Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1017
________________ असज्झाइय 833 - अभिधानराजेन्द्रः - भाग 1 असज्झाइय अमुमेव गाथाऽवयवं व्याचिख्यासुराहसीयाणे जं दव, नतं तु मुत्तूणऽणाहनिहयाई। आडंबर रुदमादी-घरेसु हेहऽट्ठिया बारा॥ श्मशाने यत् दग्धमस्थिजातं तदस्वाध्यायिकं न भवति। तम्मुक्त्वा, शेषाणि यानि न दग्धानि, निखातानि वा, तानिद्वादश वर्षाणि स्वाध्यायं प्रन्ति / तथा-आडम्बरे आडम्बरयक्षायतने, रुद्रे रुद्रायतने मातृगृहेषु आडम्बरादीनामधस्तादस्थीनि सन्ति, तेन कारणेन तत्र द्वादश वर्षाण्यस्वाध्यायः। असिवोडघायणेसुं, बारस अविसोहियम्मिन करेंति। झामिय बूढे कीरइ, आवासियसोहिए चेव॥ यत्र ग्रामे समुत्पन्नेनाऽशिवेन, भूयान् जनः कालगतः,नच निष्काशितः, यदि वा-अवमौदर्येण प्रभूतो जनो मृतो, न च निष्काशितः, अथवाआघातस्थानेषु भूयान् जनो मारयित्या निक्षिप्तो वर्तते / एतेष्वशिवावमौदर्यायतनस्थानेषु पूर्व विशोधनं क्रियते, विशोधने च क्रियमाणे यद् दृष्टं तत्परित्यज्यते। अदृष्टविषये च देवतायाः कायोत्सर्ग कृत्वा पठन्ति / अथन क्रियते विशोधनं, ततस्तस्मिन्नविशोधिते द्वादश वर्षाणि यावत् स्वाध्यायं न कुर्वन्ति।अथतत् अशिवादिस्थानमग्निकायेन ध्यामितं, वर्षोदकेन वा प्लावितं, तदा क्रियते तत्र स्वाध्यायः (आवासियसोहिए चेव त्ति) श्मशानं यदि भूयो जनैरावासितं ततस्तस्मिन्नावासिते शोधनं क्रियते, यद् दृश्यते तत् विविच्यते / एवं शोधिते तस्मिन् अदृष्टाद्युपघाताय देवतायाः कायोत्सर्ग कृत्वा स्वाध्यायं प्रस्थापयन्ति। डहरगाममयम्मी, न करेंति जान नीकासियं होति। पुरगामे च महंते, वाडअसाहिं परिहरंति।। डहरके क्षुल्लके ग्रामे कोऽपि मृतः, तस्मिन् मृते तावत्स्वाध्यायो न क्रियते, यावत् कलेवरं न निष्काशितं भवति। पुरे पत्तने महति वा ग्रामे वाटके साहौ या यदि मृतो भवति, तदा तं वाटकं साहिं वा परिहरन्ति। किमुक्तं भवति? तत्र न कुर्वन्ति स्वाध्यायं यावत्तद्वाटकात् साहीतो वा निष्काशितं भवति, वाटकात् साहीतोऽन्यत्र मृते नाऽस्वाध्यायः। जइ य उवस्सयपुरतो, नीइज्जइ तं महल्लयं ताहे। हत्थसयंतो जावउ, तावउ न करेंति सज्झायं / / यदि तत् कलेवरं मृतकं नीयमानं संयतानामुपाश्रयस्य पुरतो हस्तशताभ्यन्तरेण नीयते, ततो यावत् हस्तशतान्तो हस्तशतं व्यतिक्रम्यते, तावन्न कुर्वन्ति स्वाध्यायम, हस्तशतं व्युत्क्रान्ते पठन्ति। अत्र पर आहकोवी तत्थ भणेज्जा, पुप्फादी जाव तत्थ परिसाडी। जा दीसंती तावउ,न कीरए तत्थ सज्झाओ। कोऽपि तत्र ब्रूयात्- या तत्र मृतके नीयमाने पुष्पादीनाम्, आदि-शब्दाद् जीर्णचीवरखण्डादीनामुपाश्रयस्य पुरतो हस्तशताभ्यन्तरे परिशाटिः, सा यावत् दृश्यते तावत्तत्र न क्रियते स्वाध्यायः। अत्र सूरिराह मण्णइ न य तं तु तर्हि, निजंतो मोत्तु हो असज्झायं। जन्हा पाउप्पयारं, सारीरमतो न वजंति॥ भण्यते- अत्रोत्तरं दीयते-तत्र नीयमानं मृतक मुक्त्वा अन्यत् कानकपुष्पादिकं पतितमस्वाध्यायिकं न भवति, यस्मात् शरीरमस्थाध्यायिक चतुःप्रकारं रुधिरादिभेदतश्चतुर्विधम्। पुष्पादिकं च तद्वयतिरिक्तम्, अतोन स्वाध्यायिकतया तत्र वर्जयन्ति। आत्मसमुत्थं त्वतनसूत्रे व्याख्यास्यते / व्य०७ उ०।'ईद' दिनेऽस्वाध्यायः / यथामहाहिंसावत्वेनाऽऽश्विनचैत्रदिनानि सिद्धान्तवाचनादिषु अस्वाध्यायविनानीति कृत्वा त्यज्यन्ते, तद्वत् 'ईद' दिनमपि, तेन हेतुना कथं म त्यज्यतो ? फेचिध मतिनस्तद्दिनं त्यजन्ति, आत्मनां का मर्यादा ? इति प्रश्ने, उत्तरम्-'ईद' दिनास्वाध्यायविषये वृद्धाऽनाचरणमेव निमित्तमवसीयते। ही०३ प्रका०११ प्र०। जे भिक्खू भसज्झाए सज्झायं करेइ, करंतवासाइजइ / / 15 / / जम्मि जम्मि कारणे सज्झाओ ण कीरति तं सव्वं असज्झाय, तं च बहुविहं वक्खमाणं, तत्थ जो करेइ, तस्स चउलहुं, आणाभंगो, अणवत्था, मिच्छत्तं, आयसंजमविराहणा य / नि०चू०१६उ०॥ (स्वाध्याये एव स्थाध्यायः कर्तव्य इति 'सज्झाय' शब्दे चतुर्थभागे वक्ष्यते) णो कप्पइ णिग्गंथाणं वा णिग्गंथीणं वा अप्पणो असज्झाइए समायं करित्तए, कप्पतिणं अण्णमण्णस्स वायणं दिलिइत्तए। नं कल्पते मिग्रन्थानां निर्ग्रन्थीनां वाऽत्मनः समुत्थेऽस्वाध्यायिके स्वाध्यायं कर्तुं, किन्तु कल्पते परस्परस्य वाचनां दापयितुमन्यत्र / यदि वा प्रक्षालनानन्तरं गाढबन्धे प्रदत्ते तत्रापि स्वयमपि वाघमां पातुं कल्पते इति वाक्यशेषः / एतदेव भाष्यकारः सप्रपञ्चमाहआयसमुत्थमसण्मा-श्यं तु एगविह होइ दुविहं वा। एगविहं समणाणं, दुविहं पुण होइसमणीणं / / आत्मनः शरीरात्समुत्थं संभूतमात्मसमुत्थमस्वाध्यायिकमेकविधमाभवति, द्विविधं वा / तत्र यत् एकविधम्- अर्थो भगन्दरादिविषयम्, तत् श्रमणानां भवति / श्रमणीनां पुनर्भवति द्विविधम्-अर्थो भगन्दरादिसमुत्थम्, ऋतुसंभवं च। तत्र यतनामाहधोयम्मि य निप्पगले, बंधा तिण्णव हॉति उकोसा। परिगलमाणे जयणा, दुविहम्मी होइ कायव्वा / व्रणादौ निप्रगले धौते उपरि क्षारप्रक्षेपपुरस्सरं त्रयो बन्धा उत्कर्षतो भवन्ति। तथाऽपि परिगलति द्विविधे व्रणादावार्त्तवे च यतना वक्ष्यमाणा कर्तव्या / एतदेव सप्रपञ्च भावयतिसमणो उवणे व भगं-दरे व बंधेकओ य वाएति। तह गालंते छारं, छोढुं दो तिण्णि बंधाओ॥. श्रमणो व्रणे वा, भगन्दरे वा परिगलति हस्तशताद् बहिर्गत्वा निप्रगलं प्रक्षाल्य चीवरे क्षारं क्षिप्त्वा उपरि अन्यत् चीवरं कृत्या व्रणं भगन्दरं वा बध्नाति, तत एवमेकं बन्धं कृत्वा वाचयति / यदि तथापि परिगलत्यस्वाध्यायिकं, तत उपरिक्षारं निक्षिप्य

Loading...

Page Navigation
1 ... 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078