Book Title: Tattvartha Trisutri Prakashika
Author(s): Vijaylavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 143
________________ [१०२] चतुर्थपञ्चमभङ्गस्वरूपोपवर्णनम् । [तत्त्वार्थत्रिसूत्री क्रोधादिमत्त्वं च, एवं बहवो द्रव्यार्थपर्यायार्थयोवृत्तिभेदाः सर्वेऽपि तस्यांशाः, तैर्द्रव्यपर्यायरूपैर्वक्तुमिष्यमाणो नानारूप आत्मोच्यते । भावना तु स्यादस्ति च नास्ति च, द्रव्यार्थभेदेन चैतन्यसामान्येनास्ति, चैतन्यविशेषविवक्षायां वाऽस्त्येकोपयोगत्वात् , पर्यायतस्तु अचैतन्येन नास्ति, घटोपयोगकाले वा पटाद्युपयोगेनासन् , चैतन्येन तद्विशेषेण वा वर्तमान एव तदभावेन तद्विशेषाभावेन वर्तते इत्युभयाधीनस्तस्यात्मा, अन्यथाऽऽत्माभाव एव स्यात् । एवं सर्वसिद्धान्तेषु पदार्थाः परस्परविरुद्धार्थत्वात् तदतद्रूपसमुच्चयात्मकाश्चतुर्थविकल्पोदाहरणीयाः ॥ ___ पञ्चमविकल्पस्तु-स्यादस्ति चावक्तव्यश्चात्मेति, तत्रानेकद्रव्यपर्यायात्मकस्य सतः कश्चिद् द्रव्यार्थविशेषमाश्रित्यास्तीत्यात्मनो व्यपदेशः, तस्यैवान्यात्मद्रव्यसामान्यं तद्विशेषं द्वयं वाऽङ्गीकृत्य युगपद्विवक्षायामवक्तव्यता, स्फुटतरमेतद् विभाव्यते-स्यादस्त्यात्मा द्रव्यत्वेन द्रव्यविशेषेण वा जीवत्वेन मनुष्यत्वादिना वा, द्रव्यपर्यायसामान्यमुरीकृत्य वस्तुत्वावस्तुत्वसत्त्वासत्त्वादिना विशेषेण वा मनुष्य भवति क्रोधादिपरिणतस्येति पर्यायदेशात्कोधाद्युत्कर्षापकर्षभेदा अपि कालतः पर्यायवृत्तिविशेषा एव । एवं कालतोऽन्योपि पर्यायवृत्तिविशेष इत्याह-तथेति । भावतो द्रव्यपर्यायवृत्तिविशेषानात्मनो दर्शयति-भावत इति। शत्वं द्रव्यवृत्तिविशेषः, क्रोधादिमत्वं च पर्यायवृत्तिविशेषः। एवमुक्तप्रकारेण । तस्य वस्तुभूतस्यात्मनः। तैर्द्रव्यार्थपर्यायार्थवृत्तिविशेषैः । इदानीं तुरीयभङ्गोपपत्तिमधिकरोति-भावना त्विति । स्यादस्ति च नास्ति चेति सामान्यतस्तुरीयभङ्गखरूपमुद्घाटितम् । तव्यार्थपर्यायार्थविशेषैरुपपत्तिपद्धतिमानयति-द्रव्यार्थभेदेनेति । चैतन्यविशेषेणास्तित्वमाश्रित्यापि स्यादस्तीत्यंशो घटत इत्याह-चैतन्यविशेषविवक्षायामिति । स्यादस्तीति विभाव्य स्यान्नास्तीति विभावयति-पर्यायतस्त्विति, पर्यायनयेनेत्यर्थः। अचैतन्येन चैतन्यसामान्यप्रतिपक्षेण । चैतन्यविशेषस्य कस्यचिदन्योपि चैतन्यविशेषो विपक्षो भवति तेनापि नास्तीत्यंश उपपद्यत इत्याशयेनाह-घटोपयोगकाले चेति । चैतन्येन चैतन्यसामान्येन । तद्विशेषेण घटाधुपयोगलक्षणचैतन्यविशेषेण । तदभावेन, चैतन्यसामान्याभावेन, अचैतन्येनेति यावत् । तद्विशेषाभावेन घटाधुपयोगलक्षणचैतन्यविशेषाभावेन । उभयाधीनः सत्त्वासत्त्वोभयाधीनः । तस्य वस्तुभूतस्यात्मनः । आत्मा खरूपम् । अन्यथा एकस्यात्मनः सत्त्वासत्त्वोभयानङ्गीकारे । अत्र च न पक्षपातो विधेयः सर्वदर्शन एव चतुर्थभङ्गाभिमतप्रकारो घटत एवेति सर्वदर्शनगोचराः पदार्था एतद्भङ्गदृष्टान्तीभवन्तीत्याह-एवमिति । सर्वसिद्धान्तेष्विति, यथाऽनेकाकारमेकं चित्रज्ञानम् , तन्मते आकाराकारिणोरभेद इति एकस्यैव चित्रज्ञानस्यानेकत्वमेकत्वञ्च तच्च परस्परविरुद्धमेवेति स्यादेकं स्यादनेकमिति तुर्यभङ्गप्रवृत्तिः, साङ्ख्यनये सत्त्वरजस्तमसां साम्यावस्थाप्रकृतिरित्यस्यैव प्रधानस्य परस्परविरुद्धसत्त्वरजस्तमोगुणात्मकत्वमित्यपेक्षया द्वितीयभङ्गस्तत्राप्यवतरत्येव. न्यायकणादमतयोः पृथिव्यां चित्ररूपमेकानेकात्मकमेवाभ्युपगन्तुमनुभवानुरोधाधुक्तमित्यत्रापि चतुर्थभङ्गप्रवृत्तिरयत्नोपनतैव, गुणगुणिनोर्भेदाभेदावभ्युपगच्छन्तौ मीमांसकवेदान्तिनावपि तुर्यभङ्गप्रवृत्तिं न वारयितुमीशाविति ध्येयम् । पश्चमभङ्गं भावयति-पञ्चमविकल्पस्त्विति । तस्याकारमुल्लिखति-स्यादस्ति चावक्तव्यश्चात्मेतीति । अमुमेवोपपत्तिकोटिमानयति-तत्रेति । अस्तीति व्यपदेशमुपपाद्य अवक्तव्यव्यपदेशमुपपादयति-तस्यैवेति, आत्मन एवेत्यर्थः। अन्येति, यं द्रव्यार्थविशेषमाश्रित्यास्तीति व्यपदेशस्तद्भिन्नेत्यर्थः। वान्यात्मेत्यत्र वान्यमात्मेति पाठो युक्तस्तथा सत्येवास्तिव्यपदेशनिमित्तद्रव्यार्थविशेषभिन्नत्वस्यात्मद्रव्यसामान्ये तद्विशेषे चान्वय उपपद्यते। तद्विशेषम् आत्मद्रव्यविशेषम् । द्वयम आत्मद्रव्यसामान्यतद्विशेषोभयम् । अस्तिव्यपदेशनिमित्तस्य द्रव्यविशेषस्य क्रमविवक्षायां सत्यामेवोल्लासात्तदानीमेव तस्यासत्त्वेन. पर्यायसामान्येन पर्यायविशेषेण वा सह युगपद्विवक्षा न सम्भवतीति तदन्यत्वमात्मद्रव्यसामान्ये तद्विशेषे च विशेषणतयोपात्तम् । युगपद्विवक्षायामिति, असत्त्वादिना सह युगपद्विवक्षायामित्यर्थः। सामान्येनोक्तमेव स्पष्टप्रतिपत्त्यर्थमाह-स्फुटतरेति । स्थादस्त्यात्मेति, द्रव्यत्वेन द्रव्यविशेषेण वा जीवत्वेन मनुष्यत्वादिना वा स्यादस्त्यात्मेति योगः, अनेन च स्यादस्तीत्यंशः स्पष्टीकृतः । अवक्तव्यश्चेत्यंशं स्पष्टीकरोति-द्रव्यपर्यायसामान्यमुरीकृत्येति। तत्र द्रव्यसामान्य वस्तुत्वं सत्त्वं च, पर्यायसामान्यम् अवस्तुत्वम् असत्त्वञ्चेति, एतदभिसन्धायाह-वस्तुत्वावस्तुत्वसत्त्वासत्त्वादिनेति, अस्य युगपदभेदविव

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150