Book Title: Abhidhan Rajendra Kosh Part 01
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1013
________________ असज्झाइय 829 - अभिधानराजेन्द्रः - भाग 1 असज्झाइय वा त्रयोदश्यादिषु पौर्णमासीपर्यन्तेषु अचित्तरजोऽवहेठनार्थ कायोत्सर्ग कुर्वन्ति, तदा तस्मिन्पांशुवर्षे रजोद्घाते वा स्वाभाविके पतति, संवत्सरं यावत्स्वाध्यायं कुर्वन्ति, इतरथा नेति। व्य०७ उ०। 'दसविहे ओरालिए असज्झाइए पण्णत्ते / तं जहा- अट्ठी मंसे सोणिए असुइसामंत मसाणसामंतं चंदोवराए सूरोवराए पडणे राययुग्गह उवस्सयस्स अंतो ओरालिए सरीरे''।स्था०।"दसविहे अंतलिक्खिए असज्झाइएपण्णते। तं जहा- उक्कावाए दिसिदाहे गजिए वीजुए निग्धाए जूयए जक्खालित्तए धूमिए महिया रज्जुग्धाए"।स्था०१०ठा०। आ०चूला व्या इदानीं सदेवमाहगंधव्वदिसाविजुक्क-गजितए जूवजक्खदित्ते य। एक्केकपोरिसिं गज्जियं तु दो पोरिसिं हणति / / गन्धर्वनगरं नाम यचक्रवर्त्यादिनगरस्योत्पातसूचनाय संध्यासमये तस्य नगरस्योपरि द्वितीयं नगरं प्राकाराट्टालकादि संस्थितं दृश्यते (दिस त्ति) दिग्दाहः, विद्युत्प्रतीता, उल्का सरेखा, प्रकाशयुक्तावा, गर्जितं प्रतीतं, यूपको वक्ष्यमाण लक्षणः, यक्षदीप्तं नाम एकस्यां दिशि अन्तराऽन्तरा यद् दृश्यते विद्युत्सदृशः प्रकाशः / एतेषु मध्ये गन्धर्वनगरादिकमेकैकामेककां पौरुषी च हन्ति, गर्जितं पुनढे पौरुष्यौ हन्ति। गंधव्वनगर नियमा, सदेवयं सेसगाणि भजिणीओ। जेण न नजंति फुडं, तेण य तेसिं तु परिहारो॥ अत्र गन्धर्वनगरादिषु मध्ये गन्धर्वनगरं नियमात्सदेवकम, अन्यथा तस्याभावात् / शेषकाणि तु दिग्दाहादीनि भक्तानि विकल्पितानि, कदाचित् स्वाभाविकानि भवन्ति, कदाचित् देवकृतानि / तत्र स्वाभाविकेषु स्वाध्यायोन परिहियते किन्तु देवकृतेषुपरम्। येन कारणेन स्फुट वैविक्त्येन तानिन ज्ञायन्ते, तेन तेषामविशेष-परिहारः। सम्प्रति दिग्दाहादिव्याख्यानमाहदिसि दाह छिन्नमूलो, उक्क सरेहा पगासजुत्ता वा। संज्झच्छेयाऽऽवरणो, उजूवओ सुक्कदिण तिण्णि / / दिशि पूर्वादिकायां छिन्नमूलो दाहः प्रज्वलनं दिग्दाहः / किमुक्तं भवति ? अन्यतमस्यां दिशि महानगरप्रदीप्तमिवोपरि प्रकाशो-ऽधस्तादन्धकार इति दिग्दाहः / उल्का पृष्ठतः सरेखा, प्रकाशयुक्ता वा / यूपको नाम शुक्ले शुक्लपक्षे त्रीणि दिनानि यावत् द्वितीयस्यां तृतीयस्यां चतुर्थ्यां चेत्यर्थः। संध्याच्छेदः संध्याविभागः, स आवियते येन स संध्याच्छेदावरणश्चन्द्रः / इयमत्र भावना- शुक्लपक्षद्वितीया-तृतीयाचतुर्थीरूपेषु त्रिषु दिनेषु संध्यागतश्चन्द्र इति कृत्वा संध्या न विभाव्यते, ततस्तानि शुक्लपक्षे त्रीणि दिनानि यावत् चन्द्रः संध्याच्छेदावरणः स यूपक इति / एतेषु च त्रिषु दिवसेषु प्रादोषिकी पौरुषी नास्ति, संध्याच्छेदादि-भवनादिति। अत्रैव मतान्तरमाहकेसिंचि होंति मोहा, उजूवओ ते तु होंति आइण्णा। जेसिंच अणाइन्ना, तेसिं खलु पोरिसी दोण्णि // केषाश्चिदाचार्याणां मतेन ये भवन्ति शुक्लपक्षे प्रतिपदादिषु दिवसेषु / मोघाः शुभाशुभसूचननिमित्ता वितथोत्पादा आदित्यकिरण विकारजनिता आदित्यस्योदयसमये अस्तमयसमये वा आताम्राः, कृष्णश्यामा वा 'यूपक इति' ते भवन्ति वर्तन्ते आचीर्णाः, नैतेषु स्वाध्यायः परिहियते इत्यर्थः / येषां त्वाचार्याणामनाचीर्णास्तेषां मतेन यूपको द्वे पौरुष्यौ हन्ति। न केवलममूनि सदेवानि, किन्त्वमून्यपि, तान्येवाहचंदिमसूरुपरागा, निग्घाए गुंजिते अहोरत्तं। चंद जहण्णेणऽट्ठ उ, उक्कोसा पोरिसि बिछक्कं / / सूरो जहण्ण बारस, उक्कोसं पोरिसीउ सोलसओ। सम्गह निब्बुड एवं, सूरादी जेणऽहोरत्ता॥ चन्द्रोपरागे सूर्योपरागे च, तद्दिनापगते इति वाक्यशेषः / तथा- साभ्रे निरभ्रेवानभसि व्यन्तरकृतो महागर्जितसमोध्यनिर्निर्घातः। गर्जितस्यैव विकारो गुञ्जावत् गुञ्जमानो महाध्वनिर्गुञ्जितं, तस्मिन् निर्घात गुञ्जितं च, प्रत्येकमहोरात्रं यावत् स्वाध्यायपरिहारः। तत्र जघन्यत उत्कर्षतश्च चन्द्रोपरागं सूर्योपरागं वाऽधिकृत्य स्वाध्यायोचितकालमानमाहचन्द्रो जघन्येनाष्टौ पौरुषीर्हन्ति, उत्कर्षतः पौरुषीद्विषट्कम्, द्वादश पौरुषीरित्यर्थः / कथमिति चेत् ? उच्यते-उद्गच्छन्चन्द्रमा राहुणा गृहीतः, ततश्चतस्रःपौरुषीराबेर्हन्ति, चतस्र आगामिनो दिवसस्य, एवमष्टौ। द्वादश पुनरेवम्-प्रभातकाले चन्द्रमाः सग्रह एवास्तमुपगतः, ततश्चतसः पौरुषीर्दिवसस्य हन्ति, चतस्र आगामिन्या रात्रेः, चतस्रो द्वितीयस्य दिवसस्य। अथवा-औत्पातिकग्रहणेन सर्वरात्रिकं ग्रहणं जातम, सग्रह एव निमग्नः, ततः संदूषित-रात्रेश्चतस्रः पौरुषीः, अन्यचाहोरात्रम्। अथवाअभ्रच्छन्नतया विशेषपरिज्ञानाभावाच्च न ज्ञान-कस्यां वेलायां ग्रहणं ? प्रभाते च ग्रहो निमज्जन् दृष्टः, ततः समग्ररात्रिः परिहता, अन्यचाहोरात्रमिति द्वादश / सूर्यो जघन्येन द्वादश पौरुषीर्हन्ति, उत्क र्षतः षोडश / कथमिति चेत् ? उच्यते- सूर्यः सग्रह एवास्तमुपगतश्चतस्रः पौरुषी रात्रेर्हन्ति, चतस्र आगामिनो दिवसस्य, चतसस्ततः परस्या रात्रेः, एवं द्वादश / षोडश पुनरेवम्- सूर्य उद्गच्छन् राहुणा गृहीतः सकलं च दिनं समुत्पातवशात्सग्रहः स्थित्वा सग्रह एवास्तमुपागतः। ततश्चतस्त्रः पौरुषीर्दिवसस्य हन्ति, चतस्त्र आगामिन्या रात्रेः, ततश्चतस्रः परदिवसस्य, ततोऽपि चतस्रः परतराया रात्रेः, एव षोडश पौरुषीर्हन्ति, सग्रहनिमग्नः, सग्रह एवास्तमितः। तथा चोक्तम्"एयं उग्गमछन्नं गहिए सग्गहनिव्वुडे दट्टयमिति'। (सूरादीजेणऽहोरत्त त्ति) सूर्यादयो येनाहोरात्राः। ततः किमित्याहआइन्नं दिणमुक्के, सो चिय दिवसो य रातीय। निग्घायगुंजएसुं, सो चिय बेला उजा पत्ता॥ यतः सूर्यादिरहोरात्रः, ततो दिनमुक्ते सूर्ये-स एव दिवसः, सैव च रात्रिः स्वाध्यायिकतया परिहियते / चन्द्रे तु तस्यामेव रात्री मुक्ते यावदपरश्चन्द्रो नोदेति, तावदस्वाध्यायः, इति सैवरात्रिः, अपरं च दिनमिति, एवमहोरात्रमस्वाध्यायः / अन्ये पुनराहुराचीर्णमिदम्- चन्द्रो रात्रौ गृहीतो रात्रावेव मुक्तः, तस्या एव रात्रेः शेष वर्जनीयं यस्मादागामिसूर्योदये समाप्तिरहोरात्रस्य जाता। सूर्योऽपि यदि दिवा गृहीतो दिवैव मुक्तस्तस्थैव दिवसस्य शेष, रात्रिश्च वर्जनीया

Loading...

Page Navigation
1 ... 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078