Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1052
________________ अहालंद ८६८-अभियानराजेन्द्रः-विभाग 1 अहालंद ऋतुबद्धे काले एकस्यां वसतौ पञ्चकं पञ्च दिवसानि यावदवतिष्ठन्ते। वर्षासुपुनश्चतुरो मासान्यावदेकस्यां वसतौ तिष्ठन्ति। ग्रामे षट् | वीथीः कुर्वन्ति / अयमर्थः- यथालन्दिका गृहपतिरूपाभिः षभिर्वीथीभिग्राम परिकल्पयन्ति / एकैकस्यां च वीथ्यां पञ्च पञ्च दिवसानि भिक्षा पर्यटन्ति / तत्रैव च वसतिं विदधति / उक्तं च पञ्चकल्पचूर्णी - "छठभागेगामो कीरइ, एगेगो पंचदिवसं भिक्खं हिंडंति, तत्थेव वसंति वासासु एगत्थ चउम्मासो त्ति" / तासु च वीथीषु दिवसे दिवसे नियमतोऽन्यामन्यां भिक्षामटन्ति, उद्धृटत्तादिभिक्षा पञ्चकमध्यादेकस्मिन् दिवसे यां भिक्षामटन्ति, न पुनर्द्वितीयेऽपि दिने तामेवाटन्ति, किन्त्वन्यामन्यामिति भावः। इत्थं तावदस्माभिर्व्याख्यातं, सुधिया तु समयाविरोधेनान्यथाऽपि व्याख्येयमिति। अथ सूत्रनानात्वं निर्दिदिक्षुर्यथालन्दिकभेदानेवाहपडिबद्धा इयरे विय, इक्किक्का ते जिणा यथेराय। अत्थस्स उदेसम्मिय, असमत्ते तेसि पडिबंधो॥६२६।। यथालन्दिका द्विविधाः- गच्छप्रतिबद्धाः, इतरे च गच्छाप्रतिबद्धाः। ते पुनरेकैकशो द्विभेदाः-जिनकल्पिकाः स्थविरकल्पि-काश्च / तत्र यथालन्दिककल्पपरिसमाप्त्यनन्तरं ये जिनकल्पं प्रतिपत्स्यन्ते ते जिनकल्पिकाः, ये तु स्थविर-कल्पमेवाश्रयिष्यन्ति ते स्थविरकल्पिकाः / इह च ये गच्छे प्रति-बद्धास्तेषां प्रतिबन्धो अनेन कारणेन भवति-(अत्थस्सेत्यादि) अर्थस्यैव, न सूत्रस्य, देश एकदेशोऽद्याप्यसमाप्तो, न गुरुसमीपे परिपूर्णो गृहीत इति तद्ग्रहणाय गच्छेप्रतिबन्धः, तेषां तस्यावश्यं गुरुसमीपे ग्रहीष्यमाणत्वादिति। अथपरिपूर्ण सूत्रार्थ गुरुसमीपे गृहीत्वैव कथं कल्पंन प्रतिपद्यन्त इत्याहलग्गाइसुत्तरंते, तोपडिवजित्तु खेत्तवाहिठिआ। गिण्हंति, जं अगाहिथं, तत्थ य गंतूण आयरिओ।।६२७|| तेसिं तयं पयच्छइ,खेत्तं इंताण तेसिमे दोसा। वंदंतमवंदंते, लोगम्मी होइ परिवाओ // 628|| न तरेज जई रातुं, आयरिओ ताहि एइ सो चेव। अतंरपल्लि पडिवस-भगामवसहिंय वसहि वा।।६२६॥ तीए य अपरिभोगे, ते वंदंते न वंदई सो उ। तं घेत्तुमपडिबद्धा, ताहि जहिज्छाएँ विहरंति॥६३०|| लग्रादिषु त्वरमाणेषु शुभेषु लग्नयोगचन्द्रबलादिषु झगित्यागतेषु सत्सु अन्येषु च लग्नादिषुदूरकालवर्तिषुनतथा भव्येषु वा गृहीतापरिपूर्णसूत्रार्था अपि लग्रादिभव्यतया कल्पं प्रतिपद्यन्ते / ततः प्रतिपद्य तं कल्पं गच्छानिर्गत्य गुधिष्ठितात् क्षेत्रग्रामन-गरादेर्बहिर्दूरदेशे स्थिता विशिष्टतरनिष्ठुरनिखिलनिजानुष्ठाननिरता गृह्णन्ति यदगृहीतमनधीतमर्थजातं, तत्र चायं विधिः- यदुत आचार्यः स्वयं तत्र गत्वा तेभ्यो यथालन्दिकेभ्यः (तयं ति) तमर्थं शेषं प्रयच्छति ददाति / अथ त एवाचार्यसमीपभागत्य किमिति तमर्थशेषं न गृह्णन्तीत्याह-(खेत्तं इंताणेत्यादि) क्षेत्रमध्यं समागच्छतां तेषां यथालन्दिकानाम् , एते वक्ष्यमाणा दोषाः। तथाहि- वन्दमानेषु गच्छवासिषु साधुषु, अवन्दमानेषु च कल्पस्थितेषु लोकमध्ये परिवादो निन्दा भवति / तथाहि - यथालन्दिकानां कल्पस्थित्यैव आचार्य मुक्त्वा अन्यस्य साधोः प्रणाम कर्तुं न कल्पते, गच्छसाधवश्च महान्तोऽपि तान् वन्दन्ते, ततो लोको वदेत,-यथा दुष्टशीला निर्गुणाश्च एते, येन अन्यान् साधून वन्दमानानपि न व्याहरन्ति, न वन्दन्ति वा / गच्छ-संबन्धिसाधूनां वा उपरि भ्रष्टत्वाऽऽशङ्का भवेत्- अवश्यमेते दुःशीला निर्गुणाश्च, ये न वन्द्यन्ते, आत्मार्थिका वा एते, येन अप्रतिवन्दमानानपि वदन्ते इति / अथ यदि जङ्घाबलक्षीणतया तत्सकाशं गन्तुं (न तरेज त्ति) न शक्नुयात् / आचार्यस्तदा एति आगच्छति / क्वेत्याह- अन्तरपल्ली मूलक्षेत्रात् सार्द्धद्विगव्यूतिस्थं ग्रामविशेषं, यद्वा, प्रतिवृषभग्रामाद् मूलक्षेत्राद् द्विगव्यूतिस्थात् भिक्षाचर्याग्रामात्, अथ वा बहिर्मूलक्षेत्राद् मूलक्षेत्र एव वा अन्यवसति, वाशब्दात् मूलवसतिम् / इयमत्र भावना-यद्याचार्यो यथालन्दिकसमीपे गन्तुंन शक्नोति, तदा यस्तेषां यथालन्दिकानांमध्ये धारणकुशलः, सोऽन्तरपल्लीमागच्छति, आचार्यस्तु तत्र गत्वा अर्थ कथयति / अत्र पुनः साधुसंघाटको मूलक्षेत्राद् भक्तं पानं गृहीत्वा आचार्याय ददाति, स्वयमायार्चः सन्ध्यासमये मूलक्षेत्रमायाति / अथान्तरपल्लीमागन्तुंन शक्नोति, तदा अन्तरपल्ली-प्रतिवृषभग्रामयोरन्तराले गत्वा अर्थ कथयति तत्रापिगन्तुं शक्त्यभावे प्रतिवृषभग्रामे, तत्रापि गन्तुमशक्ते प्रतिवृषभग्राम-मूलक्षेत्रयोरन्तराले, तत्रापि गन्तुमसामर्थ्य मूलक्षेत्रस्यैव बहिर्विजने प्रदेशे, अथ तत्रापि गन्तुमसमर्थास्तदा मूलक्षेत्रमध्य एवाऽन्यस्यां वसतौ गत्वा, तत्रापि गमनशक्त्यभावे मूलवसतावेव प्रच्छन्न-माचार्यस्तस्मै यथालन्दिकायाअर्थशेष प्रयच्छतीति / उक्तं च कल्पचूर्णी- "आयरिए सुत्तपोरिसिं अत्थपोरिसिं च गच्छे नियाण दाउं अहालंदियाणं सगामं गंतुं, अत्थं सारेइ / अह न तरइ, दो वि पोरिसीओ दाउं गंतुं तो सुत्तपोरिसिं दाउं वचइ, अत्थपोरिसिं सीसेण दवावेइ / अत्थसुत्तपोरिसिं पि दातुं गंतुंन तरइ, तो दो विपोरिसीओ सीसेण वायावेइ अप्पणा अहालंदिए वाएइ। जइ न सकेइ आयरिओ खेत्तवसहिं अथालंदियसंगासं गंतुं, ताहे जो तेसिं अहालंदियाणं धारणाकुसलो, सो अंतरपल्लिआसन्ने खेत्तवसहिं एति, आयरियो तस्स गंतुं अत्थं कहति / एत्थ पुण संधाडो भत्तपाणं गहाय आयरियस्सनेइ, गुरू वेयालियं पडिए इति। एवं पि असमत्थे गुरू अंतरपल्लियाए पडिवसभगामस्स य अंतरावाएइत्ति। असति पडिवसभे वाएइ, असति पडिवसभस्स वासगामस्स य अंतरा वाएइत्ति, असति वसभगामस्स बहियाए वाएति।अतरते सम्गामे अन्नाए वसहीए, अतरंते एगवसहीए चेव अपरिभोगे उवासेवाएति इत्यादि। (तीए य अपरभोगो त्ति) तस्यां च मूलवसतावपरिभोगे तथाविधजनाकीर्णे स्थाने तेभ्योऽर्थशेष प्रयच्छतीति योगः ! तत्र च ये गच्छसाधवो महान्तोऽपि यथालन्दिकं वन्दते, स पुनर्यथालन्दिकस्तान् न वन्दत इति / एवं तमर्थशेष गृहीत्वा परिनिष्ठितप्रयोजनत्वाद् गच्छे अप्रतिबद्धाः सन्तो यथालन्दिका स्वेच्छया स्वकल्पानुरूपं विहरन्ति, निजकल्पं परिपालयन्ति इति / प्रव०७० द्वार। बृ०ध० विशे०| अथ जिनकल्पिकस्थविरकल्पिकभेदभिन्नानां परस्परं विशेषमाहजिणकप्पिया य तहियं, किं वि तिगच्छं पिते न कारिति / निप्पडिकम्मसरीरा, अवि अच्छिमलं पिनऽवणेति।६३१।। जिनकल्पिकाश्च यथालन्दिकाः, तदा कल्पकाले मारणा

Loading...

Page Navigation
1 ... 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078