Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अहुणोववन्नग 891 - अभिधानराजेन्द्रः - विभाग 1 अहेउवाय भवइ- अस्थि णं मम माणुस्सए भवे मायाइ वा 0 जाव सुण्हाइ वा, तं गच्छामि णं, तेसिमंतियं पाउन्भवामि, पासंतु ता मे इममेयारूवं दिव्वं देवढेिं दिव्वं देवजुई लद्धं पत्तं अभिसमण्णागयं // 3|| अहुणोववपणे देवे देवलाऐसु जाव अणज्झोववण्णे तस्स णमेवं भवइ, अस्थि णं मम माणुस्सए भवे मित्तेइ वा सुहीइ वा सहाएइ वा संगइएइ, वा तेसिं च णं अम्हे अण्णमण्णस्स संगारे पडिसुए भवइ / जो मे पुट्विं चयइ से संबोहियव्वे इच्चेएहिं जाव संचाएइ हव्वमागच्छित्तए||४|| आगमनकारणानि प्रायः प्राग्वत्, तथाऽपि किश्चिदुच्यतेकामभोगेष्वमूञ्छितादिविशेषणो यो देवस्तस्य (एवमिति) एवंभूतं मनो भवति- यदुत अस्ति मे, किं तदित्याह- आचार्य इति वाऽऽचार्य एतद्वाऽस्ति,इति रूपप्रदर्शने, वा विकल्पे / एवमुत्तर-त्राऽपि / क्वचिदितिशब्दो न दृश्यते, तत्र सूत्रं सुगममेवेति / इह चाऽऽचार्यः प्रतिबोधप्रव्राजकादिरनुयोगाचार्यो वा, उपाध्यायः सूत्रदाता, प्रवर्त्तयति साधूनाचार्योपदिष्टेषु वैयावृत्यादिष्विति प्रवर्ती, प्रवर्त्तिव्यापारितान् साधून संयमयोगेषु सीदतः स्थिरीकरोतीति स्थविरो, गणोऽस्यास्तीति गणी, गणाऽऽचार्यो गणधरो वा जिनशिष्यविशेष आर्यिकाप्रतिजागरको वा साधुविशेषः, समयसिद्धान्तो गणस्यावच्छेदोऽस्यातीति गणाऽवच्छेदकः / यो हितं गृहीत्वा गच्छोपष्टम्भायैवोपधिमार्गणादिनिमित्त विहरति / (इमे त्ति) इयं प्रत्यक्षासन्ना, एतदेव रूपं यस्या न कालाऽन्तरादावपि रूपाऽन्तरभाक्सा, तया दिव्या स्वर्गसंभवा प्रधाना वा देवर्द्धिर्विमानरत्नादिका द्युतिः / शरीरादिसम्भवा युतिर्वा युक्तिरिष्टपरिवारादिसंयोगलक्षणा लब्धा उपार्जिता जन्माऽन्तरे प्राप्लेदानीमुपगता, अभिसमन्वागता भोग्यावस्थां गता(तं ति) तस्मात् तान् भगवतः पूज्यान् वन्दे स्तुतिभिनभस्यामि प्रणामेन सत्करोमि, आदरकरणेन वस्त्रादिना वा संमानयाम्युचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमिति बुद्धया पर्युपास्ये सेवामीत्येकम् 1, तथा- ज्ञाने श्रुतज्ञानादिना इत्यादि द्वितीयम् २,तथा-(भायाइवा भज्जाइ वा भइणीइ वा पुत्ताइवा धूयाइ वेति) यावत् शब्दाक्षेपः, स्नुषा पुत्रभार्या (तं) तस्मात् तेषामन्तिकं समीपं प्रादुर्भवामि प्रकटीभवामि (ता) तावत् (मे) मम इति पाठान्तरमिति तृतीयम् 3, तथा- मित्रं पश्चात् स्नेहवत् सखा बालवयस्यः सुहृत्सज्जनो हितैषी सहायः सहचरः तदेककार्यप्रवृतो वा, संगतं विद्यते यस्याऽसौ साङ्गतिकः परिचितः, तेषां (अम्हे त्ति) अस्माभिः (अण्णमण्णस्स त्ति) अन्योऽन्यं (संगारे त्ति) संकेतः प्रतिश्रुतोऽभ्युपगतो भवति स्मेति / (जो मे त्ति) योऽस्माकं पूर्वं च्यवते देवलोकात् स संबोधयितव्य इति चतुर्थम् 4, इदं च मनुष्यभवे कृत संकेतयोरेकस्य पूर्वलक्षादिजीविषु भवनपत्यादिषूत्पद्य च्युत्वाचनर-तयोत्पन्नस्याऽन्यः पूर्वलक्षादि जीवित्वा सौधर्मादिषूत्पद्य संबोधनाऽर्थं यदिहाऽऽगच्छति, तदवसेयमिति / इत्येतैरित्यादि निगमनमिति। स्था०४ ठा०३ उ० अहे-(अधस्) दिग्भेदे। नि०चू०१८ उ०। भ०। *अथ-अव्य०। अथाऽर्थे, भ०१ श०६ उ०ा 'अहे णं से अम्मापियरे' अथ चैतत्, णमिति वाक्यालङ्कारे। स्था०३ ठा०१ उ०। आचा०। क्षेपे, / नियोगे च / सन अहेउ-पुं०(अहेतु) यथोक्तहेतुप्रतिपक्षे, स० अनुमाना- ऽनुत्थापके हेत्वाभासे, स्था। पंच अहेऊ पण्णत्ता / तं जहा- अहे ण जाणइ० जाव अहेउछउमत्थमरणं मरइ॥६॥ पंच अहेऊ पण्णत्ता / तं जहाअहेउणा न जाणइ० जाव अहेउणा छउमस्थमरणं मरइ / / 7 / / पंच अहेऊ पण्णत्ता / तं जहा- अहेउं जाणइ० जाव अहेउकेवलिमरणं मरइ ||8|| तथा पञ्चाऽहेतवो यः प्रत्यक्षज्ञानादितयाऽनुमानाऽनपेक्षः, स धूमादिकमहेतुनाऽयं हेतुर्ममानुमानोत्थापक इत्येवं जानाति, इत्यतो हेतुभूतं तं जानन्नहेतुरेवाऽसावुच्यते / एवं दर्शनबोधाऽभिसमागमाऽपेक्षयाऽपि तदेवमहेतुचतुष्टयं छद्मस्थमाश्रित्य देशनिषेधत आह(अहेतुमिति) धूमादिकं हेतुमहेतुभावेन न जानाति, न सर्वथाऽवगच्छति, कथञ्चिदेवाऽवगच्छतीत्यर्थः। नञो देश-निषेधार्थत्वात्, ज्ञातुश्वाऽवध्यादिकेवलित्वेनाऽनुमानाऽव्यव- हर्तृत्वादित्येकोऽयमहेतुर्देशप्रतिषेधत उक्तः 1, एवमहेतुं कृत्वा धूमादिकं न पश्यतीति द्वितीयः 2, नबुध्यते, न श्रद्धत्ते इति तृतीयः 3, नाभिसमागच्छतीति चतुर्थः 4, तथाअहेतुमध्यवसानादि-हेतुनिरपेक्षं निरुपक्रमतया छद्मस्थमरणमनुमानव्यवहर्तृत्वेऽप्यकेवलित्वात्तस्याऽयं च स्वरूपत एव पञ्चमोऽहेतुरुक्तः / तथा- पञ्चाऽहेतवो योऽहेतुना हेत्वभावेनाऽवध्यादिकेवलित्वाद् जानात्यसावहेतुरेवेत्येवं पश्यतीत्यादयोऽपि / एवं च छद्मस्थमाश्रित्य पदचतुष्टयेनाऽहेतुचतुष्टयं देशप्रतिषेधत आह। तथाऽहेतुनोपक्रमाऽभावेन छास्थमरणं मियत इति पञ्चमोऽहेतुः स्वरूपत एव उक्तः // 6 // तथापञ्चाऽहेतवोऽहेतु, न हेतुभावेन विकल्पितं धूमादिकं जानाति केवलितया योऽनुमानाऽव्यवहारित्वात् सोऽहेतुरेव / एवं यः पश्यतीत्यादि / तथा अहेतुं निर्हेतुकमनुपक्रमत्वात् केवलिमरण-मनुमानाऽव्यवहारित्वाद् मियते यात्यसावहेतुः पञ्चमः। एते पञ्चाऽपीहा स्वरूपत उक्ताः।।७।। एवं तृतीयाऽन्त-सूत्रमप्यनुसर्तव्यमिति |8|| गमनिकामात्रमेतत्, तत्त्वं तु बहुश्रुता विदन्तीति / स्था०५ ठा० 1 उ०। न विद्यते हेतुरस्येति, अनाद्यपर्यवसिते नित्ये। सूत्र०१ श्रु०१ अ०१ उ०म०। अहेउवाय-पुं०(अहेतुवाद) हिनोति गमयत्यर्थमिति हेतुः, तत्परिच्छि. नोऽर्थोऽपि हेतुः, तं वदतिय आगमः स हेतुवादः / यस्तुवस्तुस्वरूपप्रतिपादकत्वेऽपितद्विपरीतोऽसावहेतुवादः / दृष्टिवादादन्यस्मिन्, सम्म०) (दुविहो धम्मावाओ, अहेउवाओ य हेउवाओ य)। तत्थ उ अहेउवाओ, भवियाभवियादओ भावा॥१५०।। भव्याऽभव्यस्वरूपप्रतिपादक आगमः, तद्विभागप्रतिपादने अध्यक्षादेः प्रमाणाऽन्तरस्याऽप्रवृत्तेः / न हि अयं भव्योऽयमभव्य इत्यत्राऽऽगमप्रमाणेन प्रमाणाऽन्तरप्रवृत्तिसंभवः। अस्मदाद्यपेक्षया, न तुतद्विभागप्रतिपादकं वचो यथार्थमर्हद्वचनत्वात्, अनेकान्ता-त्मकवस्तुप्रतिपादकवचोवदित्यनुमानात् तद्विभागप्रतिपत्तौ कथं न तस्याऽनुमानविषयता ? न / एवमप्यागमादेव तद्विभागप्रतिपत्ते-स्तव्यतिरेकेण प्रमाणाऽन्तरस्य तत्प्रतिपतिनिबन्धन

Page Navigation
1 ... 1073 1074 1075 1076 1077 1078