Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1048
________________ अहाछंद 864- अभियानराजेन्द्रः-विभाग 1 अहाछंद उत्सूत्र नाम यत्तीर्थङ्करादिभिरनुपदिष्टम्, तत्र या सूरिपरम्परागता सामाचारी, यथा- नागिला रजोहरणमूर्ध्वमुखं कृत्वा कायोत्सर्ग कुर्वन्ति / चारणानां वन्दनके कथमपीत्युच्यते इत्यादि, साऽप्यङ्गेषूपाङ्गेषु नोपदिष्टत्यनुपदिष्टम् / सङ्केततोऽनुपदिष्टमाह स्वच्छन्देन स्वाभिप्रायेण विकल्पितं, स्वेच्छाकल्पितमित्यर्थः। अत एवाऽननुपाति। सिद्धान्तेन सहाऽघटमानकम् / न केवल-मूत्सूत्रमाचरन् प्रज्ञापयंश्च यथाच्छन्दः, किन्तु यः परतप्तिषु गृहस्थप्रयोजनेषु करणकारणानुमतिभिः प्रवृत्तः परतप्तिप्रवृत्तः / तथा 'मतंतिणो' नाम यः स्वल्पेऽपि केनचित्साधुनाsपराद्धेऽनवरत पुनस्तरुषन् आस्ते, अयमेवंरूपो यथाच्छन्दः। तथा - सच्छंदमतिविगप्पिय, किंची सुखसायविगइपडिबद्धो। तिहि गारवेहि मन्जइ, तं जाणाही अहाछंदं॥ स्वच्छन्दमतिविकल्पितं किञ्चित्कृतं तल्लोकाय प्रज्ञापयति, ततः प्रज्ञापनगुणेन लोकाद् विकृतीर्लभते, ताश्च विकृतीः परिभुञ्जानः स्वसुखमासादयति। तेनचसुखासादनेन तत्रैव रतिमातिष्ठति। तथाचाहसुखासादे सुखासादनविकृतौ च प्रतिबद्धः। तथा-तेन स्वच्छन्दमतिविकल्पितप्रज्ञापनेन लोकपूज्यो भवति, अभीष्टरसांश्चाऽऽहारान् / प्रतिलभते, वसत्यादिकं च विशिष्टमतः सभ्येभ्यो बहु मन्यते। तथाचाहत्रिभिः गौरवैर्ऋद्धिरससात-लक्षणैर्माद्यति य एवंभूतः, तं यथाच्छन्दो जानीहि। इह उत्सूत्रं प्ररूपयन्यथाच्छन्द उच्यते, तत उत्सूत्रप्र रूपणामेव भेदतः प्ररूपयतिअहछंदस्स परूवण, उस्सुत्ता दुविह होइ नायव्वा / चरणेसु गईसुं जा, तत्थ य चरणे इमा होति।। यथाच्छन्दसः प्ररूपणा उत्सूत्रा सूत्रादुत्तीर्णा द्विधा भवति ज्ञात-व्या। तद्यथा- चरणेषु चरणविषया, गतिषु गतिविषया। तत्र या चरणविषया, सा इयं वक्ष्यमाणा भवति। तामेवाहपडिलेहण मुहपोत्तिय, रयहरण निसेज पायमत्तए पट्टे। पडलाइचोल उण्णा-दसिया पडिलेहणापोत्ते॥ या मुखपोत्तिका मुखवस्त्रिका, सैव प्रतिलेखनी-पात्र-प्रत्युपेक्षया पात्रकेसरिका, किं द्वयोः परिग्रहेण ? अतिरिक्तो-पधिग्रहणेन संभवात्। तथा-(स्यहरणनिसेज त्ति) किं रजोहरणस्य द्वाभ्यां निषद्याभ्यां कर्तव्यम्, एका निषद्याऽस्तु ? (पायमत्तए त्ति) यदेव पात्रं तदेव मात्रक क्रियतां, मात्रकं वा पात्रम्, किं द्वयोः परिग्रहेण ? तथा-(पट्टत्ति) य एव पट्टचोलकः, स एव रात्रौ संस्तारकस्योत्तरपट्टः क्रियतां, किं पृथगुत्तरपट्टपरिग्रहेण ? तथा-(पडलाइं चोल त्ति) पटलानि किमिति पृथक् ध्रियन्ते, चोलपट्टएव भिक्षार्थ हिण्डमानेन द्विगुणस्त्रिगुणो वा कृत्वा / पटलकस्थाने निवेश्यताम् / (उण्णादसिय त्ति) रजोहरणस्य दशाः किमित्यूर्णामय्यः क्रियन्ते ? मौक्षिकाः क्रियत्तां, ता यूर्णामयीभ्यो मृदुतरा भवन्ति / तथा-(पडिलेहणापोत्ते त्ति) प्रतिलेखनावेलायामेकं पोतं प्रस्तार्य तस्योपरि समस्तवस्तुप्रेक्षणं कृत्वा तदनन्तरमुपाश्रयात् तद् बहिः प्रत्युपेक्षणीयम् / एवं हि महती जीवदया कृता इति। दंतच्छिन्नमलितं, हरियट्ठिय पसज्जणा य णितस्स। अणुवाइ-अणणुवाई परूवणा चरणमाईसुं॥ हस्तगताः पादगता वा नखाः प्रवृद्धाः दन्तैश्छेत्तव्याः, न नखरदनेन। नखरदनं हि ध्रियमाणमधिकरणं भवति / तथा-(अलिप्तमिति) पात्रमलिप्तं कर्तव्यम् , न पात्रं लेपनीयमिति भावः / पात्रलेपने बहुसंयमदोषसंभवात्। (हरियडिय त्ति) हरितप्रतिष्ठितं भक्तपानादिग्राह्य, तद्ग्रहणे हि तेषां हरित-कायजीवानां भारापहारः कृतो भवति। (पमजणा य नितस्स त्ति) यदि छन्ने जीवदयानिमित्तं प्रमार्जना क्रियते, ततो बहिरप्यच्छन्ने क्रियता, जीवदयापरिपालनरूपस्य निमितस्योभयत्रापि संभवात्। अक्षरघटना त्वेवम्- 'नितस्स' निर्गच्छतः प्रमार्जना भवतु, यथा वसतेरन्तरिति / एवं यथाच्छन्देन चरणेषु च प्ररूपणाऽनुपातिनी अनुसारिणी, अननुपातिनी च क्रियते। अथ किंस्वरूपाऽनुपातिनी ? इत्यनुपातिन्यननुपातिन्योः स्वरूपमाह - अणुवाइत्ती नजइ, जुत्तीरठियं खु भासए एसो। जं पुण सुत्तावेयं, तं होती अणणुवाति त्ति / / यद्भाषमाणः सन् यथाच्छन्दो ज्ञायते- यथा 'खु' निश्चितं युक्तिसङ्गतमेष भाषते, तदनुपातिप्ररूपणम्। यथा -यैव मुख-पोत्तिका, सैव प्रतिलेखनिका इत्यादि / यत्तु पुनर्भाष्यमाणं सूत्रापेतं सूत्रपरिभ्रष्ट तद्भवत्यननुपाति / यथा- चोलपट्टः पटलानि क्रियताम्, यधुपधिकापतनसंभवतो युक्त्यसङ्गततया प्रतिभासमानत्वात् / तत्र चरणे प्ररूपणमनुपात्यननुपाति चोक्तमिदं चाऽन्यद् द्रष्टव्यम्। तदेवाऽऽहसागारियादिपलियंकनिस्सेज्जासेवणाय गिहिमत्ते। निग्गंथिचेट्ठणाई,सेहो वा मा संकप्पस्स। सागारिकः शय्यातरस्तद्विषये ब्रूते- यथा शयातरपिण्डे गृह्यमाणेनास्ति दोषः,प्रत्युत गुणः, वसतिदानतो भक्तपानादि दानतश्च प्रभूततरनिर्जरासंभवात्, आदिशब्दात्स्थापनाकुलेष्वपि प्रविशतो नास्ति दोषः / (पलियंक त्ति) पर्यादिषु परिभुज्यमानेषु न कोऽपि दोषः, केवलं भूमावुपवेशने लाघवादयो बहुतराः दोषाः (निसिज्जासेवण ति) गृहिनिषद्यायामासेव्यमानायां, गृहेषु निषद्याग्रहणे इत्यर्थः / को नाम दोषः? अपि त्वतिप्रभूतो गुणः, ते हि जन्तवो धर्मकथाश्रवणतः संबोधमाप्नुवन्ति (गिहिमत्ते ति) गृहिमात्रके भोजनं कस्मान्न क्रियते ? एवं हि प्रवचनोपधातः परिहृतो भवति / तथा(निम्नथिचेट्ठणादि ति) निर्ग्रन्थीनामुपाश्रये अवस्थानादौ को दोषः? संक्लिष्टमनोनिरोधेन ह्यसंक्लिष्टं तु मा विहारक्रम कार्युरिति। चारे वेरज्जे वा, पढमससोसरण तह य नितिएसु / सुन्ने अकप्पए वा, अन्नाउंछेय संभोए। चारः, चरणं, गमनमित्येकाऽर्थः / तद्विषये व्रतार्थे, तद्यथा- चतुर्युमासेषु मध्ये यद्वर्षे पतति, तावन्मा विहारक्रमकार्षीः, यदातुन पतति वर्ष, तदा को दोषो हिण्डमानस्येति? तथा वैराज्येऽपि ब्रूते यथा वैराज्येऽपि साधवो विहारक्रमं कुर्वन्तु, परित्यक्तं हि साधुभिः परमार्थतः शरीरं, तद्यदि ते गृहीष्यन्ति किंक्षणंसाधूनाम्, सोढव्याः खलुसाधुभिरुपसर्गाः। ततोयदुक्तम्"नो कप्पइ निगंथाणं वेराविरुद्धरजंसि / सञ्ज गमणं सज्जमागमणं ति"। तदयुक्तमिति (पढमेणसमोसरणेत्ति) प्रथमंसमवसरणंनामप्रथमवर्षाकालः, तत्र ब्रूते- यथा प्रथमसमवसरणे उद्गमादिदोषपरिशुद्धं वस्त्रं पात्रं वा

Loading...

Page Navigation
1 ... 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078