Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ अहिंसा 878- अभिधानराजेन्द्रः - विभाग 1 अहिंसा शारीरमानसपीडोत्पादनतो, नाऽपद्रावयितव्याः प्राणव्यपरोपणतः / आचा०१ श्रु०४ अ०१ उ०॥ (8) वैदिकहिंसाविचार:अप्रमत्तस्य योगनिबन्धनप्राणव्यपरोपणस्य अहिंसात्वप्रति-पादनार्थं 'हिंसातो धर्मः' इति वचनं, रागद्वेषमाह- योगनिबन्धनस्य प्राणव्यपरोपणस्य दुःखसंवेदनीयफलनिर्वर्तकत्वेन हिंसात्वोपपत्तेः, अत एव वैदिकहिंसाया अपि तन्निमित्त-त्वेऽपायहेतुत्वमन्यहिंसावत् प्रसक्तम्, न च तस्या अतन्नि- मित्तत्वं, 'चित्रया यजेत पशुकामः' इति तृष्णानिमित्तश्रवणात्। न चैवंविधस्य वाक्यस्य प्रमाणताऽप्युपपत्तिमती, तत्प्राप्तिनिमित्ततद्धिंसोपदेशकत्वात्, तृष्णादिवृद्धिनिमित्ततदन्यतद्विघातोपदेशवाक्यवत्। नचाऽपौरुषेये प्रामाण्यम्, तस्य निषिद्धत्वात्। न च पुरुषप्रणीतस्य हिंसाविधायकस्य तस्य प्रामाण्यम् / ब्राह्मणो हन्तव्य इति वाक्यवत् / न च वेदविहितत्वात् तद्धिंसाया अहिंसात्वम्, प्रकृतहिंसाया अपि तथोपपत्तेः / न च 'ब्राह्मणो न हन्तव्यः, इति तद्वाक्यबाधितत्वात्, न प्रकृतहिंसायास्तद्विहितत्वम् / 'न च हिंस्रो भवेत्' इति वेदवाक्यबाधितचित्रादियजनवाक्यविहितहिंसावत् प्रकृतहिंसायाः तद्विहितत्वोपपत्तेः / अथ ब्राह्मणो हन्तव्य इतिवाक्यं न क्वचिद्वेदे श्रूयते। न उच्छिन्नाऽनेकशाखानां तत्राऽभ्युपगमात्। तथाच 'सहस्रवमा सामवेदः' इत्यादिश्रुतिः। अथ यज्ञादन्यत्र हिंसा-प्रतिषेधः, तत्र च तद्विधानम् / यथा चाऽन्यत्र हिंसाऽपायहेतु-रित्यागमात् सिद्ध, तथा ततएव तत्र स्वर्गहतुरित्यपि सिद्धम्।नच यदेकदैकत्राऽपायहेतुत्वेन सर्वशास्त्रेषु प्रसिद्धेः तृष्णादिनिमित्ता च प्रकृतहिंसेति प्रतिपादितत्वात्, नयन्निमित्तत्वेन यत्प्रसिद्धं, तत्फलान्तरार्थित्वेन विधीयमानमौत्सर्गिक दोषं न निर्वर्तयति / यथाऽऽयुर्वेदप्रसिद्धं दाहादिकं रोगनाशार्थतया विधीयमानं निमित्तं दुःखं क्लिष्टसंबद्धहेतुतया च मखविधानादन्यत्र हिंसादिकं शास्त्रे प्रसिद्धमिति, सप्ततन्तावपि तद्विधीयमानं काम्यमानफलसद्-भावेऽपि तत्कर्मनिमित्तं, तद् भवत्येव। न च हिंसातः स्वर्गादि-सुखप्राप्ता वस्तुनिर्वर्तकक्लिष्टकर्महेतुताऽसंगता, नरेश्वराऽऽराधननिमित्तब्राह्मणादिवधाऽनन्तरावाप्तग्रामादिलाभजनितसुख-संप्राप्ती तद्वदस्याऽपि तथात्वोपपत्तेः / अथ ग्रामादिलाभो ब्राह्मणादिवधनिर्वर्तितादृष्टनिमित्तो न भवति, तर्हि स्वर्गादिप्राप्तिरप्यध्वरविहिताहिंसानिर्वर्तिता न भवतीति समानम् / अथाऽश्वमेधादावलभ्यमानानां छागादीनां स्वर्गप्राप्तेर्न तद्धिंसेति, तर्हि संसारमोचकविरचिताऽपि न एव हिंसा स्यात्, देवतोद्देशतो म्लेच्छादिविरचिता च ब्राह्मणगवादिहिंसा चन हिंसा स्यात्। अथ तदागमस्या-ऽप्रमाणत्वात्, न तदुपदेशजनिता हिंसा अहिंसा। ननु वेदस्य कुतः प्रामाण्यसिद्धिः? न गुरुवत् पुरुषप्रणीतत्वात्, परैस्तस्य तथाऽनभ्युपगमात् / नाऽपौरुषेयत्वात्, तस्याऽसंभवात्। तत्र प्रदर्शिताभिप्रायो हिन हिंसातो धर्माऽऽवाप्तिर्युक्ता, परम-प्रकर्षाऽवस्थज्ञानत्वात् नाऽऽत्मकमुक्तिमार्गस्य दीक्षाशब्देना-ऽभिधाने दीक्षातो मुक्तिरुपपन्नैव, अविकलकारणस्य कार्यनिर्वर्तकत्वात्, अन्यथा कारणत्वायोगात् / तत्र तद्भक्तयुपादानाऽर्थं चैवमभिधानाददोषात् / न हि तद्भक्त यभावे उपादेयफलप्राप्तिनिमित्तसम्याज्ञानादिपुष्टिनिमित्तदीक्षाप्रवृत्तिप्रवणो भवेत्, तत् नाऽन्यपरत्वं प्रदर्शितवचसामभ्युपगन्तव्यम्। तथाऽभ्युपगमे वाऽनाप्तत्वं वेदानां प्रसज्येत, तत्र पूर्वोक्तदोषाऽनतिवृत्तेः / सम्म० 3 काण्ड, गाथा 158 / न हिंस्यात् सर्वभूतानि, स्थावराणि चराणि च / आत्मवत्सर्वभूतानि, यः पश्यति स धार्मिकः ||1 / / अनु०। उपदेशमाहउरालं जगतो जोग, विवज्जासं पलिंति य। सव्वे अकंतदुक्खाय, अओ सव्वेअहिंसिता || (उरालमिति) स्थूलमुदारं, जगत औदारिकजन्तुग्रामस्य, योगं व्यापारं, चेष्टामवस्थाविशेषमित्यर्थः / औदारिकशरीरिणो हि जन्तवः प्राक्तनादवस्थाविशेषाद् गर्भकललाऽर्बुदरूपाद् विपर्यासभूतं बालकौमारयौवनादिकमुदारं योग परि समन्ताद् अयन्ते गच्छन्ति पर्ययन्ते। एतदुक्तं भवति - औदारिकशरीरिणो हि मनुष्यादेबील-कौमारादिकः कालादिकृतोऽवस्थाविशेषोऽन्यथा चाऽन्यथाभवन् प्रत्यक्षेणैव लभ्यते, न पुनर्यादृक् प्राक् तादृगेव सर्वदति / एवं सर्वेषां स्थावरजङ्गमानामन्यथाऽन्यथा च भवनं द्रष्टव्यमिति। अपिच-सर्वे जन्तवः,आक्रान्ता अभिभूताः, दुःखेन शारीरमानसेनाऽसातोदयेन दुःखाक्रान्ताः सन्तोऽन्यथाऽवस्थाभाजो लभ्यन्ते, अतः सर्वेऽपि ते यथाऽहिंसिता भवन्ति, तथा विधेयम्। यदिवा सर्वेऽपि जन्तवोऽकान्तमनभिमतं दुःखं येषां तेऽकान्तदुःखाः, चशब्दात् प्रियसुखाश्च ते, तान् सर्वान् न हिंस्यादित्यनेन वाऽन्यथात्वदृष्टान्तो दर्शितो भवत्युपदेशश्वदत्त इति // 6 // (6) किमर्थं सत्वान्न हिंस्याद् ? इत्याह - एवं खु नाणिणो सारं, जन्न हिंसइ किंचण / अहिंसासमया चेव, एतावंतं वियाणिया ||10|| (एवं खुइत्यादि) खुरवधारणे। एतदेव, ज्ञानिनो विशिष्ट-विवेकवतः, सारं न्याय्यं , यत्किञ्चन प्राणिजातं स्थावरं जङ्गमं वा, न हिनस्ति, न परितापयति। उपलक्षणं चैतत्- तेन न मृषा ब्रूयात्, नाऽदत्तं गृह्णीयात्, नाऽब्रह्माऽऽसेवेत, न परिग्रहं परिगृह्णीयात्, ननक्तं भुञ्जीतेत्येवं ज्ञानिनः सारं यत्र कर्माऽऽश्रवेषु वर्तत इति / अपि च- अहिंसया समता अहिंसासमता, तां चैतावद्विजानीयातायथा-मम मरणंदःखं वाऽप्रियम. एवमन्यस्याऽपि प्राणिलोकस्येति / एवकारोऽवधारणे। इत्येवं साधुना ज्ञानवता, प्राणिनां परितापना-ऽपद्रावणादि वा न विधेयमेवेति / / 10 / / सूत्र०१ श्रु०१अ०४ उ०। (10) तत्राऽहिंसाप्रसिद्ध्यर्थमाहपुढवीआउगणिवाऊ, तणरुक्खसबीयगा। अंडया पोयजराऊ, रससंसेयउब्भिया|||| (पुढवी आउ इत्यादि) तत्र पृथिवीकायिकाः सूक्ष्मबादरपर्याप्तकाऽपप्तिकभेदभिन्नाः, तथाऽप्रकायिका अग्निकायिकाः वायुकायिकाश्चैवंभूता एव। वनस्पतिकायिकान्लेशतः सभेदानाह-तृणानि कुशवञ्चकादीनि, वृक्षाः, चूताऽशोकादिकाः, सह बीजैर्वन्ति इति सबीजानि तु शालिगोधूमयवादीनि, एते एकेन्द्रियाः पञ्चाऽपि कायाः / षष्ठत्रसकायनिरूपणायाऽऽहअण्डजाः शकुनिगृहकोकिलकसरीसृपादयः / तथा-पोता एव पोतजा हस्तिशरभादयः / तथा- जरायुजा ये जम्बालवेष्टिताः समुत्पद्यन्ते गोमनुष्यादयः / तथा रसात् दधिसौवीरकादेर्जाता रसजाः, तथा- संस्वेदाजाताः संस्वेदजा यूकामत्कुणादयः। उद्भिजाः खञ्जरीटकदर्दुरादय इति। अज्ञातभेदा हि दुःखेन रक्ष्यन्त इत्यतो भेदेनोपन्यास इति। एतेहिं छएहिं काएहिं, तं विशं परिजाणिया।

Page Navigation
1 ... 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078