Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ असाहुधम्म 846 - अभिधानराजेन्द्रः - भाग 1 असिद्ध असाहुधम्म-पुं०(असाधुधर्म) वस्तुदानस्नानतर्पणादिके असं-यतधर्मे, सूत्र०१ श्रु०१४ अग असाहुया-स्त्री०(असाधुता) कुगतिगमनादिकरूपायाम, सूत्र० 1 श्रु० 4 अ०२ उ०! द्रोहस्वभावतायाम्, उत्त०३ अ० असाहुवं-अव्य०(असाधुवत्) असाधुमर्हति यत्प्रेक्षणं भुकुटिभङ्गादियुक्तं तस्मिन्, असाधुना तुल्यं वर्तने, उत्त० 3 अ० / असि-पुं०(असि) खड्गे 1 उपा०२ अ०। नि० चूला जी०। रा०। व्य०। विपाका संवा औ०। “असिमोग्गरसत्तिकुंतहत्था'' असिमुद्गरशक्तिकुन्ता हस्ते येषां ते असिमुद्गरशक्तिकुन्तहस्ताः। 'प्रहरणात्' / / 3 / 1 / 154 // इति सप्तम्यन्तस्य पाक्षिकः परनिपातः। जी०३ प्रति०। अस्युपलक्षिते सेवकपुरुष, "असिमषीकृषीवाणिज्यवर्जिताः "तत्रासिनोपलक्षिताः सेवकाः पुरुषाः असंयमाः मष्युपलक्षितालेखनजीविनः मषयः, कृषिरिति कृषिकर्मोपजीविनः, वाणिज्यमिति वणिग्जनोचितवाणिज्यकलोपजीविनः / तं०। असिना यो देवो नारकान् छिनत्ति सोऽसिरेव / परमाधार्मिकनिकाये, भ०३ श०६ उ०। हत्थे पाए ऊरू, बाहु सिरा पाय अंगमंगाणि। छिंदंति पगामं तू, असिणेरइए निरयपाला ||7|| (हत्थेत्यादि) असिनामानो नरकपाला अशुभकर्मोदयवर्तिनो नारकानेवं कदर्थयन्ति / तद्यथा-हस्तपादोरुबाहुशिरःपार्थादीन्यङ्ग प्रत्यङ्गानि छिन्दन्ति प्रकाममत्यर्थं खण्डयन्ति, तुशब्दोऽपरदुःखोत्पादनविशेषणार्थ इति / सूत्र०१श्रु०५१०१३०। वाराणस्यां सरिभेदे, ती० 38 कल्प०। असिकुंडतित्थ-न०(असिकुण्डतीर्थ) स्वनामख्याते मथुरास्थेतीर्थे, ती०६ कल्प। असिक्खग-त्रि०(अशिक्षक) चिरप्रव्रजिते, दश० 1 अ०। असिखुरधार-पुं०(असिक्षुरधार) क्षुरस्येव धारा यस्य असेः / अतिच्छेदके खड्गे, उपा०२अ०॥ असिखेडग-न०(असिखेटक) असिना सह फलके, प्रश्न०१ आश्र० द्वार। असिचम्मपाय-न०(असिचर्मपात्र) स्फुरके, भ०। "असिचम्म-पायं गहाय' / असिचर्मपात्रं स्फुरकः / अथवा-असिश्व खड्गः, चर्मपात्रं च स्फुरकः, खड्गकोशको वा असिचर्मपात्रं, तद् गृहीत्वा / "असिचम्मपायहत्थकिच्चगएणं अप्पणेणं ति" असिचर्मपात्रं हस्तेयस्य सतथा, कृत्य संघादिप्रयोजनं गतः आश्रितः कृत्यगतः, ततः कर्मधारयः, अतस्तेन आत्मना / अथवा-असिचर्मपात्रं कृत्वा हस्ते कृतं येनाऽसौ असिचर्मपात्रहस्त-कृत्वाकृतः,तेन / प्राकृतत्वाच्चैवं समासः। अथवाअसिचर्मपात्रस्यहस्तकृत्यं हस्तकरणं गतः प्राप्तोः यः स तथा, तेन / भ० ३श०५ उ० असिट्ठ-त्रि०(अशिष्ट) अनाख्याते, नि० चू०२ उ०। अकथिते, वृ०२ उ० आ०म० असिणाण-त्रि०(अस्नान) अविद्यमानस्नाने, पंचा० 10 विव०। "असिणाणवियडभोई" अस्नानोऽरात्रिभोजी चेत्यर्थः / उपा० 1 अ०। आचा तम्हा ते ण सिणायंति, सीएण उसिणेण वा। जावजीवं वयं घोरं,असिणाणमहिट्ठिया // 63 दश०६अ।ध० असित्थ-न०(असिक्थ) सिक्थवर्जिते पानकाहारे, पञ्चा० 5 विव०। असिद्ध-पुं०(असिद्ध) संसारिणि, नं० जी०। स्था०। सूत्र हेत्वाभासभेदे, रत्ना०। तत्राऽसिद्धमभिदधतियस्याऽन्यथाऽनुपपत्तिः प्रमाणेनन प्रतीयते, सोऽसिद्धः॥४८|| अन्यथाऽनुपपत्तेर्विपरीताया अनिश्चितायाश्च विरुद्धानैकान्ति-कत्वेन कीर्तयिष्यमाणत्वादिह हेतुस्वरूपा प्रतीतिद्वारकैवाऽन्यथाऽनुपपत्त्यप्रतीतिरवशिष्टा द्रष्टव्या, हेतुस्वरूपा प्रतीति-श्वेयमज्ञानात्, सन्देहाद्, विपर्ययाद् वा विज्ञेया॥४८॥ अथाऽमुं भेदतो दर्शयन्तिस द्विविध उभयासिद्धोऽन्यतरासिद्धश्च // 46|| उभयस्य वादिप्रतिवादिसमुदायस्यासिद्धः, अन्यतरस्य वादिनः प्रतिवादिनो वाऽसिद्धः॥४६॥ तत्राऽऽद्यभेदं वदन्ति - उभयासिद्धो यथा-परिणामी शब्दश्चाक्षुषत्वात् // 50 // चक्षुषा गृह्यत इति चाक्षुषः, तस्य भावश्चाक्षुषत्वं, तस्मात् / अयं च वादिप्रतिवादिनोरुभयोरप्यसिद्धः, श्रावणत्वाच्छब्दस्य॥५०॥ द्वितीयं भेदं वदन्ति - अन्यतरासिद्धो यथा-अचेतनास्तरवो, विज्ञानेन्द्रियायुर्निरोधलक्षणमरणरहितत्वात्॥५१|| ताथागतो हि तरूणामचैतन्यं साधयन् विज्ञानेन्द्रियायु निरोधलक्षणमरणरहितत्वादिति हेतूपन्यासं कृतवान् / स च जैनानां तरुचैतन्यवादिनामसिद्धः / तदागमे द्रुमेष्वपि विज्ञाने-न्द्रियायुषां प्रमाणतः प्रतिष्ठितत्वात् / इदं च प्रतिवाद्यसिद्ध्य-पेक्षयोदाहरणम्। वाद्यसिद्धयपेक्षया तु-अचेतनाःसुखादयः, उत्पत्तिमत्त्वादिति। अत्र हि यादिनः साङ्ख्यस्योत्पत्ति-मत्त्वमप्रसिद्धम्, तेनाविर्भावमात्रस्यैव सर्वत्र स्वीकृतत्वात्। नन्वित्थमसिद्धप्रकारप्रकाशनं परैश्चक्रे-स्वरूपेणासिद्धः,स्व-रूपं वाऽसिद्धं यस्य सोऽयं स्वरूपासिद्धः, यथा- अनित्यः शब्दः, चाक्षुषत्वादिति / ननु चाक्षुषत्वं रूपादावस्ति, तेनाऽस्य व्यधिकरणासिद्धत्वंयुक्तम्।न। रूपाद्यधिकरणत्वेनाप्रति-पादितत्वात्। शब्दधर्मिणि चोषदिष्टं चाक्षुषत्वं न स्वरूप-तोऽस्तीति स्वरूपासिद्धम् / विरुद्धमधिकरणं यस्य, स चासाव-सिद्धश्चेति व्यधिकरणासिद्धः, यथाअनित्यः शब्दः, पटस्य कृतकत्वादिति / ननु शब्देऽपि कृतकत्वमस्ति, सत्यं, न तु तथा प्रति-पादितम् / न चान्यत्र प्रतिपादितमन्यत्र सिद्धं भवति / मीमांसकस्य वा कुर्वतो व्यधिकरणासिद्धम् 2, विशेष्यमसिद्धं यस्यासौ विशेष्यासिद्धः, यथा- अनित्यः शब्दः, सामान्यवत्त्वे सति चाक्षुषत्वात् 3, विशेषणासिद्धः, यथा-अनित्यः शब्दः, चाक्षुषत्वे सति सामान्यवत्त्वात् 4, पक्षैकदेशासिद्धपर्यायः पक्षभागे-ऽसिद्धत्वात भागासिद्धः, यथा-अनित्यः शब्दः, प्रयत्नानन्त-रीयकत्वात् / ननु च वाद्यादिसमुत्थ-शब्दानामपीश्वरप्रयत्नपूर्व-कत्वात् कथं भागासिद्धत्वम् ? नैतत् / प्रयत्नस्य तीव्रमन्दादि भावा- नन्तरं शब्दस्य तथाभावो हि प्रयत्नानन्तरीयकत्वं विवक्षितम् / न चेश्वरप्रयत्नस्य तीव्रादिभावोऽस्ति, नित्यत्वात् / अनभ्युपगतेश्वरं

Page Navigation
1 ... 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078