Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
[१०४]
सप्तमभङ्गस्वरूपोपवर्णनम् ।
[ तत्त्वार्थत्रिसूत्री
अधुना सप्तम विकल्पचतुर्भिरंशैरूयंशः । कश्चिद् द्रव्यार्थविशेषमाश्रित्यास्तित्वं पर्यायविशेषं च कचिदङ्गीकृत्य नास्तित्वं समुचितरूपं भवति, द्वयोरपि प्राधान्येन विवक्षितत्वात्, तथा द्रव्यसामान्येन पर्यायसामान्येन च युगपदवक्तव्यः स्यादस्ति च नास्ति चावक्तव्यश्वात्मेति । भावना तु द्रव्यार्थात् सति द्रव्यत्वे देहेन्द्रियादिव्यतिरिक्तात्मत्वेन विशेषेण नास्तित्वमतोऽस्ति च नास्ति च स एवात्मा, द्रव्यपर्यायसामान्य सदसत्त्वाभ्यां युगपदवाच्य इति । एवमर्थानुरोधाद् विवक्षावशाच्च सप्तधैष वचनप्रवृत्तिः, नान्यथाऽपि प्रवृत्तिनिमित्ताभावात्, एष च मार्गे द्रव्यार्थ पर्यायार्थाश्रयः, तौ च सङ्घद्यात्मक, सङ्ग्रहादयश्चार्थशब्दनयरूपेण प्रधाविताः, तत्र सङ्ग्रहव्यवहारर्जुसूत्रैरर्थनयैयौं द्रव्यार्थ - पर्यायार्थी तदाश्रयैषा सप्तभङ्गी । तत्र अनपेक्षितोपदेशकब्दव्यापारमिन्द्रियानिन्द्रियनिमित्तमर्थरूपोत्पादितं मतिज्ञानम्, अर्थनया वक्तृपरिच्छेदविषयाः, ते त्वर्थपृष्ठेनैवार्थं गमयन्ति । शब्दनयास्तु साम्प्रनिरूपितस्वरूपं नास्तित्वं पर्यायांश इत्यर्थः । द्रव्यार्थांशमाह - सर्वार्थज्ञातृत्वादिति, आत्मा सर्वपदार्थाजानातीति सर्वरूपः सर्वव्यापारे प्रधानत्वादात्मन एव विनियोग इत्यतोऽपि सर्वरूप इत्येवं सर्ववस्तुत्वमात्मनो रूपमिति सर्ववस्तुत्वेन सन्नात्मेति द्रव्यांशः । आभ्यां पर्यायांशद्रव्यांशाभ्याम्, अस्मिन् भने एकं नास्तित्वं परगताचैतन्यादिधर्मेणात्मनोऽभावात्परपर्यायापेक्षया द्वितीयच पर्याया एव सन्ति न तद्व्यतिरिक्तमात्मद्रव्यमिति पर्यायार्थिकनयाश्रयेण द्रव्यांशरूपेणात्मनोऽभाव इत्येवंरूपं स्वपर्यांयाश्रयेण, तच्चावक्तव्यस्वरूपप्रविष्टम्, एकच द्रव्यार्थांशोऽस्तित्वमिति त्रिभिरात्मभिः - स्यान्नास्ति स्यादवक्तव्यश्चेति ॥ सप्तमभङ्गम्भावयति-अधुनेति । चतुर्भिरंशैरिति यदुक्तं तदेवोपपत्तिकोटिमानयति-कञ्चिदित्यादिना । समुच्चितरूपमिति, स्यादस्ति स्यान्नास्तीत्येवं क्रमविवक्षयोपनीतोभयरूपमित्यर्थः, अनेनांशद्वयं प्रतिपादितम् । द्वयोरपि अस्तित्वनास्ति - त्वोभयोरपि । विवक्षितत्वात् क्रमेण विवक्षितत्वात् । यच्च द्रव्यार्थविशेषमाश्रित्यस्तित्वं पर्यायविशेषं च नास्तित्वं क्रमवक्षयोपनीतं तदेव तदानीमेव युगपद्विवक्षयितुं न शक्यते एकस्यैकदा क्रमयुगपद्विवक्षयोरसम्भवादतो द्रव्यसामान्यमस्तित्वं पर्यायसामान्यं च नास्तित्वं युगपद्विवक्षयाऽवक्तव्यरूपतामनुभवतीत्याह - तथेति । एवं चावक्तव्यांरोंऽशद्वयं प्रविष्टमिति भवत्यस्य चतुर्भिरंशैर्निष्पत्तिः । त्र्यंशतां चास्य स्वरूपोपदर्शनेन प्रकटयति- स्यादस्ति च नास्ति चावक्तव्यश्चात्मेतीति । अस्तित्वनास्तित्वावक्तव्यत्वानामेकत्र सद्भावोपपत्तिम्भावयति - भावना त्विति । द्रव्यार्थाद् द्रव्यार्थिकनयाश्रयणात् । सति द्रव्यत्वे द्रव्यत्वे सति, तेन रूपेणात्मनोऽस्तित्वमिति । एवं सामान्यतो द्रव्यत्वेनास्तित्वे सत्येव, विशेषेणात्मगतेनैव द्रव्यार्थादेशान्नास्तित्वं यतो द्रव्यार्थो विशेषेणात्मनः सत्तां नाभ्युपगच्छतीत्याशयेनाह - देहेन्द्रियादीति । एवं सत्यंशद्वयं सिद्धमित्याह - अतोऽस्ति च नास्ति च स एवात्मेति । अवक्तव्यमंशम्भावयति द्रव्येति, द्रव्यसामान्यं सत्त्वं पर्याय सामान्यमसत्त्वं ताभ्यामित्यर्थः । यत उक्तन्यायेन सप्तैव धर्मा एकस्य विधिनिषेधाभ्यां विवक्षया सम्भवन्ति, ततः सप्तधैव वचनप्रवृत्तिरिति सप्तभङ्गयेव नाष्टभनयादीत्याह - नान्यथाऽपीति, नाष्टधा नवधेत्याद्यपि कापि वचनप्रवृत्तिरित्यर्थः । तत्र हेतुः - प्रवृत्तिनिमित्ताभावादिति, वचनप्रवृत्तिनिमित्तानां सप्तानामेव धर्माणां भावेन ततोऽधिकानामभावादित्यर्थः । इयं दर्शिता सप्तभङ्गी द्रव्यपर्यायनयसमाश्रिता, द्रव्यपर्यायनयौ चात्रार्थविषयको ज्ञेयौ, ततश्च सङ्ग्रहव्यवहार्जुसूत्रनयाश्रिता प्रकृता सप्तभङ्गेति दर्शयति - एष चेति, उपदर्शितप्रकार समाश्रयश्चेत्यर्थः । तौ च द्रव्यार्थपर्यायार्थौ च । प्रधाविता विकल्पिताः, अनयरूपाः शब्दनयरूपाश्चेति यावत् । प्रकृतेयं सप्तभङ्गी अर्थनयसमाश्रितेत्याह- तत्रेति । अर्थनया अर्थप्रधाना अर्थमभिमुखीकृत्य तज्ज्ञानं जनयन्तीत्यर्थपृष्ठभावेनार्थगमका उच्यन्ते, तजनितज्ञानञ्च मतिज्ञानम्, शब्दाज्जायमानमपि तच्छब्दव्यापारगौणभावान्न श्रुतज्ञानम् । वक्तुर्यद्वाक्यरचनानुकूलं वाक्यार्थयथार्थज्ञानम्प्रमाणान्तरोपजनितं तद्विषयविषयकत्वमेवार्थनयानामित्युपदर्शयति-अनपेक्षितोपदेशकशब्दव्यापारमिति । प्रकृते च सप्तभङ्गीजन्यज्ञानस्य नेन्द्रियनिमित्तत्वं किन्त्वनिन्द्रियमनोनिमित्तत्वम् । अर्थरूपोत्पादितं यथाऽर्थस्वरूपं तथैव तजनितं तज्ज्ञानम्, अर्थनयोत्थत्वादर्थ रूपोलादितमित्यभिमतमतोऽर्थनयस्यार्थाभिमुख्येनैवार्थ गमकत्वमुपपादनीयमित्याशयेन तदुपपादयति- अर्थनया वक्तृपरिच्छेदविषया इति, वक्तृज्ञानविषयविषया अर्थनया इत्यर्थः वक्त्रा परिच्छेदो निर्णयो यस्यार्थस्य स वक्तृपरिच्छेदः स विषयो येषां ते तथेत्येवं समासाश्रयणेन तथालाभादिति बोध्यम् । ते तु अर्थनयाः पुनः । तथा चार्थनयेनैवार्थावबोधिका सप्तभङ्गी अर्थशुद्धिप्रवणा विभा

Page Navigation
1 ... 143 144 145 146 147 148 149 150