Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अहिंसा 882 - अभिधानराजेन्द्रः-विभाग 1 अहिंसा हिंसकस्य तस्यां निमित्ताभावेनोपयुज्यमानत्वात् तस्याऽसौ भवतीत्युच्यते / न च वाच्यं हिंस्यकर्मणैव हिंसकस्य हिंसायां प्रेरितत्वात्तस्य न दोष इति / अभिमरादेः परप्रेरितस्यापि लोके दोषदर्शनादिति / ननु यदि निमित्तभावेऽपि हिंसा स्यादितीष्यते / तदा वैद्यादीनामपि तत्प्रसङ्गः / सत्यम्, केवलं सा तेषां न, दुष्टाऽदुष्टाऽभिसंधित्वात् / एतदेव व्यतिरेकेणाऽऽह - दुष्टा दोषवती कर्मबन्धनिबन्धनत्वाद् दुष्टाऽनुबन्धतो दुष्टचित्ता-ऽभिसंधर्भवति / यदाह - जो उपमत्तो पुरिसो, तस्स उ जोगं पडुच जे सत्ता / वावजंती नियमा, तेसिं सो हिंसओ होइ / / 1 / न तु शुभाऽभिसंधेः। यदाह-जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स। सो होइ निज्जरफला, अज्झत्थविसोहिजत्तस्स ||1|| एतेन च यदुक्तं वैयावृत्त्यकरस्येव हिंसकस्य कर्मनिर्जरण-सहायत्वात् निर्जरालाभ इति। तदपि परिहतम्। यतो न हिंसको वैयावृत्त्यकरवचनाऽभिसन्धिः / शेषं त्वनभ्युपगमात् निरस्तमिति / अधिकृतश्लोकाऽर्थसंवादिनी / चेयं गाथा - नियकयकम्मुव-भोगे, विसंकिलेसो धुवं वहंतस्स। तत्तो बंधो तं खलु, तव्विरईए विवज ति // 1 // एवं परिणामिन्यात्मनि हिंसायाः संभवमाविर्भाव्याऽहिंसायास्तमाहततः सदुपदेशादेः, क्लिष्टकर्मवियोगतः। शुभभावानुबन्धेन, हन्तास्या विरतिर्भवेत्॥५॥ यतः परिणामिन्यात्मनि हिंसाघटते ततस्तस्माद् हिंसाघटनात्, अस्या विरतिर्भवेदिति योगः। सतां ज्ञानगुरुणां जिनादीनामुपदेशो हिंसाहिंसयोः स्वरूपफलादिप्रतिपादनं सदुपदेशः, सतां वा भावानामुपदेशः, सन्था शोभन उपदेशः, स आदिर्यस्य स तथा, तस्मात्, आदिशब्दात् ज्ञानश्रद्धानपरिग्रहोऽभ्युत्थानादिपरिग्रहो वा। आहच- अन्भुट्ठाणे विणए, परक्कमे साहुसेवणाएयासम्म-इंसणलंभो, विरयाविरई य विरईय॥१॥ तथा-क्लिष्टकर्मणां दीर्घस्थितिकज्ञानावरणादीनां, वियोगः क्षयोपशमः, तस्मात् क्लिष्टकर्मवियोगात्। आह च - सत्तण्हं पयडीणं,अभितरओ य कोडिकोडीए / काऊण सागराणं, जई लहइ चउण्हमन्नयरं / / 1 / / शुभभावाऽनुबन्धेन प्रशस्ताऽध्यवसायाऽव्यवच्छेदेन, इत्येवंकारणपरम्परया हन्तेति प्रत्यवधारणार्थः, कोमलाऽऽमन्त्रणार्थों वा। अस्याः परिणाम्यात्महिंसायाः, विरतिर्निवृत्तिर्भवेत् जायेत, घटत इत्यर्थः / / 4 / / ततः किं जातमित्याह - अहिंसैषा मता मुख्या, स्वर्गमोक्षप्रसाधनी। एतत्संरक्षणार्थं च,न्याय्यं सत्यादिपालनम्।।५।। अहिंसा अव्यापादनम्, एषाअनन्तरोक्तोपपत्तिका हिंसाविरतिः, मता इष्टा विदुषां, मुख्या निरुपचरिता। इयं च प्रासङ्गिक-प्रधानफलापेक्षया क्रमेण स्वर्गमोक्षप्रसाधनी देवलोकनिर्वाण- हेतुभूता / अथैतस्या एवं स्वर्गादिसाधनत्वात् किं सत्यादि- पालनेनेत्याशङ्क्याऽऽहएतत्संरक्षणार्थमनन्तरोदिताऽहिंसाव्रतपरित्राणाऽर्थम्, चशब्दः पुनरर्थोऽवधारणाऽर्थो वा / न्याय्यं न्यायादनपेतम्, उपपन्नमित्यर्थः / सत्यादिपालनं मृषावादादि-निवृत्तिनिर्वाहणम्, अहिंसासस्यसंरक्षणे वृत्तिकल्पत्वात् सत्यादि-व्रतानामिति / / 5 / / (17) अथ पूर्वोक्तस्याऽऽत्मनो नित्यानित्यत्वस्य देहाद् भिन्नाऽभिन्नत्वस्य च साधने प्रमाणोपदर्शनायाऽऽहस्मरणप्रत्यभिज्ञान-देहसंस्पर्शवेदनात्। अस्य नित्यादिसिद्धिश्च, तथा लोकप्रसिद्धितः॥६॥ स्मरणं पूर्वोपलब्धार्थाऽनुस्मृतिः, प्रत्यभिज्ञानं सोऽयमित्येवंरूपः प्रत्यवमर्शः, तथा देहस्य शरीरस्य संस्पर्शो वस्त्वन्तरेण स्पर्शनं, तस्य वेदनमनुभवनं, देहसंस्पर्शेन वा वेदनं स्पर्शनीयवस्तुपरिज्ञानं देह संस्पर्शवेदनमिति / पदत्रयस्याऽस्य समाहारद्वन्द्वः, तस्माद् अस्याऽऽत्मनो, नित्यादिसिद्धिः नित्याऽनित्यत्वदेहाद् भिन्नाऽभिन्नत्वप्रतिष्ठा, चशब्दः, पुनः शब्दार्थः / नित्यानित्यत्यादि-विशेषणे आत्मन्यहिंसादिसिद्धिः, नित्याऽनित्यत्वादिसिद्धिः पुनः स्मरणादेरिति भावः / प्रयोगश्चाऽत्रनित्यानित्य आत्मा, स्वयंनिहितद्रव्याऽऽदिसंस्मरणाऽन्यथाऽनुपपत्तेः / तथाहि- न तावद् एकान्तनित्ये स्मरणसंभवः, तस्यैकरूपतयाऽनुभवस्यैव स्पष्टरूपेणाऽनुवर्तनात्, इतरथा नित्यताहानेः, नाऽप्यनित्यत्वे स्मरणसंभवोऽनुभवकालाऽनन्तरक्षण एव कर्तुर्विनष्टत्वात् कस्य स्मरणमस्तु ? न हि अन्येनाऽनुभूतमन्यः स्मरति / अथा-ऽनुभवक्षणसंस्कारात् तथाविधः स्मरणक्षणः समुत्पद्यते। नैवम् / यतोऽनुगमलेशेनापि वर्जितानामत्यन्तविलक्षणानामसंख्येय-क्षणानामतिक्रमे जायमानस्य स्मरणक्षणस्य पूर्वकालीना-ऽनुभवक्षणसंस्कारो यदि परं श्रद्धानगम्यो न युक्ति प्रत्याय्यः, प्राक्तनाऽनुभवक्षणस्य चिरतरनष्टत्वात्, अपान्तरालक्षणेषु च संस्कारलेशस्याऽप्यनुपलब्धेः सहसैवाऽनन्तरक्षणस्य विलक्षणस्मरणक्षणोत्पादोपलब्धेरिति / परिणामपक्षे तु प्राक्तनानुभवक्षणेनाऽऽहितसंस्कारानुगमवत् तत्क्षणप्रवाहरूपात् नानाविधधर्मसमुदयस्वभावादात्मनः सकाशात् स्मरणक्षणोत्पादो युक्ति-युक्त इति / न च वाच्यमपान्तरालक्षणेष्वनुभवसंस्कारो नोपलभ्यत इति, कथं तत्सत्तेति नि/जत्वेन स्मरणस्याऽनुपपत्तिप्रसङ्गादिति / तथा- नित्याऽनित्य आत्मा, प्रत्यभिज्ञानान्यथानुपपत्तेः / तथाहि- एकान्तनित्यत्वेऽनुभवस्यैव साक्षादनुवृत्तेर्न प्रत्यभिज्ञानसंभवः / अनित्यत्वे तु अनित्यत्वादेव पूर्वद्रष्टुः पूर्वदृष्टवस्तुनश्च नष्टत्वा-दपूर्वयोश्चोत्पन्नत्वात्न प्रत्यभिज्ञानसंभवः / न चाऽदृष्टवतोऽदृष्टे प्रत्यभिज्ञानमस्ति, तथा अप्रतीतेरिति / अथ ब्रूषे- लूनपुनर्जात-केशादिष्वपि प्रत्यभिज्ञानमस्तीति ग्राह्यं प्रति तस्य व्यभिचारि-त्वेनाऽप्रमाणतया सर्वत्राऽप्रामाण्यम् / नैवम् / प्रत्यक्षस्याऽपि क्वचिद् व्यभिचारात् सर्वाऽप्रामाण्यप्रसङ्गादिति / तथा देहाद् भिन्नाऽभिन्न आत्मा, स्पर्शवदनाऽन्यथाऽनुपपत्तेः / तथाहि- यद्यसौ देहाद्भिन्नो भवेत्, तदा देहेनस्पृष्टस्य वस्तुनोन संवेदनं स्याद्, देवदत्तस्पृष्टवस्तुन इव यज्ञदत्तस्य न / अथाऽभिन्नो, देहमात्रत्वेन तस्य परलोकाऽभावप्रसङ्गादवयवाऽन्तरहानौ चैतन्यहानि-प्रसङ्गाच्चेति / तथेति समुचये / लोकप्रसिद्धितो जनप्रतीतेर्नित्या-ऽनित्यमात्मादिवस्त्विति गम्यते / यतस्तदेवं वस्त्वेवं परिणत- मिति वदन् वस्तुत्वाविच्छित्तिमवस्थाऽन्तरापत्तिं च प्रतिपद्यमानो जनो लक्ष्यते / न च लोकप्रतीतिविरुद्धमर्थमुपकल्पयन् प्रमाणं प्रमाणताभासादयतीति // 6|| (18) आत्मनो विभुत्वे पूर्वं दोष उक्तोऽथाऽसगतत्वेऽस्य गुणमाह - देहमात्रे च सत्यस्मिन, स्यात्, संकोचादिधर्मिणि। धर्मादेवंगत्यादि, यथार्थं सर्वमेव तु // 7 // देह एव शरीरमेव मात्रं परिमाणं यस्य स देहमात्रः, तस्मिन् देहमात्रे / देहमात्रता चास्य देह एव तद्गुणोपलब्धेः। चशब्दः पुनरर्थः / नित्यानित्यादिधर्मके आत्मनि हिंसादिरुपपद्यते, देहमात्रे पुनः सति

Page Navigation
1 ... 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078