Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1049
________________ अहाछंद 865 - अभिधानराजेन्द्रः-विभाग 1 अहाछंद किं न कल्पते गृहीतुम् ? द्वितीयसमवसरणेऽपि युद्मादिदोषपरिशुद्धमिति कृत्वा गृह्यते, सा च दोषशुद्धिरुभयत्राप्यविशिष्टति। (तह य नितिएसुत्ति) तथा- नित्येषु नित्यवासेषु प्ररूपयति, यथा- नित्यवासेऽपि याद्रमोत्पादनैषणाशुद्धं लभ्यते भक्तपानादि, ततः को दोषः? प्रत्युत काल दीर्घमेकक्षेत्रे वसतां सूत्रार्थादयः प्रभूता भवन्ति / तथा-(सुन्न त्ति) यधुपकरणं न केनापि ह्रियते, ततः शून्यायां यसतौ क्रियमाणायां को दोषः? अथोत्संघ-ट्टनेनोपहन्यते, तच्च चेत्तस्योपधिक उपधातः (तथा अकप्पिय त्ति) अकल्पिको नामाऽगीतार्थः, तद् विषये ब्रूते, यथा- अकल्पिकेन प्रथमशैक्षकरूपेण शुद्धमज्ञातोञ्छं वस्त्रापात्राद्यानीतं किं न परिभुज्यते ? तस्य ज्ञातोञ्छतया विशेषतः परिभोगार्हत्वात् / (संभोए इति) तथा संभोगे ब्रूते, यथा- सर्वे पञ्च महाव्रतधारिणः साधवः, सांभोगिका एव युक्ताः, नाऽसांभोगिका इति। साम्प्रतमकल्पिकोचितं विवृणोति - किंवा अकप्पिएणं, गहिणं फासुयं तु होइ उ अभोज्जं / अन्नाउंछं को वा, होइ गुणो कप्पिए गहिए?|| किं वा केन वा करणेन अकल्पिकेन अगीतार्थेन गृहीतं प्रासुकमज्ञातोञ्छमपि अभोज्यमपरिभोक्तव्यं भवति। को वा कल्पिकेन (अत्र गाथानां सप्तमी तृतीयाऽर्थे) गृहीतो गुणो भवति, उभयत्रापि शुद्धत्वाविशेषात्। अधुना (संभोए) इति व्याख्यानयतिपंचमहव्वयधारी, समणा सव्वेसि किं न भुंजंति / इय चरण- वितहवादी, एत्तो वोच्छं गतीसुं तु // पञ्चमहाव्रतधारिणः सर्वे श्रमणाः किं नैकत्र भुञ्जते ? किं नाविशेषण सर्वे सांभोगिका भवन्ति ? येनके सांभोगिकाः, अपरे असांभोगिकाः क्रियन्ते इति / इत्येवमुपदर्शितेन प्रकारेण यथाच्छन्दोऽनालोचितगुणदोषः, चरणे चरणविषये वितथवादी। अतऊय तुगतिषु वितथवादिनं वक्ष्यामि। यथाप्रतिज्ञातमेव करोतिखेत्तं गतो य अडविं, एको संचिट्ठए तहिं चेद। तित्थगरो त्तिय पियरो,खेत्तं पुण भावतो सिद्धी। स यथाच्छन्दो गतिषु विषये एवं प्ररूपणां करोति-"एगो गहवती, तस्स तिन्नि पुत्ता, ते सव्वे छेत्तकम्मोवजीविणो पियरेण छित्तकम्मे नियोजिया। तत्थेगो खेत्तकम्मं जहाणत्तं करेइ / एगो अडविं गतो, देसं देसेण हिंडइ इत्यर्थः / एगो जिमित्ता जिमित्ता देवकुलादिषु अत्थति। कालंतरेण तेसिं पिया मतो। तेहिंदव्वं पितिसियं ति काउंसव्वं सम्मं विरिक। एवं तेसिंजं एगेण उवज्जियंतं सव्वेसिं सामण्णं जायं। एवं अम्हं पिया तित्थयरो, तस्स वयोवदेसेणं सव्वे समणा कायकिलेसंकुव्यंति। अम्हे न करेमो, जंतुन्भेहिं कयं / अम्हं सामन्नं जहा तुडभे देवलोगं सुकुलपव्वयाई वा सिद्धिं वा गच्छह, तहा अम्हे विगच्छिस्सामो"। एष गाथा-भावार्थः / अक्षरयोजना त्वियम्- एकः पुत्रः क्षेत्रं गतः। एकोऽटवीम्, देशान्तरेषु परिभ्रमतीत्यर्थः। अपर एकस्तत्रैव संतिष्ठते / पितरि च मृते धनं सर्वेषामपि समानम् / एवमत्रापि पिता पितृस्थानीयस्तीर्थकरः / क्षेत्रफलं धनं पुनर्विभावतः परमार्थतः सिद्धिः, तांयूयमिव युष्मदुपार्जनेन वयमपि गमिष्यामः।उक्ता गतिष्यपि यथाच्छन्दस्य वितथप्ररूपणा। संप्रति तेषां यथाच्छन्दानामेवंवदतांदोषमुपदर्शयतिजिणवयण सव्वसारं, मूलं संसारदुक्खमुक्खस्स। सम्मत्तं मइलेत्ता, ते दोग्गइवडगा हुंति। ते यथाच्छन्दावरणेषु गतिषु चैवं ब्रुवाणाः सम्यक्त्वं सम्यग दर्शनम्। कथंभूतमित्याह- जिनानां सर्वज्ञानां वचनं जिनवचनंद्वादशाङ्ग, तस्य सारं प्रधानं, प्रधानवचोऽस्य तदनन्तरेण श्रुतस्य पठितस्याप्यश्रुतत्वात् / पुनः किं विशिष्टमित्याह- मूलं प्रथमं कारणं, संसारदुःखमोक्षस्य समस्तसांसारिकदुःखविमोक्षमोक्षस्य, तदेवंभूतं सम्यक्त्वं मलिनयित्वा आत्मनो दुर्गतिवर्द्धका भवन्ति / दुर्गतिस्तेषामेवंवदतां फलमितिभावः / इह पूर्वमुत्सवेऽनुत्सवे वा गृहीतस्य पाश्वस्थिस्य प्रायश्चित्तमुक्तम्। तत्र उत्सवप्ररूपणार्थमाहसक्कमहादीया पुण, पासत्थे ऊसवा मुणेयव्वा। अहछंदे ऊसवो पुण, जीए परिसाए उ कहेइ॥ पास्थि पाश्वस्थिस्य, उत्सवा ज्ञातव्याः शक्रमहादयः इन्द्रमहादयः। आदिशब्दात् स्कन्दरुद्रमहादिपरिग्रहः / यथाच्छन्दस्य पुनरुत्सवो यस्याः पर्षदः पुरतो यथाच्छन्दः स्वच्छन्दविकल्पितं प्ररूपयति, सा पर्षत् ज्ञातव्या / एतदपि च उत्सवभूते यः पर्षदि स्वकीयकुमतप्ररूपणं चतुर्मासषण्मासवर्षेषु कदाचिद्वा करोति, अभीक्ष्णं वा, ततएतेषु वक्तव्यम्, तच पाश्वस्थिाऽऽगमानुसारेण ज्ञेयम्।अत आह - जहिं लहुगो तहिं लहुगा, जहिं लहुगा चउगुरू तहिं ठाणे। जहिं ठाणे चउगुरुगा, छम्मासे तत्थ ऊ जाणे // जहिं पुण छम्मासा तहिं, छेयं पुण छेयठाणए मूलं। पासत्थे जं भणियं, अहछंदे विविडियं जाणे // यत्र पावस्थिस्य मासलघु प्रायश्चित्तमुक्तं, तत्र यथाच्छन्दसि चत्वारो लघुकाः / यत्र चत्वारो लघुकाः, तत्र स्थाने च चत्वारो गुरवः / यत्र चत्वारो गुरुकास्तत्र षण्मासान् गुरून् जानीहि। यत्र पुनः षण्मासास्तत्र ज्ञातव्यः छेदः, छेदस्थाने च मूलम् / तद्यथा-यधुत्सवाभावे कदाचित्कथयति, ततश्चत्वारो लघुकाःमासाः। अथाभीक्ष्णं कथयति, ततश्चत्वारो गुरुकाः / अथोत्सवे कदाचित् ब्रूते, ततश्चत्वारो गुरुकाः। अभीक्ष्णकथने षण्मासा गुरवः / षण्मासा यावदभीक्ष्णकथने मूलम्। अत्रोत्सवानुत्सव-विशेषरहिततया सामान्यतोऽभिधान-मुक्तमोघेन प्रायश्चित्तम् / अधुना विभागत उच्यते-चतुरो मासान् यावत्कदाचिदुत्सवाभावे प्ररूपणायां चत्वारो लघुमासाः। षण्मासान् यावच्चत्वारो गुरवः / वर्षं यावत् षण्मासा गुरवः / तथा- चतुरो गुरुमासान् यावद् उत्सवाभावेऽभीक्ष्णप्ररूपणायाः चत्वारो गुरुकाः / षण्मासान् यावदुत्सवमभीक्ष्णप्ररूपणायां षण्मासा गुरवः। वर्ष यावदेवं प्ररूपणायां छेदः / चत्वारो मासान यावदुत्सवे कदाचित्प्ररूपणात् चत्वारो मासा गुरवः / षण्मासान् यावदेवंप्ररूपणायां षण्मासा गुरवः / वर्ष यावत्प्ररूपणायां छेदः / तथा-चतुरो मासान् यावदुत्सवेष्वभीक्ष्णं प्ररूपणायां चतुर्गरुकः छेदः। वर्ष यावदेवंप्ररूपणायां मूलमिति। एतदेव सामान्यतो ग्रहणम् / (पासत्थेत्यादि) पाश्वस्थेि यत्र स्थाने यत्

Loading...

Page Navigation
1 ... 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078