Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[ १०६ ] एवम्भूतनयस्य प्रवृत्तिनिमित्तभेदादर्थभेदः, त्रिसूत्रयुपसंहारश्च । [ तत्रार्थत्रिसूत्री नीते, अत्यन्त भिन्नप्रवृत्तिनिमित्तत्वाद् भिन्नार्थत्वमेवानुमन्यते घटशक्रादिशब्दानामिवेति; एवंभूतः पुनर्यथासद्भावं वस्तु वचसो गोचरमापृच्छति, इच्छति चेष्टाविष्ट एवार्थो घटशब्दवाच्यश्चित्रालेखनोपयोगपरिणतश्च चित्रकारः, चेष्टारहितस्तिष्ठन् घटो न घटशब्दवाच्यः तच्छब्दार्थरहितत्वात् कुटशब्दवाच्यार्थवत्, नापि भुञ्जानः शयानो वा चित्रकाराभिधानाभिधेयश्चित्रज्ञानोपयोगपरिणतिशून्यत्वाद् गोपालादिवत्, एवमभेदभेदार्थवाचिनोऽनेकैकशब्दवाच्यार्थावलम्बिनश्च शब्दप्रधाना अर्थोपसर्जनाः शब्दनयाः प्रदीपवदर्थस्य प्रतिभासका व्यञ्जनपर्यायसंज्ञकाः । तदेवमर्थव्यञ्जन पर्यायार्पणानर्पणद्वारकाने कामकै कार्थनिरूपणवदभिधानप्रत्यय विषयाऽपि भावनाऽभिधेया । तत्र पुद्गलद्रव्यपरिणतिविशेषः शब्दोऽभिधानः, पुद्गलद्रव्यं चातीतवर्तमानागामिभूरिपर्याय परिणाम्यर्पितानर्पित भजनापेक्षया सदसन्नित्यानित्याद्यनेकधर्मात्मकम् प्रत्ययोऽपि हि ग्रहणलक्षणात्मद्रव्यांशापेक्षया सङ्ख्यापरिमाणाकाराद्यनेकरूपपर्यायापेक्षया च सदसन्नित्यानित्यादिस्वभाव इत्येवं सदसन्नित्यानित्यादिस्वभावं जगत् पञ्चास्तिकायात्मकमर्पितानर्पितलक्षणसकलशास्त्रगर्भत्रिसूत्रीविन्यासस्याद्वादप्रक्रियासङ्गतेः सिद्धम् ॥ ३१ ॥
प्रवृत्तिनिमित्तं, तश्चेन्द्रशक्रादीनां भिन्नमेवेति भिन्नार्थत्वमेवैषामित्याह- अत्यन्तभिन्नप्रवृत्तिनिमित्तत्वादिति । येषां प्रवृत्तिनिमित्तभेदस्तषां भिन्नार्थत्वमित्यत्रोभयप्रसिद्धं दृष्टान्तमाह - घटशक्रादीनामिवेति । व्युत्पत्तिनिमित्ताविष्ट एव शब्दस्यार्थो न तु तच्छून्यकालीनस्तदुपलक्षित इत्यभ्युपगमपर एवम्भूतोऽपि भेदद्वारेण वचनाभ्युपगन्तेत्याह - एवम्भूत इति । व्युत्पत्तिनिमित्तानारुषितं नेच्छतीति स्पष्टयति- चेष्टारहित इति, अनेन च परार्थानुमानरूपं प्रमाणमत्रार्थे उपनिबद्धं श्रोतॄणां सन्तोषाय । एषां शब्दप्राधान्यार्थोपसर्जनत्वाभ्यां व्यञ्जनपर्यायसंज्ञकत्वमित्युपसंहारद्वारा स्पष्टयति- एवमित्यादिना, अभेदार्थवाच्यनेकशब्दवाच्यार्थावलम्बी शब्दनयः, भेदार्थवाच्येक शब्दवाच्यार्थावलम्बिनौ समभिरूढैवम्भूतौ, ते च शब्दप्रधाना नियतलिङ्गत्वनियतवचनत्वादीनां शब्दगतत्वात्तदाश्रयणेन शब्दनयप्रवृत्तिः । एवं व्युत्पत्तिनिमित्तमपि शब्दनिर्वचनमपेक्ष्यैव भवति, तदाश्रयेण च समभिरूढैवम्भूतयोः प्रवृत्तिरिति शब्दप्रधानत्वं स्पष्टमेव । शब्दपृष्ठ भावेनार्थ प्ररूपकत्वादर्थोपसर्जनाः, यथा - दीपो घटादीनभिव्यञ्जयति एवमेतेऽर्थानभिव्यञ्जयन्तीत्याह-प्रदीपवदिति । एवं चार्थपर्यायार्पणव्यञ्जनपर्यायानर्पणाभ्यां व्यञ्जनपर्यायार्पणार्थ पर्यायानर्पणाभ्याञ्चैकानेकात्मकैकार्थनिरूपणवत्तथाविधशब्दनिरूपणं तथाविधावबोध निरूपणमपीति शब्दपर्यायाश्रयणेन तदवबोधपर्यायाश्रयणेन च सप्तभङ्गप्रवृत्तिरुपपत्तिपद्धतिमासादयतीत्याह - तदेवमिति । तत्र शब्द धर्मीकृत्य सप्तभङ्गयुपपत्तये शब्दस्यानेकधर्मात्मकत्वमुपपादयति-तत्रेति । अवबोधं धर्मीकृत्य सप्तभङ्गयुपपत्तये अवबोधस्याने कधर्मात्मकत्वमुपपादयति-प्रत्ययोऽपीति । त्रिसूत्रीव्याख्यानपरिसमाप्तिमुपसंहरति - एवमिति ॥ ३१ ॥ शुभं भवतु ॥
इति श्री तपोगच्छाधिपतिशासन सम्राड् जगद्गुरु श्रीविजयने मिसूरीश्वरपट्टालङ्कारव्याकरणवाचस्पतिशास्त्रविशारद - कविरत्नविजयलावण्य सूरिविरचिता तत्त्वार्थत्रिसूत्री प्रकाशिका समाप्ता ॥
छद्मस्थेषु सदा स्खलद्गतितया दोषप्रबन्धान्वये, नो हास्यास्पदमत्र दोषघटनायां स्वामहं धीमताम् । नो प्रार्थ्याः कृतिनो निसर्गगरिमावासा मया शोधने, येषां दोषगणप्रमार्जन विधिः स्वाभाविकोऽयं यतः ॥ १ ॥

Page Navigation
1 ... 145 146 147 148 149 150