Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 57
________________ [१६] सामान्यांशे प्रमाणगोचरतां गतेऽपीन्द्रियविषयसांकर्याभावः । [तत्वार्थन्त्रिसूत्री चक्षुरादिज्ञानावरणकर्मक्षयोपशमविशेषात् तादृश एवासौ क्षयोपशमो येन समस्तान्येवेन्द्रियाण्येकसामान्यग्रहणे व्याप्रियन्ते, न पुनर्विशिष्टान्यान्यार्थग्रहणे, तथा दृश्यमानत्वात् । न चास्ति काचिदू युक्तिर्यद् विवक्षितं वस्तु सर्वथा वस्त्वन्तरेणासदृशं स्वरूपेऽवस्थास्यते, सर्वप्रकारमतुल्यत्वाद् वन्ध्यासुतादिवत् , अतो भावान्तरेण तुल्यताऽवश्यमभ्युपेया विवक्षितस्य वस्तुनः सत्त्वमिच्छता। तच्च सामान्यं ध्रौव्यलक्षणम् । न चैतद् बुद्धिपरिकल्पनामात्रे सामान्ये घटते, परिकल्पस्य वस्त्वसंस्पर्शात् तादवस्थ्यं दोषाणाम् , परिकल्पश्चाभूतोऽपि तत्त्वतो वस्तुष्वेव तादृशीं धियमुत्पादयति, नावस्तुषु वाजिविषाणादिष्विति किमत्र कारणम् ?, उपादाय वस्तु विकल्पः प्रवर्तत इति चेत् , तदसत्, तस्य वस्तुनो वस्तुत्वेनानिर्धारितत्वान्नोपादानकारणता, न च सर्वथा वस्तुनः तुल्यतैव, यदि स्यात् ततो वैरूप्यशून्यत्वाद् विवक्षितं वस्तु वस्त्वन्तरादन्यदित्येष प्रत्ययो न स्यात् , केनचिदप्याकारेण भेदाभावात् , अतो भेदमभिलषता प्रेक्षापूर्वकारिणा वैरूप्यमपि केनचिदाकारेणाभ्युपेयम् , एवं चेत् सामान्यविशेषखभावं सर्वदा सर्वमेव वस्त्विति प्रतिपत्तव्यम् । न च सामान्यविशेषयोः स्खलक्षणभेदेऽप्यत्यन्तभेदः, शबलरूपत्वात् , वस्तुनश्च वस्तुतयाऽपि वस्त्वन्तरातुल्यत्वेऽन्यतरस्यावस्तुत्वप्रसङ्गात् तदविनाभावाच्च द्वितीयस्याप्यभाव इति सर्व शून्यं स्यात् , इष्यत एवेति चेत् , तदयुक्तम् , प्रमाणप्रमेयप्रतिपाद्यप्रतिकैलक्षण्यमपीत्याशयेनाह-चक्षुरादीति । इन्द्रियविषयसङ्करहेतोः क्षयोपशमविशेषस्य माहात्म्यमाविर्भावयति-तादृश एवेति, विशिष्टेति, सर्वथा विलक्षणेत्यर्थः, तेन विशेषांशमादाय विभिन्नार्थग्राहित्वस्य सिद्धान्त्यभ्युपगतत्वेऽपि न क्षतिः । उक्ताभ्युपगमेऽनुभवं प्रमाणयति-तथा दृश्यमानत्वादिति । ननु सर्व वस्तु परस्परं विलक्षणमेव ततो न सामान्यांशसम्भावनाऽपीत्यत आह-नचास्तीति । यद्धि न केनचित्सदृशं तन्न सत् यथा वन्ध्यासुतः, असदृशं च वस्त्वभ्युपगम्यते पर्यायैकान्तवादिनेति तदपि न सत्स्यादित्याह-सर्वप्रकारमतुल्यत्वादिति, तच्च तुल्यतालक्षणच । ननु कल्पितेनैव सामान्येन तुल्यताऽस्तु कोऽत्र दोष इत्यपेक्षायामाह-न चैतदिति, एतत् तुल्यत्वम् । परिकल्पस्य, कल्पनैकमात्रशरीरस्य सामान्यस्य । वस्त्वसंस्पर्शात्, पारमार्थिकवस्तुसंसर्गाभावात् । तादवस्थ्यं दोषाणामित्युक्तं तदेव स्पष्टयति-परिकल्पश्चेत्यादिना, किमत्र कारणमित्यन्तेन, किमत्र कारणमित्यस्य काका नास्त्यत्र कारणमित्यर्थः । वस्तून्युपादाय विकल्पः प्रवर्तते नावस्तूनि, ततो वस्तुष्वेवानुगतबुद्धि वस्तुषु शशविषाणादिष्विति परः शङ्कते-उपादायेति, वस्तु उपादायेत्यन्वयः, वस्तुनः विकल्पं प्रति कारणत्वे सति वस्तु उपादायेति वक्तुं शक्यते, कारणत्वं च वस्तुत्वेनैव वाच्यम्, अन्यथा शशशृङ्गादिकमुपादायापि अनुगतबुद्धिः प्रवर्तेत, वस्तुत्वश्चोत्पादव्ययध्रौव्ययुक्तत्वमिति ध्रौव्यांशमन्तरेण न निर्णयविषय इति । ध्रौव्यांशाभावे शशशृङ्गादिवद्वस्तुत्वेनाभिमतस्यापि वस्तुत्वाभावाद्वस्तूपादाय विकल्पः प्रवर्तत इति वक्तुं न शक्यत इति समाधत्ते-तदसदिति, एतावता सर्वथा पर्यायरूपतैवेत्यस्य व्यवच्छेदः । इदानीं सर्वथा सामान्यरूपमेव वस्त्वित्यपि नास्तीत्याह-नच वस्तुन इति । सर्वथा वस्तुनस्तुल्यताभ्युपगमे दण्डमाह-यदि स्यादिति. सर्वथा यदि वस्तुनः तुल्यता स्यादित्यर्थः । ततः तदा । भेदमभिलषता, विवक्षितं वस्तु वस्त्वन्तरादन्यदिति भेदप्रतीतिमभिलषतेत्यर्थः, तेन द्रव्यैकान्तवादिनो भेदाभिलाषाभावेऽपि न क्षतिः, व्यवहारान्यथानुपपत्त्या भेदप्रतीतिस्तस्यापीष्टत्वादभिलाषागोचर इत्यभिसन्धिः । अनुगतप्रतीत्यनुरोधेन सामान्यस्य व्यावृत्तिप्रतीत्यनुरोधेन भेदस्य च सिद्धौ सत्यां यन्निष्पन्नं तदाह-एवं चेदिति । ननु सामान्यविशेषयोः परस्परविविक्तलक्षणकत्वेनैकवस्तुखरूपत्वं कथं स्यालक्षणात्मकविरुद्धधर्माध्यासात्परस्परं भेद एव स्यादित्यत आहनचेति, खलक्षणभेदेऽपीति, सामान्यस्य यल्लक्षणमनुगतप्रतीतिजनकत्वं विशेषस्य च यल्लक्षणं व्यावृत्तिबुद्धिजनकत्वं तद्धदाढ़ेदेऽपीत्यर्थः । न चात्यन्तभेद इत्यत्र हेतुमाह-शबलरूपत्वादिति, चित्रस्वभावत्वादित्यर्थः, वस्तुत्वेन रूपेण सर्वेषां वस्तूनामैक्यं स्वस्खासाधारणरूपेण भेद इत्येवं भेदाभेदसंवलनात्मकत्वादिति यावत् । एतदेव भावयितुमाह-वस्तुन ति, एकेन वस्तुना समं द्वितीयस्य वस्तुनस्तुल्यत्वं तदैव न भवेद्यधुभयोर्वस्तुत्वं न स्यात्, अन्यथा वस्तुत्वस्योभयत्र सत्त्वासपेण तुल्यतां को वारयिता, वस्तुत्वाभावे चावस्तुत्वं स्यादेवेत्यर्थः । अत्र माध्यमिक आह-इष्यत पवेति, सर्वस्य ज्यत एवेत्यर्थः । शन्यताऽपि कथायामेव केनचित्प्रमाणेन शून्यतावादिना जगत्सत्यस्ववादिनम्प्रति साधनीया, तद

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150