Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 878
________________ अब्भुट्ठाण 694 - अभिधानराजेन्द्रः - भाग 1 अब्भुट्ठाण एएचेव य दोसा, सविसेसयरऽन्नतित्थिगीसुपि। लाघवअणुज्जियत्तं, तहागयाणं अवण्णो य॥ एतएव दोषाः प्रवचनापभ्राजनादयोऽन्यतीर्थिकीष्वपि भवन्ति, नवरं सविशेषतराः शङ्कादिभिर्दोषैः समधिकतरा मन्तव्याः / गृहिणाभन्यतीर्थकादीनां चाभ्युत्थाने सामान्यत इभे दोषाः / तद्यथालाघवमेतेभ्योऽप्ययं हीन इत्येवं लक्षणो लघुभाव उपजायते। अनूर्जितत्वं वराकत्वमुपदर्शितं भवति। तथाहि-लोको ब्रूयात् अहो ! अदत्तादानाः श्वान इव वराका अमी यदे-वमाहारादिनिमित्तमवितरकाणामपि चाटूनि कुर्वन्ति / तथा तेन यथावस्थित-पदार्थोपलम्भात्मकेन प्रकारेण गतं ज्ञानमेषां तथा-गताः, सद्भूतार्थवेदिनस्तीर्थकरा गणधरा इत्यर्थः / तेषामवर्णवादो भवति। यथा- नाऽमी सम्यग्मोक्षमार्ग दृष्ट वन्तः। अथ संयतीनामभ्युत्थाने दोषान् विशेषतो दर्शयन्नाहपायं तवस्सिणीओ, करेंति किइकम्म मो सुविहियाणं / एसुत्तिट्ठइ वतिणिं, भवियव्वं कारणेणेत्थ / / संयतीमभ्युत्तिष्ठन्तं दृष्ट्वा कश्चिदभिनवधर्मा चिन्तयेत्प्रायस्तपस्विन्यः संयत्यः सुविहितानां कृतिकर्म कुर्वन्ति / 'मो' इति पादपूरणे / एष पुनव्रतिनीमुत्तिष्ठति, तद्भवितव्यमत्र कारणे-नेति। एवं शङ्कायां चतुर्गुरु, निःशङ्किते मूलम्, यत एते दोषास्ततो नैषामभ्युत्थानं विधेयम्। अथ येषामभ्युत्थातव्यं, तदभ्युत्थानाकरणे प्रायश्चित्तमभिधित्सुराहआयरिए अभिसेगे, भिक्खुम्मि तहेव होइ खुड्डे य / गुरुगा लहुगा लहुगो, मिन्ने पडिलोमबितिएणं // आचार्ये अभिषेके भिक्षौ तथैव क्षुल्लके; आचार्यादीन् प्राघुर्णिकान् यथाक्रममनभ्युत्तिष्ठति गुरुका लघुका लघुको भिन्नमासाश्चेति प्रायश्चित्तानि / द्वितीयादेशेन इदमेव प्रायश्चित्तं प्रतिलोम प्रतीपक्रमेणाचार्यादीनां वक्तव्यम्। आचार्यस्य भिन्नमासः, अभिषेकस्य लघुमासः, भिक्षोः चतुर्लघवः, क्षुल्लकस्य चतुर्गुरव इति भावः / एवं संग्रहगाथासमासार्थः। ___अथैनामेव विवृणोतिआयरियस्सायरियं, अणुट्ठयंतस्स चउगुरू हों ति। वसभे भिक्खुक्खुड्डे, लहुगा लहुगो य मिन्नो य॥ आचार्यस्य आचार्य प्राघूर्णकमायान्तमनुत्तिष्ठतश्चतुर्गुरवो भवन्ति, | वृषभमनुत्तिष्ठतः चतुर्लघुकाः, क्षुल्लकमनुत्तिष्ठतो लघुकः, भिक्षुमनुत्तिष्ठतो भिन्नमासः / एवमाचार्यस्य प्रायश्चित्तमुक्तम् / शेषाणामतिदिशतिसट्ठाणपरहाणे, एमेव वसभभिक्खुखुड्डाणं / जं परठाणे पावइ, तं चेव य सोवि सट्ठाणे // एवमेव वृषभभिक्षुक्षुल्लकानामपि स्वस्थानपरस्थाने प्रायश्चित्तं वक्तव्यम्, स्वस्थानं नाम वृषभस्य वृषभस्थानं, वृषभस्याचार्यो भिन्नस्थानम् / एवं भिक्षुक्षुल्लकयोरपि स्वस्थानपरस्थानभावना कर्तव्या। अत्र च यत्परस्थाने आचार्यः प्राप्नोति, तदसायपि वृषभादिः स्वस्थाने प्राप्नोति / किमुक्तं भवति- वृषभस्य प्राघूर्णकमाचार्यमनभ्युत्तिष्ठतश्चतुर्गुरुकाः, वृषभस्थानभ्युत्थाने चतुर्लघवः, भिक्षोरनभ्युत्थाने मासलघु, क्षुल्लकस्यानभ्युत्थाने भिन्नभासः। एवं भिक्षुक्षुल्लकयोरपि मन्तव्यम्। अत्र परस्थानमाचार्यस्य वृषभादयः, तेषामभ्युत्थाने यथाऽसौ चतुर्लघुकादिकमापन्नवान् तथा वृषभादयोऽपि स्वस्थानमन-भ्युत्तिष्ठन्तस्तदेव प्राप्नुवन्ति। अथैतदेव प्रायश्चित्तं तपःकालाभ्यां विशेषयन्नाहदोहिं वि गुरुगा एते, आयरियस्स तवेण कालेण। तवगुरुगा कालगुरू, दोहि वि लहुगा य खुड्डस्स। आचार्यस्यैतानि चतुर्गुरुकादीनि प्रायश्चित्तानि, द्वाभ्यामपि गुरुकाणि कर्तव्यानि। तद्यथा-तपसा, कालेन च वृषभस्य तपोगुरुकाणि। भिक्षोः कालगुरुकाणि, क्षुल्लकस्य द्वाभ्यामपि तपः कालाभ्यां लघुकानि। अहवा अधिसिटुं चिय, पाहुणयागंतुए गुरुगमादी। पावें ति अणुट्टिता, चउगुरु लहुगा लहुगमिन्नं / / अथवेति प्रायश्चित्तस्य प्रकारान्तरताद्योतकः / अविशिष्टमेवाचार्यादिभिर्विशेषैर्विरहितं प्राघूर्णकमागन्तुकमनुत्तिष्ठन्तो गुर्वादय आचार्यप्रभृतयो यथाक्रमं चतुर्गुरुकचतुर्लघु-कलधुमासभिन्नमासान् प्राप्नुवन्ति / तद्यथा- आचार्यस्य यं वा तं वा प्राघूर्णकमागतमनभ्युत्तिष्ठतश्चतुर्गुरु, वृषभस्य चतुर्लघु, भिक्षोलघुमासः, क्षुल्लकस्य भिन्नमास इति। अहवा जं वा तं वा, पाहुणगं गुरुमणुहिहं पावे। मिन्नं वसभो सुक्कं, भिक्खु लहू खुडु चउगुरुगा।। अथवा यं वा तं वा प्राघूर्णकमनुत्तिष्ठन् गुरुराचार्यो भिन्नमासं प्राप्नोति, वृषभः शुक्लमासं, लघुमासमित्यर्थः। भिक्षुश्चतुर्लधुकम्, क्षुल्लकः चतुर्गुरुकम्। एतेन 'पडिलोमबितिएणं ति" पदं व्याख्यातम्। अथ किमर्थमयं द्वितीयादेशः प्रवृत्तः? इत्याहवायणवापारणधम्मकहणसुत्तत्थचिंतणासुंच। वाउलिए आयरिए, बिझ्यादेसो उ भिन्नाई॥ इहाऽऽचार्यस्याऽनेकधा व्याक्षेपकः। तद्यथा-वाचनानामनुयोगः / सा विनेयाना दातव्या व्यापारणं साधूनां वैयावृत्त्यादिषु यथायोग्यं विधेयम्। श्राद्धानां धर्मकथनं विधातव्यम् / भूयस्सूत्रार्थ-योश्चिन्तनानुप्रेक्षाः कर्तव्याः / एवमादिषु कार्येषु निरन्तरमाचार्यो व्याकुलितो भवति / वृषभादयस्तु न तथा व्याकुला इत्यतोऽयं भिन्नमासादिर्द्वितीय आदेशः प्रवृत्तः / इयमत्र भावना-आचार्यो बहुव्याकुलतया प्राघूणकमागच्छन्तं दृष्ट्वाऽपि नाभ्युत्थानं पारयेत्; अतस्तस्य स्वल्पतरं प्रायश्चित्तम् / वृषभभिक्षुक्षुल्लकास्तू यथाक्रममल्पाल्पतराल्पतमव्याक्षेपाः, ततो लघुमासादीनि प्रभूतप्रभूततरप्रभूततमानि तेषां प्रायश्चित्तानीति / अथ क्षुल्लकस्य गुरुतमप्रायश्चित्तदाने विशेषकारणमाहवेसइए लहुमुट्ठइ, धूलीधवलो असंफुनो खुड्डो / इति तस्स होति गुरुगा, पालेइ हु चंचलं दंडो।। क्षुल्लको बालः स लघुशरीरतया सुखेन उपविशति, उत्तिष्ठति वा; क्रीडनशीलतयाचप्रायेणधूलीधवलोरजोगुण्डितदेहः, असंस्फुटश्चासंवृतोऽसौ भवति। अतोयद्यसावपि प्राधुणकमागतं नोत्तिष्ठति, महदूषणमाप्नोति। अत एतस्य चतुर्गुरुकाः प्रायश्चित्तम् / किश्चयश्चञ्चलः स्वभावाचपलोऽपि सन्

Loading...

Page Navigation
1 ... 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078