Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 47
________________ तत्त्वार्थत्रिसूत्री सत्त्वलक्षणं तस्य च द्रव्यपर्यायनयगर्भता सूत्रम्-] उत्पादव्ययध्रौव्ययुक्तं सत् ॥५-२९ ॥ - [भाष्यम्-] उत्पादव्ययाभ्यां ध्रौव्येण च युक्तं सतो लक्षणम् ; यदुत्पद्यते, यद् व्येति, यच्च ध्रुवं तत् सत्; अतोऽन्यदसदिति ॥ २९॥ - उत्पादव्ययाभ्यामित्यादि । समासतश्चायं सूत्रार्थः-स्थित्युत्पत्तिविनाशस्वभावं सद् , अवश्यन्तयैव स्थित्युत्पादविनाशाः समुदिता एव सत्त्वं गमयन्ति । स्थित्यादयो हि सत एव भवन्ति, न जातुचिन्निरुपाख्यस्य, केनचिदप्याकारणानुपाख्यायमानत्वादिति । यत् कथंचिन्न ध्रुवं न चोत्पद्यते न व्येति तन्न सदिति । इदं च सूत्रं द्रव्यपर्यायनयद्वयगर्भम् , यतो द्रव्यास्तिकपर्यायास्तिकावुत्सर्गापवादुस्वभावौ मूलं सङ्ग्रहादिप्रपञ्चस्य, तन्निरूप्यं च सर्व वस्तु, ते च सङ्ग्रहादयः प्रथमाध्याये विध्यपवादस्वरूपतया निरूपिताः, विशेषविवक्षया तु किञ्चिदुच्यते-उत्सर्गो विधिर्व्यापित्वमप्रतिषेधः, न ह्यसौ द्रव्यनयो विशेषमिच्छति, विशेषो ह्यन्यप्रतिषेधेनात्मानं प्रतिपादयति भावान्तरत्वात् , न - उत्पादव्ययध्रौव्ययुक्तं सत् ॥ ५। २९ ॥ द्वन्द्वान्ते श्रूयमाणस्य प्रत्येकमभिसम्बन्धादुत्पादादित्रयाणां कृतद्वन्द्वानां युक्तपदेनान्वयाद्योऽर्थो निष्पद्यते तं भाष्यकृदाह-उत्पादव्ययाभ्यामित्यादि.द्वयोरुत्पादव्यययोरेकपर्यायार्थिकनयाभिप्रेतत्वमभिसन्धाय ध्रौव्याद्रव्यार्थिकनयाभिप्रेतात्पृथक्कृत्य निर्देशः, सतो लक्षणमित्युक्त्या उत्पादव्ययध्रौव्ययुक्तमिति लक्षणांशः सदिति लक्ष्यांशो निर्दिष्टः सूत्रे इति ख्यापितम्। उप्पेइ वेत्यादित्रिपद्यां वाकारो न विकल्पार्थः किन्तु समुच्चयार्थक एवेति द्योतनायाह-यदुत्पद्यते इत्यादि । अर्थापत्तिगम्यमर्थ स्पष्टमावेदयति-अत इति, सदसत्कार्यवादाविर्भावनाय टीकायां स्थित्युत्पत्तीत्येवं निर्देशः, तेन स्थितेः सर्वकालावच्छेद्यत्वमभिप्रेति । सूत्रभाष्ययोर्युक्तमितिशब्दो न सम्बन्धान्तरेण सम्बन्धित्वख्यापनपरः, किन्तु कथश्चित्तादात्म्यलक्षणाविश्वम्भावसम्बन्धेनैवेत्यवगतये स्थित्युत्पत्तिविनाशखभावमित्यत्र स्वभावपदम् , स्वभावस्वभाववतोश्च तादात्म्यं सुप्रतीतम् . तेन चोत्पादादित्रयाणामपि परस्परं कथञ्चिदभेदो लभ्यते तदभिन्नाभिन्नस्य तदभिन्नत्वमिति न्यायात् । एवञ्च न भिन्नप्रवृत्तिनिमित्तकत्वेन सच्छब्दस्य नानार्थत्वं हर्यादिपदवत्, किन्तु त्रयाणां कथञ्चिदेकत्वेन तत्प्रवृत्तिनिमित्तकत्वादेकार्थकत्वमेवेति, कथञ्चिद्भेदेऽपि च त्रितयपर्याप्तकावच्छेदकताकशक्यताकत्वादेकार्थत्वमवसेयम् , अत एव समुदिता एवेत्युपपन्नम् । उत्पादव्ययध्रौव्याणां विभिन्नखभावानामेकस्मिन् वृत्तिन प्रकारभेदमन्तरेण निरुपाख्यस्य च निर्धर्मकतया न प्रकारभेदसम्भावनेति न स्थित्यादिसमुदितलक्षणसम्भव इत्याशयेनोक्तम्-केनचिदप्याकारणेति, आकारश्चासमस्ताखण्डशब्दाभिलप्य एवाभिमतः, तेन शशशृङ्गगगनकुसुमखरविषाणादिशब्दाभिलप्याकारस्य न ग्रहणम् । अतोऽन्यदसदिति भाष्यं गमयति-यत्कथञ्चिन्न ध्वमित्यादि, स्थित्यादीनां त्रयाणां परस्परविरुद्धत्वादेकाश्रयतयोपबन्धनं सूत्रेऽसातमित्याशङ्कापनोदायाह-इदश्च सूत्रमिति, उत्सर्गः सामान्यं तच प्रकृते ध्रौव्यांशः, तस्य पूर्वोत्तरपर्यायानुस्यूततयाऽनुगामित्वात्सामान्यरूपत्वम् , अपवादोऽननुगामी तत्तत्पर्यायनियतैकखभावो विशेषः, स च प्रकृते उत्पादव्ययौ । यथा हि स्थित्यवच्छेदकं सुवर्णद्रव्यं कुण्डलाङ्गदादिपूर्वोत्तरपर्यायानुयायि,न तथा कुण्डलत्वाङ्गदत्वादिकमुत्पादव्ययावच्छेदकम् , अवच्छेदकानुगतत्वाननुगतत्वाभ्यामवच्छेद्यानुगतत्वाननुगतत्वे बोध्ये, विषयधर्मेण विषयिणोऽप्यनुरजनमिति द्रव्यास्तिकपर्यायास्तिकावुत्सर्गापवादखभावावित्युक्तम्। सङ्घहादीत्यत्रादिपदाद्यवहारादीनामुपग्रहः। प्रमा नयैरधिगम इत्यत्र नयस्याधिगमप्रयोजकत्वमुक्तं तत्स्मारयति-तन्निरूप्यमिति, सङ्ग्रहादिनयनिरूप्यमित्यर्थः। उत्सर्गापवादेत्यत्र यस्यैवोत्सर्गशब्देनाभिधानं तस्यैव विध्यपवादेत्यत्र विधिशब्देनानुरणनमित्येतत्कथयति-उत्सगो विधिरित्यादि, उत्सर्गमात्रप्रतिपादकत्वादुत्सर्गखभावत्वं द्रव्यास्तिकस्येति प्रपञ्चयति-न ह्यसाविति।किंखरूपो विशेषो यं न द्रव्यास्तिकोऽभिधत्ते इत्यपेक्षायामाह-विशेषो हीति, यथाऽदत्वं विशेषोऽङ्गदभिन्नकुण्डलादिप्रतिषेधेनाङ्गदस्वरूपं प्रतिपादयतीति, भावान्तरत्वात्, कुण्डलाद्यवृत्तिधर्मत्वात् । अन्यप्रतिषेधेनेत्युक्तं, तत्र घटत्वादीनामतघ्यावृत्तिरूपतामभ्युपगच्छता सौगतानां मते अन्यप्रतिषेधेन प्रतिपादकत्वं विशेषस्येष्टमेव, परन्तस्याभावरूपतया तुच्छत्वमेव न चैवमत्रेत्याशयेनाह-न चाभावःप्रतिषेधमात्रमिति, तुच्छस्वरूपमित्यर्थः। अथवा प्रागभावादिचतुर्विधस्याभावस्य वैशेषिकमते सर्वथा भावव्यतिरिक्तत्वेन सप्तमपदार्थताऽभ्युपगता तथाऽत्र नेत्यभिप्रायेणाह-नचाभावःप्रतिषेधमात्रमिति, प्रतिषेधमानं भावखरूपतानाक्रान्ताभावखरूपम् ।

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150