Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अहालंद 869 - अभिधानराजेन्द्रः-विभाग 1 अहालंद न्तिकेऽप्यातङ्के समुत्पन्ने, न कामपि चिकित्सां ते कारयन्ति, तथाकल्पस्थितेः। अपि च-निष्प्रतिकर्मशरीराः प्रतिकर्मरहित-देहास्ते / भगवन्तस्तत आस्तां तावदन्यत्, अक्षिमलमपि नापनयन्ति, अप्रमादातिशयादिति। थेराणं नाणत्तं, अतरंतं अप्पिणंति गच्छस्स। ते विय से फासुएणं, करिति सव्वं पिपडिकम्मं // 632 / / स्थविरकल्पिकयथालन्दिकानां जिनकल्पिकयथालन्दिकेभ्यो नानात्वं भेदः, यथा अशक्नुवन्तं व्याधिबाधितं सन्तं स्व-साधुमर्थयन्ति गच्छस्यगच्छवासिसाधुसमूहस्यस्वकीयंपञ्चकगणपरिपूरणार्थं च तस्य स्थाने विशिष्टधृतिसंहनना-दिसमन्वितमन्यं मुनिस्वकल्पेप्रवेशयन्ति। तेऽपि च गच्छवासिनः साधवः (से त्ति) तस्य अशक्नुवतः प्रासुकेन | निरवद्येना-ऽन्नपानादिना कुर्वन्ति सर्वमपिपरिकर्मप्रतिजागरणमिति। किञ्चएक्कक्कपरिग्गहगा, सप्पाउरणा हवंतिथेराओ। जे पुणसिं जिणकप्पे, भावे सिंवत्थपायाणि // 633 / / स्थविरकल्पिका यथालन्दिका अवश्यमेव एकैकपतद्ग्रहकाः प्रत्येकमेक "कपतद्ग्रहधारिणः, तथा सप्रावरणाश्च भवन्तिायेपुनरेषां यथालन्दिकानां जिनकल्पे भविष्यन्ति, जिनकल्पिक-यथालन्दिका इत्यर्थः। भावे तेषां वस्त्रपात्रे सप्रावरणाः प्रावरणपतद्ग्रहधारिपाणिपात्रभेदभिन्नभाविजिनकल्पापेक्षया केषांचिद्वस्वपात्रलक्षणमुपकरणं भवति, केषां च नेत्यर्थः। प्रव०७० द्वार। बृ०॥ अथ सामान्येन यथालन्दिकप्रमाणमाहगणमाणओ जहन्ना, तिन्नि गण सयग्गओ य उक्कोसा। पुरिसपमाणे पनरस, सहस्सओ चेव उक्कोसो॥६३४|| गणमानतो गणमाश्रित्य जघन्यतस्त्रयो गणाःप्रतिपद्यमानका भवन्ति। शताऽग्रशश्च शतपृथक्त्वमुत्कृष्टतो गणमानं, पुरुषप्रमाणं त्वेतेषां प्रतिपद्यमानकानां जघन्यतः पञ्चदश, पञ्चको हि गणोऽमुं कल्पं प्रतिपद्यते / गणश्च जघन्यतस्त्रयः, ततः पञ्चभिर्गुणिताः पञ्चदश, उत्कृष्टतःपुनः पुरुषप्रमाणं सहस्रशः सहस्रपृथक्त्यम्। पुरुषप्रमाणमेवाश्रित्य पुनर्विशेषमाहपडिवजमाणगावा, इक्काइ हवेज ऊणपक्खे वि। होति जहन्ना एए, सयग्गसो चेव उक्कोसा॥६३४|| पुव्वपडिवनगाण वि, उक्कोसजहन्नसो परीमाणं। कोडिपहुत्तं भणियं, होइ अहालंदियाणं तु // 63|| प्रतिपद्यमानका एते जघन्यत एकादयो वा भवेयु,नप्रक्षेपे सति, यथालन्दिककल्पे हि पञ्चमुनिमयो गच्छः, तत्र च यदा ग्लानत्वादिकारणवशतो गच्छसमर्पणादिना तेषां न्यूनता भवति, तदैकादिकः साधुस्तं कल्पं प्रवेश्यते, येन पञ्चको गच्छो भवति, एवं जघन्याऽऽपत्तेः प्रतिपद्यमानकास्तथा शताऽग्रश उत्कृष्टाः प्रतिपद्यमानका एवेति॥६३४|| पूर्वप्रतिपन्ननामपि सामान्ये-नोत्कृष्टतो जघन्यतश्च परिमाणं कोटिपृथक्त्वं भणितं यथा-लन्दिकानाम् / उक्तं च कल्पचूर्णी - "पडिवजमाणगा जहन्नेणं तिन्नि गणा, उक्कोसेणं सयपुहत्तं गणाण पुरिसप्पमाणेणं पडिवजमाणगा, जहन्नेणं पन्नरस पुरिसा उक्कोसेणं सहस्सपुहत्तं पुवपडिवनगाणं जहन्नेणं कोडिपुहत्तं, उक्कोसेण वि कोडिपुहत्तमिति'' / केवलं जधन्यादुत्कृष्ट विशिष्टतरं ज्ञेयमिति। प्रव०७० द्वार। बृ०॥ अथ गच्छप्रतिबद्धयथालन्दिकद्वारमाह - पडिबद्धे को दोसो, आगमणेगागिणस्स वासासु / सुयसंघयणादीओ, सो चेव गमो निरवसेसो॥ प्रतिबन्धनं प्रतिबन्धः, गच्छप्रतिबन्ध इत्यर्थः / तत्र कारणे यथालन्दिकानांच वक्तव्यं (को दोस त्ति) को नाम दोषो भवति? यत्ते यथालन्दिका आचार्याऽधिष्ठिते क्षेत्रे न तिष्ठन्ति। (आगम-णेगागिणस्स त्ति) यद्याचार्याः स्वयं क्षेत्रबहिर्गन्तुं न शक्नुवन्ति, तत एकाकिनो यथालन्दिकस्याऽऽगमनं भवति (वासासु त्ति) वर्षासुउपयोगं दत्त्वा यदि जानाति, वर्ष न पतिष्यति, तत आगच्छति, अन्यथा तु नेति / श्रुतसंहननादिकस्तु गमः, स एव निरवशेषो वक्तव्यो यो जिनकल्पिकानाम्। यस्तु विशेषः, स प्रागेवोक्तः / अथ प्रतिबद्धपदं व्याख्यातिसुत्तत्थसावसेसो, पडिबंधो तेसिमो भवे कप्पो। आयरिए किइकम्म, अंतर बहिया य वसहीए। सूत्रार्थस्तैर्गृहीतः परमद्यापि सावशेषो न संपूर्णः / एष तेषां गच्छविषयप्रतिबन्धः / तेषां चाऽयं वक्ष्यमाणः कल्पो, यथा-आचार्यस्यैव कृतिकर्म वन्दनकं दातव्यं, तथा-यद्याचार्यों न शक्- नोति गन्तुं ततोऽन्तरा वा ग्रामस्य, बहिर्वा वसतौ, यथालन्दिकस्य वाचनां ददाति। एतत्तूत्तरत्र भावयिष्यते / अथ को दोष इति द्वारम् शिष्यः पृच्छतियथाऽद्याचार्याधिष्ठित क्षेत्रे ते तिष्ठेयुस्ततः को दोषः स्यात् ? उच्यते - नमणं पुव्वन्मासा, अणमण दुस्सीलथप्पगासंका। आयट्ठ कुकुड ति य वादो लोगे ठिई चेव / / यथालन्दिकानां न वर्त्तते आचार्य मुक्तवा अन्यस्य साधोः प्रणामं कर्तु, तथाकल्पत्वात् / ततस्ते क्षेत्रान्तस्तिष्ठन्तः पूर्वाभ्यासान्नमनं प्रणाम साधूनां कुर्युः, गच्छवासिनश्च यथालन्दिकान् वन्दन्ते, ते पुनर्यथालन्दिकास्तान भूयो न प्रतिवन्दन्ते, ततस्तेषामनमने लोको ब्रूयात्-दुःशीला अशीलाः स्तम्भकल्पा अमी, यतो येषामित्थंवन्दमानानामपि न प्रतिवन्दनं प्रयच्छन्ति, न वा कमप्याला कुर्वन्ति।गच्छवासिषु वा लोकस्यस्थाप्यकज्ञानं भवति। अवश्यंस्थाप्या दुःशीलत्वादवन्दनीयाः कृता अमी, अन्यथा कथं न प्रतिवन्द्यन्ते / आत्मार्थिका वा अमी येनाऽप्रतिवन्दमानानपि वन्दन्ते, कौकुटिका वा मातृस्थानकारिणोऽमी लोकपङ्क्ति-निमित्तमित्थं वन्दन्ते / एवं लोके वाद उपजायते, कारणैः क्षेत्रबहिस्तिष्ठन्ति / अपि च स्थितिरेव कल्प एवाऽयममीषां, यत् क्षेत्राऽभ्यन्तरे न तिष्ठन्ति / अथाऽमीषामेव कल्पमाहदोनि विदाउं गमणं, धारणकुसलस्स देस्स बहि देइ। किइकम्मं चोलपट्टे, ओवग्गहिया निसिजाय / / आचार्यः सूत्रार्थपौरुष्यौ द्वे अपि गच्छवासिनां दत्त्वा यथालन्दिकानां समीपे गमनं करोति, गत्वा च तत्र तेषामर्थं कथयति / अथाचार्यों न शक्नोति तत्र गन्तुं, ततो यस्तेषां यथा-लन्दिकानां मध्ये धारणाकुशलोऽवधारणाशक्तिमान, क्षेत्रबहिरन्तरा पल्लिकायाः प्रत्यासन्ने भूभागे समायाति, तत्र च गत्वा आचार्यस्तस्याऽथ ददाति /

Page Navigation
1 ... 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078