Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1060
________________ अहिंसा 876 - अभिवानराजेन्द्रः-विभाग 1 अहिंसा अशिष्टोऽप्रतिपादितः परेण / वाचनान्तरे- 'अन्नाए अकहिए अदुहृत्ति' दृश्यते। 'अदीणे' इत्यादि तुपूर्ववत्। भिक्षुर्भिक्षषणया युक्तः (समुदाणेउण त्ति) अटित्या भिक्षाचर्या गोचरमिवोञ्छ-मल्पाऽल्पगृहीतं भैक्ष्यं गृहीत्वा आगतो गुरुजनस्य पार्श्व समीपं गमनागमनातिचाराणां प्रतिक्रमणेन ईपिथिकादण्डकेनेत्यर्थः / प्रतिक्रान्तं येन स तथा (आलोयण त्ति) आलोचनं यथागृहीत-भक्तपाननिवेदनं, तयोरेवोपदर्शनं च (दाऊण त्ति) कृत्वा (गुरु-जणस्स त्ति) गुरोर्गुरुसंदिष्टस्य वा वृषभस्य (जहोवएसं ति) उपदेशानतिक्रमेण, निरतिचारं च दोषवर्जनन अप्रमत्तः, पुनरपि च अनेषणाया अपरिज्ञातानालोचितदोषरूपायाः, प्रयतो यत्न- वान्, प्रतिक्रम्य कायोत्सर्गकरणेनेति भावः / प्रशान्त उपशान्तो-अनुत्सुकः, आसीन उपविष्टः। स एव विशेष्यते- सुखनिषण्णः अनाबाधवृत्योपविष्टः / ततः पदत्रयस्य कर्मधारयः। मुहूर्त्तमात्रकं च कालं ध्यानेन धर्मादिना, शुभयोगेन संयमव्यापारेण गुरु-विनयकरणादिना, ज्ञानेन ग्रन्थानुप्रेक्षणरूपेण, स्वाध्यायेन वाऽधीतगुणनरूपेण गोपितं विषयान्तरगमने निरुद्धं मनो येन स तथा। अत एव धर्मे श्रुतचारित्ररूपे मनो यस्य स तथा / अत एवाऽविमना अशून्यचित्तः, शुभमनाः असंक्लिष्टचेताः, (अविग्गहमणे त्ति) अविग्रहमनाः असंक्लिष्टकलहचेताः, अव्युद्ग्रहमना वा अविद्यमानाऽसदभिनिवेशः। (समाहियमणे ति) समं तुल्यं रागद्वेषानाकलितं आहितमुपनीतमात्मनि मनो येन स समाहितमनाः, शमेन चोपशमेन अधिकं मनो यस्य स शमाधिकमनाः, समाहितं वा स्वस्थं मनो यस्य स समाहितमनाः। श्रद्धा च तत्त्वश्रद्धानं, संयमयोगविषयो वा निजाभिलाषः, संवेगश्च मोक्षमार्गाभिलाषः संसारभयं वा, निर्जरा च कर्मक्षपणं मनसि यस्य स श्रद्धासंवेगनिर्जरामनाः। प्रवचनवात्सल्यभावितमना इति कण्ठ्यम् / उत्थाय च प्रदृष्टः तुष्टोऽतिशयप्रमुदितो, यथारात्निकं यथाज्येष्ठ, निमन्त्र्य च साधून साधर्मिकान्, भावतश्च भक्त्या (विइण्णे यत्ति) वितीर्णे च-भुक्ष्व त्वमिदमशनादीन्येवमनुज्ञातेचसति भक्तादौ गुरुजनेन गुरुणा, उपविष्ट उचितासने संप्रमृज्य मुखवस्विकारजोहरणाभ्यां सशीर्ष कायं समस्तकं शरीरं, तथा करतलं हस्ततलंच, अमूर्छिते आहारविषये न मूढिमागतम् / अगृद्धः अप्राप्तरसेऽनाकाजावान, अग्रथितः रसानुगतन्तुभिरसंदर्भितः, अगर्हितः आहारविषये अकृतगर्ह इत्यर्थः / अनुध्युपपन्नो न रसेषु एकाग्रमनाः, अनाविलोऽकलुषः, अलुब्धः लोभविरहितः, (अणत्तट्ठिए त्ति) नाऽऽत्मार्थ एव अर्थो यस्याऽस्त्यसावनात्मार्थिकः,परमार्थकारीत्यर्थः / (असुरसुरंति) एवंभूतशब्दवर्जितः (अचयचवंति) चवचवेतिशब्दरहितम्, अनद्-भुतमनुत्सुकम् / अविलम्बितम् अनतिमन्दम् / अपरिशाटि परिशाटिवर्जितं, 'मुंजेज्जा' इति क्रियाया विशेषणनामानि / (आलोयभायणे त्ति) प्रकाशमुखे अथवाऽऽलोके प्रकाशेनाऽन्धकारे पिपीलिकावालादीनामनुप-लम्भात्, तथा भाजने पात्रे, पात्रं विना जलादि सम्पतित-सत्त्वाऽदर्शनादिति, यतो मनोवाक्कायसंयतत्वेन प्रयत्नेनादरेण व्यपगतसंयोग संयोजनादोषरहितं (अणिंगालं च त्ति) रागपरिहारेणेत्यर्थः। (विगयधूमं ति) द्वेषरहितम्। आह च - "रागेण स इंगालं, दोषेण स धूमगं वियाणीहि त्ति' | अक्षस्य धुर उपाञ्जनम् अक्षोपाञ्जनं, तच्च व्रणानुलेपनं च, ते भूतं प्राप्तं यत्तत्तथा, तत्कल्पतीत्यर्थः / संयमयात्रा संयमप्रवृत्तिः, सैव संयमयात्रामात्रा तन्निमित्तं हेतुर्यत्र तत्संयमयात्रामात्रनिमित्तम् / किमुक्तं भवति ? संयमभारवहनार्थतया, इयं भावनेह- यथाऽक्षस्योपाञ्जनं भारवहनायैव विधीयेत,न प्रयोजनान्तरे, एवं संयमभारवहनायैव साधुर्भुजीत, नबलरूप-निमित्तं,विषयलौल्येन वा। अविकलो हि भोजनसंयमसाधनं शरीरं धारयितुं समर्थो भवतीति (भुजेजत्ति) भुञ्जीत भोजनं कुर्वीत / तथा भोजने कारणाऽन्तरमाह- प्राणधारणार्थतया जीवितव्यसंरक्षणायेत्यर्थः। संयतःसाधुः। णमितिवाक्याऽलङ्कारे। (समियंति) सम्यक् / निगमयन्नाह- एवमाहारसमितियोगेन भावितः सन् भवत्यन्तरात्मा अशबला-ऽसंक्लिष्टनिव्रणचारित्रभावनाकः,अशबलासंक्लिष्टभावनया हेतुभूतया वा अहिंसकः संयतः सुसाधुरिति। प्रश्न०१ संव० द्वार। अहावरा चउत्था भावणा- आयाणभंडनिक्खेवणा-समिए। से णिगंथे णो अणायाणभंडणिक्खेवणासमिए णिग्गंथे / केवली बूया-आयाण भंडणिक्खेवणा असमिए णिग्गंथे पाणाइं भूयाई जीवाइं सत्ताई अभिहणेज वा० जाव उद्दवेज वा आयाणभंडणिक्खेवणासमिए, से णिग्गथे णो आयाणभंडणिक्खेवणा असमिए त्ति चउत्था भावणा। तथा चतुर्थी भावना- आदानभाण्डमात्रनिक्षेपणासमितिः, तत्र निर्ग्रन्थेन साधुना समितेन भवितव्यमिति। आचा०२ श्रु०३ चू० पंचमग्गं पीढफलगसेज्जासंथारगवत्थपत्तकंबलदंडकरयहरणचोलपट्टगमुहपोत्तियपायपुंछणादि / एयं पि संजमस्स उववूहणट्ठयाए वातातपदंसमसगसीयपरिरक्खणट्ठयाए उवगरणं रागदोसरहियं परिहरियव्वं संजएणं निचं पडिलेहणपप्फोडणपमजणाए अहो य राओ य अप्पमत्तेण होइ सययं निक्खियव्वं च गिहियव्वं च भायणभंडोवहि उवकरणं / एवं आयाणभंडणिक्खेवणासमिइं जोगेण भावितो भवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहु // 5 // (पंचमणं ति) पञ्चमभावनावस्तु आदानसमितिनिक्षेप-समितिलक्षण / एतदेवाऽऽह- पीठादिद्वादशविधमुपकरणं प्रसिद्धम्। (एवं पीति) एतदपि अनन्तरोदितमुपकरणम्, अपिशब्दादन्यमपि संयमस्योपबृंहणार्थतया संयभपोषणाय, तथा वाताऽऽतपदंशम-शकशीतपरिरक्षणाऽर्थतया उपकरणमुपकारम् उपधिः, रागद्वेषरहितं क्रियाविशेषणमिदम् / (परिहरियव्वं ति) परिभोक्तव्यं, न विभूषादि-निमित्तमिति भावना, संयतेन साधुना, नित्यं सदा। तथा - प्रत्युपेक्षणाप्रस्फोटनाभ्यां सह या प्रमार्जना, सा तथा तया, तत्र प्रत्युपेक्षणया चक्षुर्व्यापारेण, प्रस्फोटनया आस्फोटनेन, प्रमार्जनयाच रजोहरणादिव्यापाररूपया (अहोयराओ त्ति) अह्नि च रात्रौ च, अप्रमत्तेन भवति सततं निक्षेप्तव्यं च भोक्तव्यं, ग्रहीतव्यं चाऽऽदात-व्यम्। आदातव्यं किं तत् ? इत्याह- भाजनं पात्रं, भाण्डं तदेव मृण्मय, उपधिश्च वस्त्रादि, एतत् त्रयलक्षणमुपकरणमुपकारकारि वस्त्विति कर्मधारयः। निगमयन आह- एवमादानेत्यादि पूर्ववत्, नवरं इहप्राकृतशैल्याऽन्यथा पूर्वाऽपरपदनिपातः, तेन भाण्डस्योपकरणस्याऽऽदानं च ग्रहणं, निक्षेपणा च मोचनं, तत्र समिति

Loading...

Page Navigation
1 ... 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078