Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ असज्झाइय 832- अभिधानराजेन्द्रः - भाग 1 असज्झाइय भूमिखननेन यदि तदस्वाध्यायिकमपनयन्ति तथाऽपि तिस्रः पौरुषीर्यावदस्वाध्यायः / अण्डकबिन्दुरस्वाध्यायिकस्य प्रमाणं, यत्र मक्षिकापादा निमज्जन्ति। किमुक्तं भवति?-यावन्मात्रे मक्षिकापादा। बुडन्ति तावन्मात्रेऽप्यण्डकबिन्दौ भूमौ पतति सति अस्वाध्यायः। अधुना 'वियाताए' इति व्याख्यानार्थमाहअजराउ तिण्णि पोरिसि, जराउयाणं जरे पडिए तिण्णि। निजंतुवस्सपुरतो, गलियजति निग्गलं होज्जा / / अजरायुप्रसूतास्तिस्रः पौरुषीः स्वाध्यायं हन्ति अहोरात्रच्छेदं मुक्त्वा, अहोरात्रे तु छिन्ने आसन्नायामपि प्रसूतायां कल्पते स्वाध्यायः, जरायुजानां यावज्जरायुर्लम्बते तावदस्वाध्यायः, जरायो पतितेऽपि सति तदनन्तरं तिस्रः पौरुषीर्यावदस्वाध्यायः / तथा-उपाश्रयस्य पुरतो नीयमानं तदस्वाध्यायिकं गलितं भवति, तदा पौरुषीत्रयवदस्वाध्यायः / यदि पुनर्निर्गल भवेत्तदा तस्मिन्नीते स्वाध्यायः। "रायपह वूढे'' इति व्याख्यानार्थमाहरायपहे न गणिज्जति, अह पुण अण्णत्थ पोरिसी तिण्णि। अह पुण बूढं हुस्सा, वासोदेणं ततो सुद्धं / / राजपथे यद्यस्वाध्यायिकबिन्दवो गलितास्तदा तदस्वाध्यायिकं न गण्यते। किं कारणमिति चेत् ? उच्यते-यतस्ततः स्वयोग्यत आगच्छता गच्छतां च मनुष्यतिरश्वां पदनिपातैरेवोत्क्षिप्तं भवति / जिनाज्ञा चात्र प्रमाणमतो न दोषः / अतः पुनस्तदस्वाध्यायिकं तैरवं राजपथादन्यत्र षष्टिहस्ताभ्यन्तरे पतति, तदा तिस्रः पौरुषीर्यावद स्वाध्यायः / अथ तदपि वर्षोदकेन व्यूढं भवेत्, उपलक्षणमेतत्-प्रदीपनकेन च दग्धं, तदा शुद्धं तत्स्थानमिति कल्पते स्वाध्यायः। संप्रति 'परवयणे साणमादीण'' इति व्याख्यानयतिचोदेति समुद्दिसिउं, सा जो जइपोग्गलं तु पज्जाहि। उदरगतेणं चिट्ठइ, जा ताव उ हो असज्झाओ। अत्र परश्वोदयति-श्वा यदि पौद्गलं तैरश्चं मांसंबहिः समुद्दिश्य (निगाल्य) तत्रागच्छेत्, तर्हि यावत्स तत्र तिष्ठति तावत्तेनोदरगतेन पौद्गलेन अस्वाध्यायः कस्मान्न भवति? सूरिराहभण्णति जइ ते एवं, सज्झाओ एव तो उ नस्थि तुहं। असज्झाइयस्स जेणं, पुण्णोसि तुमं सयाकालं // भण्यते-अत्रोत्तरं दीयते- यदि ते एवं पूवोक्तप्रकारेण मतिः, ततस्तव स्वाध्यायः कदाचनापि नास्त्येवा एवकारो भिन्नक्रमः, स च यथास्थानं योजितः / कस्मान्न स्वाध्यायः कदाचनापीति? अत आह-येन कारणेन सदाकालं सर्वकालं त्वमस्वाध्यायिकस्य पूर्णः, शरीरस्य रुधिरादिचतुष्टयात्मकत्वात्। जइ फुसती तहिं तुंडं, जइ वा लेढारिएण संचिढ़े। इहरा न होति चोयग!, वंतं तं परिणयं जम्हा / / यदि श्वा खरण्टेन मुखेन तत्रागत्याऽऽत्मीयं तुण्डं क्वापि स्पृशति / यदि वा खरण्टितेनैव मुखेन संतिष्ठते, तहा भवत्यस्वाध्यायः, इतरथा यदि पुनर्बहिरेव सुखं लीढ्वा समागच्छति, तदान भवति। तथा यद्यप्यागत्वा वमति, तथापि चोदक! नास्वाध्यायिकम्, यस्मात्तद्द्वान्तं परिणतम् / एवं मार्जारादिकमप्यधिकृत्य भावनीयम् / गतं तैरश्वम्। अधुना मानुषमाहमाणुस्सगं चउद्धा, अट्ठि मुत्तूण सयमहोरत्तं। परियावण्णविवण्णा, सेसे तिग सत्त वऽढे वा।। मानुष्यकं मानुषमस्वाध्यायिकं चतुर्धा / तद् यथा- चर्म, रुधिरं, मांसमस्थिच। एतेष्वस्थिमुक्त्वा शेषेषु सत्सु क्षेत्रतो हस्त-शताभ्यन्तरे न कल्पते स्वाध्यायः / कालतोऽहोरात्रम्। (परिया-वण्णविवण्ण त्ति) मानुष तैरश्चं वा यद् धिरं तद्यदि पर्यापन्नं तेन स्वभाववर्णाद्विवर्णीभूतं भवति खदिरसारसमाससारादिकल्पं, तदा स्वाध्यायिक भवतीति क्रियते, तस्मिन् पतितेऽपि स्वाध्यायः। (सेस त्ति) पर्यापन्नं विवर्ण मुक्त्वा शेषे स्वाध्यायिकं भवति / (तिग ति) यत् अविरताया मासे मासे आर्तवमस्वाध्या-यिकमागच्छति तत्स्वभावतस्त्रीणि दिनानि यावदस्वाध्यायः / त्रयाणां दिवसानां परतोऽपि कस्याश्चित् गलति, परं तदातवं न भवति, किंतु तन्महारक्तं नियमात्पर्यापन्नं विवर्णं भवतीति नाऽस्वाध्यायिकं गण्यते। तथा- यदि प्रसूताया दारको जातस्तदा। सप्त दिनान्यस्वाध्यायिकम्, अष्टमेच दिवसे स्वाध्यायः कर्तव्यः। अथदारिका जाता तर्हि सा रक्तोत्कटेति, तस्यां जातायामष्टौ दिनान्यस्वाध्यायः, नवमे दिने स्वाध्यायः कल्पते। एतमेव गाथाऽवयवं व्याचिख्यासुराहरत्तुक्कडए इत्थी, अट्ठ दिणा तेण सत्त सुक्काहिए। तिण्ह दिणाण परेणं, अणाउयंतं महारत्तं / / निषेककाले यदि रक्तोत्कटता, तदा स्त्री इति, तस्यां जातायां दिनान्यष्टावस्वाध्यायः / दारकः शुक्राधिकः, तेन तस्मिन् जाते सप्त दिनान्यस्वाध्यायः / तथा-स्त्रीणां त्रयाणां दिनानां परतस्तन्महारक्तमनातवं भवति, ततो न गणनीयम्। दंते दिढे विगिचण, सेसऽट्ठिग बारसे न वासाई। झामित वूढे सीयाण पाणमादीण रुद्दघरे / / यत्र हस्तशताभ्यन्तरे दारकादीनांदन्तः पतितो भवति तत्र निभालनीयं, यदि दृश्यते तदा परिष्ठाप्यः / अथ सम्यग्मृगयमाणैरपि न दृष्टस्तदा शुद्धमिति कल्पते स्वाध्यायः / अन्ये तु ब्रुवते- तस्य अवहेडनार्थ कायोत्सर्गः करणीयः / दन्तं मुक्त्वा शेषाङ्गोपाङ्गादि संबन्धिन्यस्थिनि हस्तशताभ्यन्तरे पतिते द्वादश वर्षाणि न कल्पते स्वाध्यायः / अथ तत्स्थानमग्निकायेन ध्यामितं, पानीयेन वा व्यूढं, तदा शुद्धमिति, ध्यामिते व्यूढे वा स्वाध्यायः कल्पते। तथा-(सीयाण त्ति) श्मशाने यानि कलेवराणि दग्धानि तान्य-स्वाध्यायिकानि न भवन्ति, तानि पुनस्तत्र अनाथकलेवराणि न दग्धानि, निखातीकृतानि वा तानि द्वादश वर्षाणि स्वाध्यायं घ्नन्ति / यद्यपि च नाम श्मशानं वर्षोदकेन प्रव्यूढं, तथापि तत्र न कल्पते स्वाध्यायः, मानुषास्थिबहुलत्वात् / (पाणमादीण त्ति) पाणनामाऽऽडम्बरो नाम यक्षो हिरमिकापरनामा दैवतं, तस्याऽऽयतनस्याधस्ताद् मानुषान्यस्थीनि निक्षिप्यन्ते, ततस्तत्र, तथा- मातृगृहे चामुण्डायतने, रुद्रगृहे वाऽधस्ताद् मानुषं कपालं निक्षिप्यते। ततस्तयोरपि द्वादश वर्षाण्यस्वाध्यायः।

Page Navigation
1 ... 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078