Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अहिंसा 881 - अभिधानराजेन्द्रः-विभाग 1 अहिंसा च प्रतिप्राणि प्रतिप्रावादुकमेतत् तुलादिकं द्रष्टव्यमिति // 2 // तत्थ णं जे से समणा माहणा एवमाइक्खंति० जाव परूवेंतिसव्वे पाणा, सव्वे भूया, सव्वे जीवा, सव्वे सत्ताण हंतव्वा, ण अज्झावेयव्वा, ण परिघेत्तव्वा, ण उद्दवेयव्वा / ते णो आगंतु छेयाए, ते णो आगंतु भेयाए० जाव जाइजरामरणजोणिजम्मणसंसारपुणब्भवगब्भवासभवपवंचकलंकलीभागिणो भविस्संति, ते णो बहूर्ण दंडणाणं० जाव णो बहूणं मुंडणाणं० जाव बहूणं दुक्खदोम्मणस्साणं णो भागिणो भविस्संति, अणादियं च णं अणवयरगं दीहमद्धं चाउरंतसंसारकंतारे भुजो भुञ्जो णो अणुपरियट्टिस्संति / ते णं सिज्झंति० जाव सव्वदुक्खाणं अंतं करिस्संति॥३॥ ये पुनर्विदिततत्त्वा आत्मौपम्येनात्मतुलया सर्वजीवेष्वहिंसां कुर्वाणा एवमाचक्षते। तद्यथा- सर्वेऽपिजीवा दुःखद्विषः सुखलिप्सवस्तेनहन्तव्या इत्यादि। तदेवं पूर्वोक्तं दण्डनादिकं सप्रतिषेधंभणनीयं यावत्संसारकान्तारमचिरेणैव ते व्यति-क्रमिष्यन्तीति।।८३।। सूत्र०२ श्रु०२० "अविहिंसामेव पव्वए, अणुधम्मो मुणिणा पवेदिओ।" सूत्र०२ श्रु०२ अ०१ उ०॥ (14) यद्येकान्तेन नित्येऽनित्ये चाऽऽत्मनि हिंसादयो न घटन्ते, तर्हि क्व घटन्ते ? इत्यत आह - नित्यानित्ये तथा देहाद्, भिन्नाभिन्ने च तत्त्वतः। घटन्ते चात्मनि न्यायाद्, हिंसादीन्यविरोधतः||१|| नित्यश्चाऽसावनित्यश्चेति नित्यानित्ये, तत्र नित्याऽनित्ये आत्मन्यभ्युपगम्यमाने हिंसादीनि, घटन्ते इति संबन्धः। न हि एकान्तेन नित्यमनित्यं वा वस्तु किमपि कस्याऽपि कार्यस्य करणक्षमम्। तथाहिमृत्पिण्डस्य कार्य घटो न भवति, एकरूपत्वेनाऽनतिक्रान्तमृत्पिण्डभावत्वात्, मृत्पिण्डवत्। मृत्पिण्डस्याऽतिक्रमे चाऽनित्यत्वप्राप्तेः। तथामृत्पिण्डस्य कार्य घटो न भवति, सर्वथैवाऽनुगमाऽभावेनाऽनतिक्रान्तमृत्पिण्डत्व-लक्षणपर्यायत्वात्, पटवत्। मृत्पिण्डत्वलक्षणपर्यायाऽतिक्रमाऽभ्युपगमे वाऽनुयायित्वेन नित्यत्वं वस्तुनः स्यादिति / आह च-घटः कार्यं न, पिण्डभावाऽनतिक्रमात्, पिण्डवत्घटवच्चेति। स्यात् क्षयित्वादिरन्यथा / तदेवं नित्यानित्यमेव वस्तु कार्यकरणक्षममिति। ननु नित्यानित्यत्वधर्मयोर्विरुद्धत्वात् कथमेकाऽधिकरणत्वम् / अत्रोच्यते- यथाज्ञानस्य भ्रान्ताऽभ्रान्तत्वे परमा-ऽर्थसंव्यवहाराऽपेक्षया न विरुद्ध, एवं द्रव्यतो नित्यत्वं, पर्याय-तश्चाऽनित्यत्वं न विरुद्धम्।नच द्रव्यपर्याययोः परस्परं भेदः, यतो यदेव वस्त्वनपेक्षितविशिष्टरूपं द्रव्यमिति व्यपदिश्यते, तदेवा-उपेक्षितविशिष्टरूपं पर्याय इति। तथेति वाक्यान्तरोपक्षेपार्थः / देहाच्छरीरात। किमित्याह-भिन्नो व्यतिरिक्तः, स चाऽसावभिन्नश्च व्यतिरेकी भिन्नाऽभिन्नः, तत्र भिन्नाभिन्न एव च जीवः, शरीरात् तस्यैवोपलभ्यमानत्वात्। तथाहि- जीवस्यामूर्तत्वाद् देहस्य च मूर्तत्वात् मूर्ताऽमूर्तयोश्चाऽत्यन्तविलक्षणत्वाद्भेदः / तयोर्देहस्पर्शने च जीवस्य वेदनोत्पत्तेरभेदश्चेति। आह च- जीवसरीराण पिहु, भेयाभेओ तहोवलंभाओ। मुत्तामुत्तत्तणओ, छिकम्मिय वेयणाओ य // 1 // सर्वथा भेदे हि शरीरकृतकर्मणो भवान्तरेऽनुभवाऽनुपपत्तिः स्यात्। अभेदे च परलोकहानिः, शरीरनाशे जीवनाशादिति / चशब्दोऽनुक्तसमुच्चये। ततश्च सदसतीत्यादि अपि द्रष्टव्यम्। आह च- "संतस्स सरूवेणं, तहा विरूवे असंतस्स। हंदि विसिट्टत्तणओ, होति विसिट्ठा सुहाईआ" // 1 // या विशिष्टाः प्रतिप्राणिवेद्याः। तत्त्वत इति परमार्थतः, नित्याऽनित्यादौ, न पुनः कल्पनया, पारमार्थिकत्वं च नित्याऽनित्यत्वादीनां दर्शितमेव / घटन्ते युज्यन्ते, आत्मनि जीवे, न्यायात् परिणामिस्वरूपस्याऽऽत्मनोऽपरापरपर्यायसंपदुप-पत्तिलक्षणया नीत्या, हिंसादीनि आश्रवसंवरबन्धमोक्षसुखादीनि। कथमित्याह-अविरोधतः अविरोधेन, एकान्तपक्षे ये हिंसादिष्वभ्यु-पगम्यमानेषु विरोधा दर्शिताः, तत्परिहारेणेति भाव इति // 1 // (15) आत्मनः परिणामित्वे हिंसाया अविरोधदर्शनायाऽऽहपीडाकर्तृत्वयोगेन, देहव्यापत्त्यपेक्षया। तथा हन्मीति संक्लेशाद, हिंसैषा सनिबन्धना / / 2 / / पीडा दुःखवेदना, तस्याः कर्ता विधाता, तद्भावः पीडाकर्तृत्वं, तस्य तेन वा योगः संबन्धः, तेन पीडाकर्तृत्वयोगेन। तथा- देहस्य शरीरस्य, व्यापत्तिर्विनाशो देहव्यापत्तिः, तस्या अपेक्षा निश्रा देहव्यापत्त्यपेक्षा, तया। तथेति निबन्धनान्तरसमुचये / हन्मि मारयामि, प्राणिनमित्येवरूपात्संक्लेशाचित्तकालुष्यात, हिंसा प्राणव्यपरोपणा, या परिणामवादिभिरभ्युपगतेति गम्यम् / एषा इयं हिंसा, सनिबन्धना सनिमित्ता / परिणामवादे हि पीडकस्य पीडनीयस्य च परिणामित्वात् पीडाकर्तृत्वमुपपद्यते / देहविनाश-संक्लेशौ च एकान्तवादे तु पीडाकर्तृत्वादीनां पूर्वोक्तन्यायेना-ऽयुज्यमानत्वात् हिंसा निर्निबन्धनेति / यथोच्यते-नाशहेतुना देहाद भिन्नो नाशः क्रियतेऽभिन्नो वा? यदि भिन्नः, तदा देहस्य तादवस्थ्यं स्यात्। अथाऽभिन्नः, तदा देह एव कृतो भवतीति / तदयुक्तम्। अभिन्ननाशकरणे हि वस्तुनाशितमेव भवति, नकतं, यथा भिन्नोत्पादकरणे उत्पादितमेव भवतीति. अनेन च श्लोकेन स्थानान्तरप्रसिद्धस्विविधोवधो निर्दिष्टः / तथा च-तप्पज्जाय-विणासो, दुक्खुप्पाओ य संकिलेसो य / एस वहो जिणभणिओ, वजेयव्यो पयत्तेण / / 1 / / नन्वस्माद् घातकाद् मरणमनेन देहिना प्राप्तव्यमित्येवंफलात्, स्वकृत कर्मणोवशाद् हिंसा भवत्यन्यथा वा ? यदि आद्यः पक्षः, तदा हिंसकस्याऽहिंसकत्वमेव, स्वकर्म-कृतत्वात् हिंसायाः, पुरुषान्तरकृतहिंसायामिव तथा कर्म- निर्जराहेतुत्येन हिंसकस्य वैयावृत्त्यकरस्येव कर्मक्षयाऽवाप्तिलक्षणो गुणः स्यात् / अथाऽन्यथेति पक्षः, तदा निर्विशेषत्वात्सर्व हिंसनीयं स्यात्।।२।। (16) तथा स्वर्गसुखादयोऽपि स्वकृतकर्मानापादिता एव स्युरिति कर्माभ्युपगमोऽनर्थक इत्येवमार्हतानामपि हिंसाया असंभव एवेत्याशब्याह - हिंस्यकर्मविपाकेऽपि, निमितत्वनियोगतः। हिंसकस्य भवेदेषा, दुष्टाऽदुष्टाऽनुबन्धतः / / 3 / / हिंस्यते मार्यते इति हिंस्यः, तस्य यत्कर्म, तस्य विपाक उदयो हिंस्यकर्मविपाकः, तत्रापि हिंस्यकर्मविपाकरूपत्वे हिंसायाः, आस्तां हिंस्यकर्मविपाकाभावकल्पनायां, निमित्तत्वस्य निमित्तकारणभावस्य नियोगोऽवश्यंभावो निमित्तत्वनियोगतः, हिंसकस्य व्यापादकस्य, भवेत् जायेत / एषा हिंसा / अयमभिप्रायः - यद्यपि प्रधानहेतुभावेन कर्मोदयाद् हिंस्यस्य हिंसा भवति, तथाऽपि

Page Navigation
1 ... 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078