रहणादि परिग्रहः / एवमादिभिर्विनयभेदैर्ये शिष्याः सदैव गुरोरनुकूला भवन्ति तान् विनीतान ज्ञात्वा, अथानन्तरं गुरुः संगृह्णाति / मयैते सम्यक्पालनीया इत्येवं संग्रहबुद्ध्या स्वीकरोति, सूत्रं च तेषां प्रयच्छति, ततश्च ते इह परत्र च कल्याणपरम्पराभाजनं जायन्ते। अथ प्रशस्तोपनयं विशेषतो भावयन्नाहपज्जायजाईसुतओ य वुड्डा, जत्तनिआ सीससमिद्धिमंता। कुव्वंतऽवण्णं अह ते गणाउ, निजूहई नो य ददाइ सुत्तं / / पर्यायतो ये वृद्धास्ते अवमरात्निकोऽयमिति बुद्ध्या, जातिमधिकृत्य ये वृद्धाः, षष्टिवर्षजन्मपर्याया इत्यर्थः, ते बालकोऽयमिति बुद्ध्या, श्रुततश्च तमङ्गीकृत्य ये वृद्धास्तेऽल्पश्रुतोऽयमिति कृत्वा, जात्यन्विता विशिष्टजातिसंभूता हीनजात्युद्भवोऽयमिति मत्या, शिष्यसमृद्धिमन्तः परिवारसंपदुपेता अल्पपरिवारोऽयमिति बुद्ध्या, गुरोरवज्ञामनभ्युत्थानलक्षणां कुर्वन्ति / अथैवमवज्ञाकरणानन्तरं गुरुस्तान् स्वगच्छनगरान्नि!हति, ये च बहुपाक्षिकत्वादिभिः कारणैर्नियूहयतुं न शक्यन्ते, तेषां भोगसंविभागकल्पसूत्रं श्रुतं न प्रयच्छति / एवं तावत्प्राघूर्णकमाचार्यमङ्गीकृत्याऽभ्युत्थाना-ऽनभ्युत्थानयोर्गुणदोषा उपवर्णिताः। अथ सामान्यतो गच्छमध्ये स्थितस्यैवाऽऽचार्यस्याऽनभ्युत्थाने दोषमाहमज्झत्थ पोरिसीए, लेवे पडिलेह आइयण धम्मे / पयल गिलाणे तह उत्तमट्ठ सव्वेसिँ उहाणं // आचार्यमागच्छन्तं दृष्ट्वा गच्छसाधवो मध्यस्थास्तिष्ठन्ति, ततः

Loading...

Page Navigation
1 ... 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078