Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
टीकाविकृतियुता ] शब्दनयार्थनयविभागः, अर्थनयानां च सप्तभङ्गीप्रयोजकता च । [१०५ ] तिकसमभिरूढैवंभूतनयाः श्रोतृविषयाः श्रुतज्ञानात्मका: शब्दरूपरूपित विज्ञानत्वाच्छब्दप्रमाणकाः, यच्छब्द आह यथा च तथैवार्थ इति शब्दपृष्ठेनार्थपरिच्छेदं कुर्वन्ति, अत एवैतेष्वभिधानस्वरूपशुद्धिपरा चिन्ता, चक्षुर्विमलीकरणाञ्जनवत् । तत्रार्थनयाः सत्त्वासत्त्व वर्तमान सत्त्वमात्रैषिणः प्रत्येकात्मकाःसंयुक्ताश्च सप्तविधवचननिर्वचन प्रत्यलाः । विविक्तसत्त्वमात्रपरिग्रहात् सत्त्वसङ्ग्रहः, अन्यासत्त्वमेव सत्वमिति व्यवहारः, वर्तमानप्रधानत्वाद् वर्तमानमेव सत्त्वमृजुसूत्रः । तत्र स्यादस्तीति सङ्ग्रहः १ स्यान्नास्तीति व्यवहारः २ सङ्ग्रहव्यवहारयोगात् स्यादवक्तव्यः ३ सङ्ग्रह व्यवहार विभागसंयोगादेव स्यादस्ति च नास्ति च ४ स्यादस्त्यवक्तव्यश्चेत्यत्र सङ्ग्रहः सङ्ग्रहव्यवहारौ चाविभक्तौ ५ स्यान्नास्त्य - वक्तव्यश्चेत्यत्र व्यवहारः सङ्ग्रहव्यवहारौ चाविभक्तौ ६ स्यादस्ति नास्त्यवक्तव्यश्चेत्यत्र विभक्तौ सङ्ग्रह - व्यवहारावविभक्तौ वा ७ इत्येवमर्थ पर्यायैः सप्तधा वचनव्यवहारः । व्यञ्जनपर्यायाः शब्दनयाः, त्वभेदभेदद्वारेण वचनमिच्छन्ति, शब्दनयस्तावत् समानलिङ्गानां समानवचनानां च शब्दानामिन्द्रशक्रपुरन्दरादीनां वाच्यं भावार्थमेवाभिन्नमभ्युपैति न जातुचिद् भिन्नलिङ्गं भिन्नवचनं वा शब्दं स्त्री दारास्तथाऽऽपो जलमिति; समभिरूढस्तु प्रत्यर्थं शब्दनिवेशादिन्द्रशक्रादीनां पर्यायशब्दत्वं न प्रतिजा - वनीयेत्यभिसन्धिः । प्रसङ्गागतशब्दनयखरूपमुपदर्शयति-शब्दनयास्त्विति । अथवाऽर्थशुद्धिप्रवणायां सप्तभायां शब्दनयानामनुपयोगस्तत्स्वरूपावबोधमन्तरेण ज्ञातुं न शक्य इत्यतस्तत्स्वरूपमुपदर्शयति - शब्दनया स्त्विति । श्रोतृविषया इति, श्रोत्रा यथा शब्दपृष्टभावेनार्थोऽवबुद्ध्यते तथैव साम्प्रतिकादीनामवबोधकत्वेन श्रोतृपदेन श्रोतृज्ञानविषयो लक्ष्यते, एवं च श्रोतृज्ञानविषयविषया इत्यर्थः । कथमेतेषां श्रुतज्ञानात्मकत्वमित्यपेक्षायामाह - शब्दरूपेति । एतदेव प्रपञ्चयति यच्छब्द आहेति । अत एवेति, यतश्चैषां शब्दनयत्वमत एवेत्यर्थः । एतेषु साम्प्रतिकसमभिरूढैवम्भूतेषु । चक्षुरिति, चक्षुर्हि न ज्ञानं किन्तु ज्ञानकरणं तथापि चक्षुषो विमलीकरणेन तज्ज्ञानमेव विमलीकृतं भवति, तथाऽभिधानस्य न ज्ञानत्वं किन्तु ज्ञानकरणत्वं तथापि तद्विमलीकरणे तज्जनितज्ञानमेव विमलं सम्पद्यत इति तत्स्वरूपशुद्धिपरा चिन्ता फलवती भवत्येव । अर्थनयशब्दनया वुपदर्यार्थ नयानां सप्तभङ्गी प्रत्यलत्वमाविष्करोति तत्रेति । सत्त्वासत्त्वेत्यादि, मात्रपदेन सत्त्वादीनां प्रत्येकमन्वयात् सत्त्वमात्रासत्त्वमात्र वर्तमान सत्त्वमात्राभ्युपगमपरा इत्यर्थः । प्रत्येकात्मका इति, सत्त्वमात्राभ्युपगमपरः केवलः संग्रहनयो वर्त्तमानसत्त्वमात्राभ्युपगमपरः केवल ऋजुसूत्रनयश्च प्रथमभङ्गप्रवर्त्तकः, असत्त्वमात्राभ्युपगमपरः केवलो व्यवहारनयश्च द्वितीयभङ्गनिर्वर्त्तकः । संयुक्ताश्चेति, संयुक्तौ संग्रहव्यवहारौ ऋजुसूत्रव्यवहारौ च तृतीयादिसप्तमं भङ्गान्तपञ्चभङ्गप्रवर्त्तकाः । सङ्ग्रहादीनां विविक्तं विषयमुल्लिखति- विविक्तेति । सप्तभङ्गयां यस्य भङ्गस्य यथा यन्नयमूलकत्वं तथा तदुपदर्शयति-तत्रेति । सङ्ग्रह - व्यवहारयोगाद् अविभक्तसंग्रहव्यवहार संयोगात् । विभागसंयोगात् विभक्तसंयोगात् । सङ्ग्रहः स्यादस्तीत्यंशः सङ्ग्रहः, अवक्तव्य इत्यंशश्च अविभक्तौ सङ्ग्रहव्यवहारौ, व्यवहारः स्यान्नास्तीत्यंशो व्यवहारः, अवक्तव्य इत्यंशश्व अविभक्तौ संग्रहव्यवहारौ, स्यादस्ति इति सङ्ग्रहः स्यान्नास्ति इति व्यवहार इत्येवं द्वावंशौ विभक्तौ संग्रहव्यवहारौ, अवक्तव्यश्चेत्यंशः, अविभक्तौ सङ्ग्रहव्यवहारौ । इत्येवममुना प्रकारेण । अर्थपर्यायैः, अर्थनयाभ्युपगतार्थपर्यायैः सत्त्वासत्त्वादिधर्मैः । शब्दनयैर्वचनव्यवहारमुपदर्शयितुमाह-व्यञ्जनपर्यायाः शब्दनया इति, व्यज्यतेऽर्थोऽनेनेति व्यञ्जनं शब्दः तत्सम्बन्धिनः पर्याया विषयतया येषां ते तथा, व्यञ्जनपर्यायविषया इत्यर्थः, ते शब्दनयाः । अभेदभेदद्वारेणेति, कश्चिदभेदद्वारेण, कश्चित्पुनर्भेदद्वारेण वचनं शब्दमिच्छन्ति, अभिन्नार्थकत्वं शब्दानामभ्युपैति कश्चित् अर्थादभिन्नलिङ्गवचनादीनामभिन्नार्थकत्वमिच्छति, भिन्नलिङ्गवचनादीनाञ्च तत्त्वं नेच्छति इत्यभेदद्वारेण वचनमिच्छतीत्यस्य फलितोऽर्थः कश्चित्तु पर्यायतया प्रसिद्धानामपि भिन्नार्थकत्वमेवाभ्युपैति शब्दानां पर्यायतां नेच्छति, इति भेदद्वारेण वचनमिच्छतीत्यस्यार्थः । तत्राभेदद्वारेण वचनाभ्युपगमपरः शब्दनय इत्याह- शब्दनयस्तावदिति । भावार्थमेवेति, नामस्थापनाद्रव्यभावेष्वर्थेषु सत्सु तत्र भावार्थमेवाभिन्नमेकमभ्युपगच्छति, एवकारेण नामस्थापनाद्रव्याणां व्यवच्छेदः । समानलिङ्गानां समानवचनानामित्यनयोर्व्यवच्छेद्यमाह-न जातुचिदिति, स्त्रीदारशब्दयोर्भिन्नलिङ्गत्वमप्यस्ति भिन्नवचनत्वमप्यस्ति एवमप्जलशब्दयोरपि, तयोर्नाभिन्नार्थत्वमभ्युपगच्छति शब्दनयः । भेदद्वारेण वचनाभ्युपगमपरः समभिरूड इत्युपदर्शयति- समभिरूढ स्त्विति । एतन्मते व्युत्पत्तिनिमित्तमेव
त० त्रि० १४

Page Navigation
1 ... 144 145 146 147 148 149 150